अक्षर आकार:

इन्दुमौलिस्मरणस्तोत्रम्

indumaulismaraNastotram

इन्दुमौलिस्मरणस्तोत्रम्

श्रीगणेशाय नमः ॥ कलय कलावित्प्रवरं कलया नीहारदीधितेः शीर्षम् । सततमलङ्कुर्वाण प्रणतावनदीक्ष यक्षराजसख ॥ १॥ कान्तागेन्द्रसुतायाः शान्ताहङ्कारचिन्त्यचिद्रूप । कान्तारखेलनरुचे शान्तान्तःकरणं दीनमव शम्भो ॥ २॥ दाक्षायणीमनोम्ब्रुजभानो वीक्षावितीर्णविनतेष्ट । द्राक्षामधुरिममदभरशिक्षाकत्रीं प्रदेहि भम वाचम् ॥ ३॥ पारदसमानवर्णौ नीरदनीकाशदिव्यगलदेशः । पादनतदेवसङ्घः पशुमनिशं पातु मामीशः ॥ ४॥ भव शम्भो गुरुरूपेणाशु मेऽद्य करुणाब्धे । चिरतरमिह वासं कुरु जगतीं रक्षन् प्रबोधनानेन ॥ ५॥ यक्षाधिपसखमनिशं रक्षाचतुरं समस्तलोकानाम् । वीक्षादापितकवितं दाक्षायण्याः पतिं नौमि ॥ ६॥ यमनियमनिरतलभ्यं शमदममुखषङ्कदानकृतदीक्षम् । रमणीयपदसरोजं शमनाहितमाश्रये सततम् ॥ ७॥ यमिहृन्मानसहंसं शमिताघौघं प्रणाममात्रेण । अमितायुःप्रदपूजं कमितारं नौमि शैलतनयायाः ॥ ८॥ येन कृतमिन्दुमौले मानववर्येण तावकस्मरणम् । तेन जितं जगदखिलं को न ब्रूते सुरार्यतुल्येन ॥ ९॥ इति इन्दुमौलिस्मरणस्तोत्रं सम्पूर्णम् ॥।