अक्षर आकार:

हृदयबोधनस्तोत्रम्

hRRidayabodhanastotram

हृदयबोधनस्तोत्रम्

श्रीगणेशाय नमः ॥ हृदय सदा स्मर परमवितारं हैमवतीकमितारम् । विषयभ्रमणं विश्रमविधुरं व्यर्थं मास्म कृथास्त्वम् । आधिव्याधिशताकुलमनिभृतसुखलोभाहितविविधक्लेशम् । आयुश्चञ्चलकमलदलाञ्चलगतजलबिन्दुसदृशक्षेमम् । अशुचिनिकायेऽवश्यविनाशिनि काये बालिशममता काऽये नियतापायी न चिरस्थायी भोगोऽप्यसुभगपर्यवसायी ॥ १॥ आन्तररिपुवशमशिवोदर्कं पीतवितर्कं विशसि वृथा त्वं किं तव लब्धं तत्प्रेरणया सन्ततविषयभ्रान्त्येयत्या । सङ्कटसङ्घविदारणनिपुणे शङ्करचरणे किङ्करशरणे सङ्घटय रतिं सङ्कलय धृतिं सफलय निभृतं जनिलाभं च ॥ २॥ सङ्कल्पैकसमुद्भावितजगदुत्पत्त्यादिभिरात्तविनोदे यस्मिन्नेव महेश्वरशब्दः स्वार्थसमन्वयमजहज्जयति । अखिलांहोपहममितशुभावहमभयदुहन्तं स्मरदेहदहं करुणामृतरसवरुणालयमयि हरिणाङ्कोज्ज्वलमौलिमुपास्व ॥ ३॥ त्रिजगदतीतं यन्महिमानं त्रय्यपि चकितैवाभिदधाति प्रणमदमर्त्यप्रवरशिरोमणिदीधितिदीपितपादसरोजम् । भक्ताभ्यर्थितसार्थसमर्थनसामर्थ्योद्धृतकल्पककर्पं कन्दर्पारिमृतेऽन्यः कोऽपि वदान्यो जगति न मान्यो जयति ॥ ४॥ इति हृदयबोधनस्तोत्रं सम्पूर्णम् ।