अक्षर आकार:

अगस्त्यप्रोक्तं पापशमनं नाम हरिशङ्करस्तोत्रम्

Harishankarastotram by Sage Agastya

अगस्त्यप्रोक्तं पापशमनं नाम हरिशङ्करस्तोत्रम्

मत्स्यं नमस्ये देवेशं कूर्मं देवेशमेव च । हयशीर्षं नमस्येऽहं भवं विष्णुं त्रिविक्रमम् ॥ २॥ १॥ नमस्ये माधवेशानौ हृषीकेषकुमारिलौ । नारायणं नमस्येऽहं नमस्ते गरुडासनम् ॥ ३॥ जयेशं नरसिंहं च रूपधारं कुरुध्वजम् । कामपालमखण्डं च नमस्ये ब्राह्मणप्रियम् ॥ ४॥ अजितं विश्वकर्माणं पुण्डरीकं द्विजप्रियम् । हरिं शम्भुं नमस्ये च ब्रह्माणं सप्रजापतिम् ॥ ५॥ नमस्ये शूलबाहुं च देवं चक्रधरं तथा । शिवं विष्णुं सुवर्णाक्षं गोपतिं पीतवाससम् ॥ ६॥ नमस्ये च गदापाणिं नमस्ये च कुशेशयम् । अर्धनारीश्वरं देवं नमस्ये पापनाशनम् ॥ ७॥ गोपालं च सवैकुण्ठं नमस्ये चापधारिणम् । नमस्ये विष्णुरूपं च ज्येष्ठेशं पञ्चमं तथा ॥ ८॥ उपशान्तं नमस्येऽहं मार्कण्डेयं सजम्बुकम् । नमस्ये पद्मकिरणं नमस्ये वडवामुखम् ॥ ९॥ कार्त्तिकेयं नमस्येऽहं बाह्लिकं शङ्खिनं तथा । नमस्ये पद्मकिरणं नमस्ये च कुशेशयम् ॥ १०॥ नमस्ये स्थाणुमनघं नमस्ये वनमालिनम् । नमस्ये लाङ्गलीशं च नमस्येऽहं श्रियः पतिम् ॥ ११॥ नमस्ये च त्रिनयनं नमस्ये हव्यवाहनम् । नमस्ये च त्रिसौवर्णं नमस्ये धरणीधरम् ॥ १२॥ त्रिणाचिकेतं ब्रह्माणं नमस्ये शशिभूषणम् । कपर्दिनं नमस्ये च सर्वामयविनाशनम् ॥ १३॥ नमस्ये शशिनं सूर्यं ध्रुवं रुद्रं महौजसम् । पद्मनाभं हिरण्याक्षं नमस्ये स्कन्दमव्ययम् ॥ १४॥ नमस्येऽहं भीमहंसौ नमस्ये हाटकेश्वरम् । सदाहंसं नमस्ये च नमस्ये घ्राणतर्पणम् ॥ १५॥ नमस्ये रुक्मकवचं महायोगिनमीश्वरम् । नमस्ये श्रीनिवासं च नमस्ये पुरुषोत्तमम् ॥ २६॥ नमस्ये च चतुर्बाहुं नमस्ये च सुधाधिपम् । वनस्पतिं मधुपतिं नमस्ये मनुमव्ययम् ॥ १७॥ श्रीकण्ठं वासुदेवं च नीलकण्ठं सदाशिवम् । नमस्ये शर्वमनघं गौरीशं लकुडेश्वरम् ॥ १८॥ मनोहरं च कृष्णेशं नमस्ये चक्रपाणिनम् । यशोधनं महाबाहुं नमस्ये च कुशप्रियम् ॥ १९॥ भूधरं छादितगदं सुनेत्रं सुरशंसितम् । भद्राक्षं वीरभद्रं च नमस्ये शङ्कुकर्णिनम् ॥ २०॥ वृषध्वजं महेशं च विश्वामित्रं शशिप्रभम् । उपेन्द्रं च सगोविन्दं नमस्ये पङ्कजप्रियम् ॥ २१॥ सहस्रशिरसं देवं नमस्ये कुन्दमालिनम् । कालाग्निं रुद्रदेवेशं नमस्ये कृत्तिवाससम् ॥ २२॥ नमस्ये छागलेशं च नमस्ये पङ्कजासनम् । सहस्राक्षं कोकनदं नमस्ये हरिशङ्करम् ॥ २३॥ अगस्त्यं गरुडं विष्णुं कपिलं ब्रह्मवाङ्मयम् । सनातनं च ब्रह्माणं नमस्ये ब्रह्म तत्परम् ॥ २४॥ अप्रतर्क्यं चतुर्बाहुं सहस्रांशुं तपोमयम् । नमस्ये धर्मराजानं देवं गरुडवाहनम् ॥ २५॥ सर्वभूतगतं शान्तं निर्मलं सर्वलक्षणम् । महायोगिनमव्यक्तं नमस्ये पापनाशनम् ॥ २६॥ निरञ्जनं निराकारं निर्गुणं निलयं पदम् । नमस्ये पापहर्तारं शरण्यं शरणं व्रजे ॥ २७॥ एतत् पवित्रं परमं पुराण प्रोक्त त्वगस्त्येन महर्षणा च । धन्यं यशस्यं बहुपापनाशनं संङ्कीर्तनात् स्मरणात् स्पर्शनाच्च ॥ २८॥ २७॥ इति वामनपुराणे अगस्त्यप्रोक्तं पापशमनं नाम हरिशङ्करस्तोत्रं सम्पूर्णम् । (vAmanapurANa, adhyAya 88, shlokas 2-28)