अक्षर आकार:

हालास्येशाष्टकम्

Halasyesha Ashtakam

हालास्येशाष्टकम्

शैलाधीशसुतासहाय सकलाम्नायान्तवेद्य प्रभो! शूलोग्राग्रविदारितान्धक सुरारातीन्द्रवक्षस्थल । कालातीत! कलाविलास! कुशल त्रायेत ते सन्ततं हालास्येश कृपाकटाक्षलहरी मामापदामास्पदम् ॥ १॥ कोलाच्छच्छद्मरूपमाधव सुरज्येष्ठातिदूराङ्घ्रिक! नीलार्धाङ्ग! निवेशनिर्जरधुनीभास्वज्जटामण्डल!। कैलासाचलवास! कार्मुकहर! त्रायेत ते सन्ततं हालास्येश कृपाकटाक्षलहरी मामापदामास्पदम् ॥ २॥ फालाक्षिप्रभवप्रभञ्जनसख प्रोद्यत्स्फुलिङ्गच्छटा- तूलानङ्गकचारुसंहनन सन्मीनेक्षणावल्लभ । शैलादिप्रमुखैर्गणैः स्तुतगुण त्रायेत ते सन्ततं हालास्येश कृपाकटाक्षलहरी मामापदामास्पदम् ॥ ३॥ मालाकल्पितमालुधानफणसन्माणिक्यभास्वत्तनो मूलाधार! जगत्त्रयस्य मुरजिन्नेत्रारविन्दार्चित । सालाकारभुजासहस्र! गिरिश! त्रायेत ते सन्ततं हालास्येश कृपाकटाक्षलहरी मामापदामास्पदम् ॥ ४॥ बालादित्यसहस्रकोटिसदृशोद्यद्वेगवत्यापगा वेलाभूमिविहारनिष्ठ! विबुधस्रोतस्विनीशेखर! । बालावर्ण्यकवित्वभूमिसुखद! त्रायेत ते सन्ततं हालास्येश कृपाकटाक्षलहरी मामापदामास्पदम् ॥ ५॥ कीलालावनिपावकानिलनभश्चन्द्रार्कयज्वाकृते! कीलानेकसहस्रसङ्कुलशिखिस्तम्भस्वरूपामित । चोळादीष्टगृहाङ्गनाविभवद! त्रायेत ते सन्ततं हालास्येश कृपाकटाक्षलहरी मामापदामास्पदम् ॥ ६॥ लीलार्थाञ्जलिमेकमेव चरतां साम्राज्यलक्ष्मीप्रद! स्थूलाशेषचराचरात्मक जगत्स्थूणाष्टमूर्ते! गुरो!। तालाङ्कानुजफल्गुनप्रियकर! त्रायेत ते सन्ततं हालास्येश कृपाकटाक्षलहरी मामापदामास्पदम् ॥ ७॥ हालास्यागतदेवदैत्यमुनिसङ्गीतापदानक्वण- त्तूलाकोटिमनोहराङ्घ्रिकमलानन्दापवर्गप्रद । श्रीलीलाकर! पद्मनाभ! वरद! त्रायेत ते सन्ततं हालास्येश कृपाकटाक्षलहरी मामापदामास्पदम् ॥ ८॥ लीलानादरमोहतः कपटतो यद्वा कदम्बाटवी- हालास्याधिपतीष्टमष्टकमिदं सर्वेष्टसन्दोहनम् । आलापानफलान्विहाय सततं सङ्कीर्तयन्तीह ये ते लाक्षार्द्रपदाबलाभिरखिलान् भोगान् लभन्ते सदा ॥ ९॥ इति श्रीहालास्येशाष्टकं सम्पूर्णम् ।