अक्षर आकार:

हरिहराष्टोत्तरशतनामस्तोत्रम् अथवा श्रीहरिहरात्मकस्तोत्रम्

hariharAShTottarashatanAmastotram

हरिहराष्टोत्तरशतनामस्तोत्रम् अथवा श्रीहरिहरात्मकस्तोत्रम्

हरिहरस्तोत्ररत्नमाला च श्रीगणेशाय नमः ॥ गोविन्द माधव मुकुन्द हरे मुरारे शम्भो शिवेश शशिशेखर शूलपाणे । दामोदराच्युत जनार्दन वासुदेव त्याज्या भटा य इति सन्ततमामनन्ति ॥ १॥ गङ्गाधरान्धकरिपो हर नीलकण्ठ वैकुण्ठ कैटभरिपो कमठाब्जपाणे । भूतेश खण्डपरशो मृड चण्डिकेश त्याज्या भटा य इति सन्ततमामनन्ति ॥ २॥ विष्णो नृसिंह मधुसूदन चक्रपाणे गौरीपते गिरिश शङ्कर चन्द्रचूड । नारायाणासुरनिबर्हण शार्ङ्गपाणे त्याज्या भटा य इति सन्ततमामनन्ति ॥ ३॥ मृत्युञ्जयोग्र विषमेक्षण कामशत्रो श्रीकान्त पीतवसनाम्बुदनील शौरे । ईशान कृत्तिवसन त्रिदशैकनाथ त्याज्या भटा य इति सन्ततमामनन्ति ॥ ४॥ लक्ष्मीपते मधुरिपो पुरुषोत्तमाद्य श्रीकण्ठ दिग्वसन शान्त पिनाकपाणे । आनन्दकन्द धरणीधर पद्मनाभ त्याज्या भटा य इति सन्ततमामनन्ति ॥ ५॥ सर्वेश्वर त्रिपुरसूदन देवदेव ब्रह्मण्यदेव गरुडध्वज शङ्खपाणे । त्र्यक्षोरगाभरण बालमृगाङ्कमौले त्याज्या भटा य इति सन्ततमामनन्ति ॥ ६॥ श्रीराम राघव रमेश्वर रावणारे भूतेश मन्मथरिपो प्रमथाधिनाथ । चाणूरमर्दन हृषीकपते मुरारे त्याज्या भटा य इति सन्ततमामनन्ति ॥ ७॥ शूलिन् गिरीश रजनीश कलावतंस कंसप्रणाशन सनातन केशिनाश । भर्ग त्रिनेत्र भव भूतपते पुरारे त्याज्या भटा य इति सन्ततमामनन्ति ॥ ८॥ गोपीपते यदुपते वसुदेवसूनो कर्पूरगौर वृषभध्वज भालनेत्र । गोवर्धनोद्धरण धर्मधुरीण गोप त्याज्या भटा य इति सन्ततमामनन्ति ॥ ९॥ स्थाणो त्रिलोचन पिनाकधर स्मरारे कृष्णानिरुद्ध कमलाकर कल्मषारे । विश्वेश्वर त्रिपथगार्द्रजटाकलाप त्याज्या भटा य इति सन्ततमामनन्ति ॥ १०॥ अष्टोत्तराधिकशतेन सुचारुनाम्नां सन्दर्भितां ललितरत्नकदम्बकेन । सन्नायकां दृढगुणां निजकण्ठगतां यः कुर्यादिमां स्रजमहो स यमं न पश्येत् ॥ ११॥ गणावूचतुः । इत्थं द्विजेन्द्र निजभृत्यगणान्सदैव संशिक्षयेदवनिगान्स हि धर्मराजः । अन्येऽपि ये हरिहराङ्कधरा धरायां ते दूरतः पुनरहो परिवर्जनीयाः ॥ १२॥ अगस्त्य उवाच । यो धर्मराजरचितां ललितप्रबन्धां नामावलिं सकलकल्मषबीजहन्त्रीम् । धीरोऽत्र कौस्तुभभृतः शशिभूषणस्य नित्यं जपेत्स्तनरसं न पिबेत्स मातुः ॥ १३॥ इति श‍ृण्वन् कथां रम्यां शिवशर्मा प्रियेऽनघाम् । प्रहर्षवक्त्रः पुरतो ददर्श सरसीं पुरीम् ॥ १४॥ इति (श्रीस्कन्दपुराणे काशीखण्डे धर्मराजप्रोक्तं हरिहराष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।