अक्षर आकार:

श्रीकालभैरवाष्टोत्तरशतनामावलिः

Shri Kalabhairava Ashtottarashata Namavali

श्रीकालभैरवाष्टोत्तरशतनामावलिः

ॐ श्रीगणेशाय नमः । ॐ ह्रीं क्रीं हूं ह्रीं कालभैरवदेवाय नमः । कालकालाय । कालदण्डधृते । कालात्मने । काममन्त्रात्मने । काशिकापुरनायकाय । करुणावारिधये । कान्तामिलिताय । कालिकातनवे । कालजाय । कुक्कुटारूढाय । कपालिने । कालनेमिघ्ने । कालकण्ठाय । कटाक्षाऽनुग्रहीताऽखिलसेवकाय । कपालकर्परोत्कृष्टभिक्षापात्रधराय । कवये । कल्पान्तदहनाकाराय । कलानिधिकलाधराय । कपालमालिकाभूषाय नमः ॥ २० ॐ ह्रीं क्रीं हूं ह्रीं कालीकुलवरप्रदाय नमः । काली-कलावती-दीक्षा-संस्कारोपासनप्रियाय । कालिकादक्षपार्श्वस्थाय । कालीविद्यास्वरूपवते । कालीकूर्चसमायुक्तभुवनाकूटभासुराय । कालीध्यानजपासक्तहृदाकारनिवासकाय । कालिकावरिवस्त्यादिप्रधानकल्पपादपाय । काल्युग्रावासव ब्राह्मी प्रमुखाचार्यनायकाय । कङ्कालमालिकाधारिणे । कमनीयजटाधराय । कोणरेखाष्टभद्रस्थप्रदेशबिन्दुपीठकाय । कदलीकरवीरार्ककञ्जहोमार्चनप्रियाय । कूर्मपीठादि शक्तीशाय । कलाकाष्ठाऽधिपालकाय । कठभ्रुवे । कामसञ्चारिणे । कामारये । कामरूपवते । कण्ठादिसर्वचक्रस्थाय । क्रियादिकोटिदीपकाय नमः ॥ ४० ॐ ह्रीं क्रीं हूं ह्रीं कर्णहीनोपवीतापाय नमः । कनकाचलदेहवते । कन्धराकारदहरागसभासुर मूर्तिमते । कपालमोचनानन्ताय । कालराजाय । क्रियाप्रदाय । करणाधिपतये । कर्मकारकाय । कर्तृनायकाय । कण्ठाद्यखिलदेशाहिभूषणाढ्याय । कलात्मकाय । कर्मखण्डाधिपाय । किल्बिषमोचिने । कामकोष्टकाय । कलकण्ठारवानन्दिने । कर्मश्रद्धावरप्रदाय । गुणभाकीर्णगान्धारसञ्चारिणे । गौमतीस्मिताय । किङ्किणीमञ्जुनिर्वाण-कटीसूत्रविराजिताय । कल्याणकृत्कलिध्वंसिने नमः ॥ ६० ॐ ह्रीं क्रीं हूं ह्रीं कर्मसाक्षिणे नमः । कृतज्ञपाय । कराळदंष्ट्राय । कन्दर्पदर्पघ्नाय । कामभेदनाय । कालागुरुविलिप्ताङ्गाय । कादरार्थाऽभयप्रदाय । कलन्तिकाभरदाय । कालीभक्तलोकवरप्रदाय । कमिनीकाञ्चनाभक्तमोचकाय । कमलेक्षणाय । कादम्बरीरसास्वादलोलुपाय । काङ्क्षितार्थदाय । कबन्धनावाय । कामाख्याकाञ्च्यादिक्षेत्रपालकाय । कैवल्यप्रदमन्दाराय । कोटिसूर्यसमप्रभाय । क्रियेच्छाज्ञानशक्तिप्रदीपकानललोचनाय । काम्यादिकर्मसर्वस्वफलदाय । कर्मपोषकाय नमः ॥ ८० ॐ ह्रीं क्रीं हूं ह्रीं कार्यकारणनिर्मात्रे नमः । कारागृहविमोचकाय । कालपर्यायमूलस्थाय । कार्यसिद्धिप्रदायकाय । कालानुरूपकर्माङ्गमोक्षणभ्रान्तिनाशनाय । कालचक्रप्रभेदिने । कालिम्मन्ययोगिनीप्रियाय । काहलादिमहावाद्यातालताण्डवलालसाय । कुलकुण्डलिनीशाक्तयोगसिद्धिप्रदायकाय । कालरात्री महारात्री शिवरात्र्यादि कारकाय । कोलाहलध्वनये । कोपिने । कौलमार्गप्रवर्तकाय । कर्मकौशल्यसन्तोषिणे । केलीभाषणलालसाय । कृत्स्नप्रवृत्तविश्वाण्डपञ्चकृत्यविदायकाय । कालनाथपराय । कालाय । कालधर्मप्रवर्तकाय । कुलाचार्याय नमः ॥ १०० ॐ ह्रीं क्रीं हूं ह्रीं कुलाचाररताय नमः । गुह्वष्टमीप्रियाय । कर्मबन्धाखिलच्छेदिने । गोष्टस्थभैरवाग्रण्ये । कटोरौजस्यभीष्माज्ञापालकिङ्करसेविताय । कालरुद्राय । कालवेलाहोरांशमूर्तिमते । कराय नमः ॥ १०८ इति श्रीकालभैरवाष्टोत्तरशतनामावली सम्पूर्णम् ॥