अक्षर आकार:

श्रीकालभैरवाष्टकम्

Shri Kalabhairavashtakam

श्रीकालभैरवाष्टकम्

अङ्गसुन्दरत्वनिन्दिताङ्गजातवैभवं भृङ्गसर्वगर्वहारिदेहकान्तिशोभितम् । मङ्गलौघदानदक्षपादपद्मसंस्मृतिं श‍ृङ्गशैलवासिनं नमामि कालभैरवम् ॥ १॥ पादनम्रमूकलोकवाक्प्रदानदीक्षितं वेदवेद्यमीशमोदवार्धिशुभ्रदीधितिम् । आदरेण देवताभिरर्चिताङ्घ्रिपङ्कजं श‍ृङ्गशैलवासिनं नमामि कालभैरवम् ॥ २॥ अम्बुजाक्षमिन्दुवक्त्रमिन्दिरेशनायकं कम्बुकण्ठमिष्टदानधूतकल्पपादपम् । अम्बरादिभूतरूपमम्बरायिताम्बरं श‍ृङ्गशैलवासिनं नमामि कालभैरवम् ॥ ३॥ मन्दभाग्यमप्यरं सुरेन्द्रतुल्यवैभवं सुन्दरं च कामतोऽपि संविधाय सन्ततम् । पालयन्तमात्मजातमादरात्पिता यथा श‍ृङ्गशैलवासिनं नमामि कालभैरवम् ॥ ४॥ नम्रकष्टनाशदक्षमष्टसिद्धिदायकं कम्रहासशोभितुण्डमच्छगण्डदर्पणम् । कुन्दपुष्पमानचोरदन्तकान्तिभासुरं श‍ृङ्गशैलवासिनं नमामि कालभैरवम् ॥ ५॥ काशिकादिदिव्यदेशवासलोलमानसं पाशिवायुकिन्नरेशमुख्यदिग्धवार्चितम् । नाशिताघवृन्दमङ्घ्रिनम्रलोकयोगदं श‍ृङ्गशैलवासिनं नमामि कालभैरवम् ॥ ६॥ सारमागमस्य तुङ्गसारमेयवाहनं दारितान्तरान्ध्यमाशु नैजमन्त्रजापिनाम् । पूरिताखिलेष्टमष्टमूर्तिदेहसम्भवं श‍ृङ्गशैलवासिनं नमामि कालभैरवम् ॥ ७॥ कालभीतिवारणं कपालपाणिशोभितं खण्डितामरारिमिन्दुबालशोभिमस्तकम् । चण्डबुद्धिदानदक्षमक्षतात्मशासनं श‍ृङ्गशैलवासिनं नमामि कालभैरवम् ॥ ८॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचितं श्रीकालभैरवाष्टकं सम्पूर्णम् ।