अक्षर आकार:

हाकिनीश्वराष्टोत्तरसहस्रनामस्तोत्र परनाथाष्टोत्तरसहस्रनामस्तोत्रं च

Hakinishvara or Paranatha Ashtottara Sahasranama Stotra

हाकिनीश्वराष्टोत्तरसहस्रनामस्तोत्र परनाथाष्टोत्तरसहस्रनामस्तोत्रं च

श्रीआनन्दभैरव उवाच । आनन्दभैरवि प्राणवल्लभे जगदीश्वरि । तव प्रसादवाक्येन श्रुतं नामसहस्रकम् ॥ १ ॥ हाकिन्याः कुलयोगिन्याः परमाद्भुतमङ्गलम् । इदानीं श्रोतुमिच्छामि परनाथस्य वाञ्छितम् ॥ २ ॥ सहस्रनामयोगाङ्गमष्टोत्तरसमाकुलम् । भ्रूपद्मभेदनार्थाय हाकिनीयोगसिद्धये ॥ ३ ॥ परनाथस्य योगाधिसिद्धये कुलभैरवि । कृपया वद मे प्रीता धर्मसिद्धिनिबन्धनात् ॥ ४ ॥ मम देहरक्षणाय पातिव्रात्यप्रसिद्धये । महाविषहरे शीघ्रं वद योगिनि विस्तरात् ॥ ५ ॥ त्वत्प्रसादात् खेचराणां भैरवाणां हि योगिनाम् । नाथोऽहं जगतीखण्डे सुधाखण्डे वद प्रिये ॥ ६ ॥ पुनः पुनः स्तौमि नित्ये त्वमेव सुप्रिया भव । श्रीआनन्दभैरवी उवाच अथ योगेश्वर प्राणनाथ योगेन्द्र सिद्धिद ॥ ७ ॥ इदानीं कथये तेऽहं निजदेहसुसिद्धये । सर्वदा हि पठस्व त्वं कालमृत्युं वशं नय ॥ ८ ॥ कृपया तव नाथस्य स्नेहपाशनियन्त्रिता । तवाज्ञापालनार्थाय कालकूटविनाशनात् ॥ ९ ॥ भुक्तिमुक्तिक्रियाभक्तिसिद्धये तच्छृणु प्रभो । नित्यामृतखण्डरसोल्लासनामसहस्रकम् ॥ १० ॥ अष्टोत्तरं प्रयत्नेन योगिनां हि हिताय च । कथयामि सिद्धनामज्ञाननिर्णयसाधनम् ॥ ११ ॥ ॐ ह्सौ सां परेशश्च पराशक्तिः प्रियेश्वरः । शिवः परः पारिभद्रः परेशो निर्मलोऽद्वयः ॥ १२ ॥ स्वयंज्योतिरनाद्यन्तो निर्वीकारः परात्परः । परमात्मा पराकाशोऽपरोऽप्यपराजितः ॥ १३ ॥ पार्वतीवल्लभः श्रीमान् दीनबन्धुस्त्रिलोचनः । योगात्मा योगदः सिद्धेश्वरो वीरः स्वरान्तकः ॥ १४ ॥ कपिलेशो गुरुर्गीतः स्वप्रियो गीतमोहनः । गभीरो गाधनस्थश्च गीतवाद्यप्रियङ्करः ॥ १५ ॥ गुरुगीतापवित्रश्च गानसम्मानतोज्झितः । गयानाथो दत्तनाथो दत्तात्रेयपतिः शिवः ॥ १६ ॥ आकाशवाहको नीलो नीलाञ्जनशरीरधृक् । खगरूपी खेचरश्च गगनात्मा गभीरगः ॥ १७ ॥ गोकोटिदानकर्त्ता च गोकोटिदुग्धभोजनः । अभयावल्लभः श्रीमान् परमात्मा निराकृतिः ॥ १८ ॥ सङ्ख्याधारी निराकारी निराकरणवल्लभः । वाय्वाहारी वायुरूपी वायुगन्ता स्ववायुपाः ॥ १९ ॥ वातघ्नो वातसम्पत्तिर्वाताजीर्णो वसन्तवित् । वासनीशो व्यासनाथो नारदादिमुनीश्वरः ॥ २० ॥ नारायणप्रियानन्दो नारायणनिराकृतिः । नावमालो नावकर्ता नावसंज्ञानधारकः ॥ २१ ॥ जलाधारो ज्ञेय इन्द्रो निरिन्द्रियगुणोदयः । तेजोरूपी चण्डभीमो तेजोमालाधरः कुलः ॥ २२ ॥ कुलतेजा कुलानन्दः शोभाढ्यो वेदरश्मिधृक् । किरणात्मा कारणात्मा कल्पच्छायापतिः शशी ॥ २३ ॥ परज्ञानी परानन्ददायको धर्मजित्प्रभुः । त्रिलोचनाम्भोजराजो दीर्घनेत्रो मनोहरः ॥ २४ ॥ चामुण्डेशः प्रचण्डेशः पारिभद्रेश्वरो हरः । गोपिता मोहितो गोप्ता गुप्तिस्थो गोपपूजितः ॥ २५ ॥ गोपनाख्यो गोधनेशश्च चारुवक्त्रो दिगम्बरः । पञ्चाननः पञ्चमीशो विशालो गरुडेश्वरः ॥ २६ ॥ अर्धनारीश्वरेशश्च नायिकेशः कुलान्तकः । संहारविग्रहः प्रेतभूतकोटिपरायणः ॥ २७ ॥ अनन्तेशोऽप्यनन्तात्मा मणिचूडो विभावसुः । कालानलः कालरूपी वेदधर्मेश्वरः कविः ॥ २८ ॥ भर्गः स्मरहरः शम्भुः स्वयम्भुः पीतकुण्डलः । जायापतिर्याजजूको विलाशीशः शिखापतिः ॥ २९ ॥ पर्वतेशः पार्वणाख्यः क्षेत्रपालो महीश्वरः । वाराणसीपतिर्मान्यो धन्यो वृषसुवाहनः ॥ ३० ॥ अमृतानन्दितो मुग्धो वनमालीश्वरः प्रियः । काशीपतिः प्राणपतिः कालकण्ठो महेश्वरः ॥ ३१ ॥ कम्बुकण्ठः क्रान्तिवर्गो वर्गात्मा जलशासनः । जलबुद्बुदवक्षश्च जलरेखामयः पृथुः ॥ ३२ ॥ पार्थिवेशो महीकर्ता पृथिवीपरिपालकः । भूमिस्थो भूमिपूज्यश्च क्षौणीवृन्दारकार्चीतः ॥ ३३ ॥ शूलपाणिः शक्तिहस्तो पद्मगर्भो हिरण्यभृत् । भूगर्तसंस्थितो योगी योगसम्भवविग्रहः ॥ ३४ ॥ पातालमूलकर्ता च पातालकुलपालकः । पातालनागमालाढ्यो दानकर्ता निराकुलः ॥ ३५ ॥ भ्रूणहन्ता पापराधिनागकः कालनागकः । कपिलोग्रतपःप्रीतो लोकोपकारकृन्नृपः ॥ ३६ ॥ नृपार्चीतो नृपार्थस्थो नृपार्थकोटिदायकः । पार्थिवार्चनसन्तुष्टो महावेगी परेश्वरः ॥ ३७ ॥ परापारापारतरो महातरुनिवासकः । तरुमूलस्थितो रुद्रो रुद्रनामफलोदयः ॥ ३८ ॥ रौद्रीशक्तिपतिः क्रोधी कोपनष्टो विरोचनः । असंख्येयाख्ययुक्तश्च परिणामविवर्जितः ॥ ३९ ॥ प्रतापी पवनाधारः प्रशंस्यः सर्वनिर्णयः । वेदजापी मन्त्रजापी देवता गुरुरीश्वरः ॥ ४० ॥ श्रीनाथो गुरुदेवश्च परनाथो गुरुः प्रभुः । परापरगुरुर्ज्ञानी तन्त्रज्ञोऽर्कशतप्रभाः ॥ ४१ ॥ तीर्क्ष्यो गमनकारी च कालभावी निरञ्जनः । कालकूटानलः श्रोतः पुञ्जपानपरायणः ॥ ४२ ॥ परिवारगणाढ्यश्च पाराशाषिसुतस्थितः । स्थितिस्थापकरूपश्च रूपातीतोऽमलापतिः ॥ ४३ ॥ पतीशो भागुरिश्चैव कालश्चैव हरिस्तथा । वैष्णवः प्रेमसिन्धुश्च तरलो वातवित्तहा ॥ ४४ ॥ भावस्वरूपो भगवान् निराकाशः सनातनः । अव्ययः पुरुषः साक्षी चाच्युतो मन्दराश्रयः ॥ ४५ ॥ मन्दराद्रिक्रियानन्दो वृन्दावनतनूद्भवः । वाच्यावाच्यस्वरूपश्च निर्मलाख्यो विवादहा ॥ ४६ ॥ वैद्यो वेदपरो ग्रन्थो वेदशास्त्रप्रकाशकः । स्मृतिमूलो वेदयुक्तिः प्रत्यक्षकुलदेवता ॥ ४७ ॥ परीक्षको वारणाख्यो महाशैलनिषेवितः । विरिञ्चप्रेमदाता च जन्योल्लासकरः प्रियः ॥ ४८ ॥ प्रयागधारी पयोऽर्थी गाङ्गागङ्गाधरः स्मरः । गङ्गाबुद्धिप्रियो देवो गङ्गास्नाननिषेवितः ॥ ४९ ॥ गङ्गासलिलसंस्थो हि गङ्गाप्रत्यक्षसाधकः । गिरो गङ्गामणिमरो मल्लिकामालधारकः ॥ ५० ॥ मल्लिकागन्धसुप्रेमो मल्लिकापुष्पधारकः । महाद्रुमो महावीरो महाशूरो महोरगः ॥ ५१ ॥ महातुष्टिर्महापुष्टिर्महालक्ष्मीशुभङ्करः । महाश्रमी महाध्यानी महाचण्डेश्वरो महान् ॥ ५२ ॥ महादेवो महाह्लादो महाबुद्धिप्रकाशकः । महाभक्तो महाशक्तो महाधूर्तो महामतिः ॥ ५३ ॥ महाच्छत्रधरो धारोधरकोटिगतप्रभा । अद्वैतानन्दवादी च मुक्तो भङ्गप्रियोऽप्रियः ॥ ५४ ॥ अतिगन्धश्चातिमात्रो निणीतान्तः परन्तपः । निणीतोऽनिलधारी च सूक्ष्मानिलनिरूपकः ॥ ५५ ॥ महाभयङ्करो गोलो महाविवेकभूषणः । सुधानन्दः पीठसंस्थो हिङ्गुलादेश्वरः सुरः ॥ ५६ ॥ नरो नागपतिः क्रूरो भक्तानां कामदः प्रभुः । नागमालाधरो धर्मी नित्यकर्मी कुलीनकृत् ॥ ५७ ॥ शिशुपालेश्वरः कीर्तिविकारी लिङ्गधारकः । तृप्तानन्दो हृषीकेशेश्वरः पाञ्चालवल्लभः ॥ ५८ ॥ अक्रूरेशः पतिः प्रीतिवर्धको लोकवर्धकः । अतिपूज्यो वामदेवो दारुणो रतिसुन्दरः ॥ ५९ ॥ महाकालः प्रियाह्लादी विनोदी पञ्चचूडधृक् । आद्याशक्तिपतिः पान्तो विभाधारी प्रभाकरः ॥ ६० ॥ अनायासगतिर्बुद्धिप्रफुल्लो नन्दिपूजितः । शीलामूर्तीस्थितो रत्नमालामण्डितविग्रहः ॥ ६१ ॥ बुधश्रीदो बुधानन्दो विबुधो बोधवर्धनः । अघोरः कालहर्ता च निष्कलङ्को निराश्रयः ॥ ६२ ॥ पीठशक्तिपतिः प्रेमधारको मोहकारकः । असमो विसमो भावोऽभावो भावो निरिन्द्रियः ॥ ६३ ॥ निरालोको बिलानन्दो बिलस्थो विषभुक्पतिः । दुर्गापतिर्दुर्गहर्ता दीर्घसिद्धान्तपूजितः ॥ ६४ ॥ सर्वो दुर्गापतिवीप्रो विप्रपूजापरायणः । ब्राह्मणानन्दनिरतो ब्रह्मकर्मसमाधिवित् ॥ ६५ ॥ विश्वात्मा विश्वभर्ता च विश्वविज्ञानपूरकः । विश्वान्तःकारणस्थश्च विश्वसंज्ञाप्रतिष्ठितः ॥ ६६ ॥ विश्वाधारो विश्वपूज्यो विश्वस्थोऽचीत इन्द्रहा । अलाबुभक्षणः क्षान्तिरक्षो रक्षनिवारणः ॥ ६७ ॥ तितिक्षारहितो हूतिः पुरुहूतप्रियङ्करः । पुरुषः पुरुषश्रेष्ठो विलालस्थः कुलालहा ॥ ६८ ॥ कुटिलस्थो विधिप्राणो विषयानन्दपारगः । ब्रह्मज्ञानप्रदो ब्रह्मज्ञानी ब्रह्मगुणान्तरः ॥ ६९ ॥ पालकेशो विराजश्च वज्रदण्डो महास्त्रधृक् । सर्वास्त्ररक्षकः श्रीदो विधिबुद्धिप्रपूरणः ॥ ७० ॥ आर्यपुत्रो देवराजपूजितो मुनिपूजितः । गन्धर्वपूजितः पूज्यो दानवज्ञाननाशनः ॥ ७१ ॥ अप्सरोगणपूज्यश्च मर्त्यलोकसुपूजितः । मृत्युजिद्रिपूजित् प्लक्षो मृत्युञ्जय इषुप्रियः ॥ ७२ ॥ त्रिबीजात्मा नीलकण्ठः क्षितीशो रोगनाशनः । जितारिः प्रेमसेव्यश्च भक्तिगम्यो निरुद्यमः ॥ ७३ ॥ निरीहो निरयाह्लादः कुमारो रिपुपूजितः । अजो देवात्मजो धर्मोऽसन्तो मन्दमासनः ॥ ७४ ॥ मन्दहासो मन्दनष्टो मन्दगन्धसुवासितः । माणिक्यहारनिलयो मुक्ताहारविभूषितः ॥ ७५ ॥ मुक्तिदो भक्तिदश्चैव निर्वाणपददानदः । निर्विकल्पो मोदधारी निरातङ्को महाजनः ॥ ७६ ॥ मुक्ताविद्रुममालाढ्यो मुक्तादामलसत्कटिः ॥ ७७ ॥ रत्नेश्वरो धनेशश्च धनेशप्राणवल्लभः । धनजीवी कर्मजीवी संहारविग्रहोज्ज्वलः ॥ ७८ ॥ संङ्केतार्थज्ञानशून्यो महासङ्केतपण्डितः । सुपण्डितः क्षेमदाता भवदाता भवान्वयः ॥ ७९ ॥ किङ्करेशो विधाता च विधातुः प्रियवल्लभः । कर्ता हर्ता कारयिता योजनायोजनाश्रयः ॥ ८० ॥ युक्तो योगपतिः श्रद्धापालको भूतशङ्करः । भूताध्यक्षो भूतनाथो भूतपालनतत्परः ॥ ८१ ॥ विभूतिदाता भूतिश्च महाभूतिविवर्धनः । महालक्ष्मीश्वरः कान्तः कमनीयः कलाधरः ॥ ८२ ॥ कमलाकान्त ईशानो यमोऽमरो मनोजवः । मनयोगी मानयोगी मानभङ्गो निरूपणः ॥ ८३ ॥ अव्यक्तानन्दनिरतो व्यक्ताव्यक्तनिरूपितः । आत्मारामपतिः कृष्णपालको रामपालकः ॥ ८४ ॥ लक्षणेशो लक्षभर्ता भावतीशः प्रजाभवः । भरताख्यो भारतश्च शत्रुघ्नो हनुमान् कपिः ॥ ८५ ॥ कपिचूडामणिः क्षेत्रपालेशो दिक्करान्तरः । दिशांपतिदीशीशश्च दिक्पालो हि दिगम्बरः ॥ ८६ ॥ अनन्तरत्नचूडाढ्यो नानारत्नासनस्थितः । संविदानन्दनिरतो विजयो विजयात्मजः ॥ ८७ ॥ जयाजयविचारश्च भावचूडामणीश्वरः । मुण्डमालाधरस्तन्त्री सारतन्त्रप्रचारकः ॥ ८८ ॥ संसाररक्षकः प्राणी पञ्चप्राणो महाशयः । गरुडध्वजपूज्यश्च गरुडध्वजविग्रहः ॥ ८९ ॥ गारुडीशो मन्त्रिणीशो मैत्रप्राणहिताकरः । सिद्धिमित्रो मित्रदेवो जगन्नाथो नरेश्वरः ॥ ९० ॥ नरेन्द्रेश्वरभावस्थो विद्याभावप्रचारवित् । कालाग्निरुद्रो भगवान् प्रचण्डेश्वरभूपतिः ॥ ९१ ॥ अलक्ष्मीहारकः क्रुद्धो रिपूणां क्षयकारकः । सदानन्दमयो वृद्धो धर्मसाक्षी सुधांशुधृक् ॥ ९२ ॥ साक्षरो रिपुवर्गस्थो दैत्यहा मुण्डधारकः । कपाली रुण्डमालाढ्यो महाबीजप्रकाशकः ॥ ९३ ॥ अजेयोग्रपतिः स्वाहावल्लभो हेतुवल्लभः । हेतुप्रियानन्ददाता हेतुबीजप्रकाशकः ॥ ९४ ॥ श्रुतिक्षिप्रमणिरतो ब्रह्मसूत्रप्रबोधकः । ब्रह्मानन्दो जयानन्दो विजयानन्द एव च ॥ ९५ ॥ सुधानन्दो बुधानन्दो विद्यानन्दो बलीपतिः । ज्ञानानन्दो विभानन्दो भावानन्दो नृपासनः ॥ ९६ ॥ सर्वासनोग्रानन्दश्च जगदानन्ददायकः । पूर्णानन्दो भवानन्दो ह्यमृतानन्द एव च ॥ ९७ ॥ शीतलोऽशीतिवर्षस्थो व्यवस्थापरिचायकः । शीलाढ्यश्च सुशीलश्च शीलानन्दो पराश्रयः ॥ ९८ ॥ सुलभो मधुरानन्दो मधुरामोदमादनः । अभेद्यो मूत्रसञ्चारी कलहाख्यो विषङ्कटः ॥ ९९ ॥ वाशभाढ्यः परानन्दो विसमानन्द उल्बणः । अधिपो वारुणीमत्तो मत्तगन्धर्वशासनः ॥ १०० ॥ शतकोटिशरुश्रीदो वीरकोटिसमप्रभः । अजाविभावरीनाथो विषमापूष्णिपूजितः ॥ १०१ ॥ विद्यापतिर्वेदपतिरप्रमेयपराक्रमः । रक्षोपतिर्महावीरपतिः प्रेमोपकारकः ॥ १०२ ॥ वारणाविप्रियानन्दो वारणेशो विभुस्थितः । रणचण्डो रशेशश्च रणरामप्रियः प्रभुः ॥ १०३ ॥ रणनाथी रणाह्लादः संग्रामप्रेतविग्रहः । देवीभक्तो देवदेवो दिवि दारुणतत्परः ॥ १०४ ॥ खड्गी च कवची सिद्धः शूली धूलिस्त्रिशूलधृक् । धनुष्मान् धर्मचित्तेशोऽचिन्ननागसुमाल्यधृक् ॥ १०५ ॥ अर्थोऽनर्थप्रियोऽप्रायो मलातीतोऽतिसुन्दरः । काञ्चनाढ्यो हेममाली काञ्चनश‍ृङ्गशासनः ॥ १०६ ॥ कन्दर्पजेता पुरुषः कपित्थेशोऽर्कशेखरः । पद्मगन्धोऽतिसद्गन्धश्चन्द्रशेखरभृत् सुखी ॥ १०७ ॥ पवित्राधारनिलयो विद्यावद्वरबीजभृत् । कन्दर्पसदृशाकारो मायाजिद् व्याघ्रचर्मधृक् ॥ १०८ ॥ अतिसौन्दर्यचूडाढ्यो नागचित्रमणिप्रियः । अतिगण्डः कुम्भकर्णः कुरुजेता कवीश्वरः ॥ १०९ ॥ एकमुखो द्वितुण्डश्च द्विविधो वेदशासनः । आत्माश्रयो गुरुमयो गुरुमन्त्रप्रदायकः ॥ ११० ॥ शौरीनाथो ज्ञानमार्गी सिद्धमार्गी प्रचण्डगः । नामगः क्षेत्रगः क्षेत्रो गगनग्रन्थिभेदकः ॥ १११ ॥ गाणपत्यवसाच्छन्नो गाणपत्यवसादवः । गम्भीरोऽतिसुसूक्ष्मश्च गीतवाद्यप्रियंवदः ॥ ११२ ॥ आह्लादोद्रेककारी च सदाह्लादी मनोगतिः । शिवशक्तिप्रियः श्यामवर्णः परमबान्धवः ॥ ११३ ॥ अतिथिप्रियकरो नित्यो गोविन्देशो हरीश्वरः । सर्वेशो भाविनीनाथो विद्यागर्भो विभाण्डकः ॥ ११४ ॥ ब्रह्माण्डरूपकर्ता च ब्रह्माण्डधर्मधारकः । धर्मार्णवो धर्ममार्गी धर्मचिन्तासुसिद्धिदः ॥ ११५ ॥ अस्थास्थितो ह्यास्तिकश्च स्वस्तिस्वच्छन्दवाचकः । अन्नरूपी अन्नकस्थो मानदाता महामनः ॥ ११६ ॥ आद्याशक्तिप्रभुर्मातृवर्णजालप्रचारकः । मातृकामन्त्रपूज्यश्च मातृकामन्त्रसिद्धिदः ॥ ११७ ॥ मातृप्रियो मातृपूज्यो मातृकामण्डलेश्वरः । भ्रान्तिहन्ता भ्रान्तिदाता भ्रान्तस्थो भ्रान्तिवल्लभः ॥ ११८ ॥ इत्येतत् कथितं नाथ सहस्रनाममङ्गलम् । अष्टोत्तरं महापुण्यं स्वर्गीयं भुवि दुर्लभम् ॥ ११९ ॥ यस्य श्रवणमात्रेण नरो नारायणो भवेत् । अप्रकाश्यं महागुह्यं देवानामप्यगोचरम् ॥ १२० ॥ फलं कोटिवर्षशतैर्वक्तुं न शक्यते बुधैः । यस्य स्मरणमाकृत्य योगिनीयोगपारगः ॥ १२१ ॥ सोक्षणः सर्वसिद्धिनां त्रैलोक्ये सचराचरे । देवाश्च बहवः सन्ति योगिनस्तत्त्वचिन्तकाः ॥ १२२ ॥ पठनाद्धारणाज्ज्ञानी महापातकनाशकः । आयुरारोग्यसम्पत्तिबृंहितो भवति ध्रुवम् ॥ १२३ ॥ संग्रामे ग्रहभीतौ च महारण्ये जले भये । वारमेकं पठेद्यस्तु स भवेद् देववल्लभः ॥ १२४ ॥ सर्वेषां मानसम्भङ्गी योगिराड् भवति क्षणात् । पूजां कृत्वा विशेषेण यः पठेन्नियतः शुचिः ॥ १२५ ॥ स सर्वलोकनाथः स्यात् परमानन्दमाप्नुयात् । एकपीठे जपेद्यस्तु कामरूपे विशेषतः ॥ १२६ ॥ त्रिकालं वाथ षट्कालं पठित्वा योगिराड् भवेत् । आकाशगामिनीं सिद्धिं गुटिकासिद्धिमेव च ॥ १२७ ॥ प्राप्नोति साधकेन्द्रस्तु राजत्वं हि दिने दिने । सर्वदा यः पठेन्नित्यं सर्वज्ञः सुकुशाग्रधीः ॥ १२८ ॥ अवश्यं योगिनां श्रेष्ठः कामजेता महीतले । अज्ञानी ज्ञानवान् सद्योऽधनी च धनवान् भवेत् ॥ १२९ ॥ सर्वदा राजसम्मानं पञ्चत्वं नास्ति तस्य हि । गले दक्षिणबाहौ च धारयेद्यस्तु भक्तितः ॥ १३० ॥ अचिरात्तस्य सिद्धिः स्यान्नात्र कार्या विचारणा । अवधूतेश्वरो भूत्त्वा राजते नात्र संशयः ॥ १३१ ॥ अरक्तचन्दनयुक्तेन हरिद्राकुङ्कुमेन च । सेफालिकापुष्पदण्डैर्दलसङ्कुलवर्जितैः ॥ १३२ ॥ मिलित्वा यो लिखेत् स्तोत्रं केवलं चन्दनाम्भसा । स भवेत् पार्वतीपुत्रः क्षणाद्वा द्वादशाहनि ॥ १३३ ॥ एकमासं द्विमासं वा त्रिमासं वर्षमेव च । जीवन्मुक्तो धारयित्वा सहस्रनामकीर्तनम् ॥ १३४ ॥ पठित्वा तद् द्विगुणशः पुण्यं कोटिगुणं लभेत् । किमन्यं कथयिष्यामि सार्वभौमेश्वरो भवेत् ॥ १३५ ॥ त्रिभुवनगणनाथो योगिनीशो धनाढ्यो मतिसुविमलभावो दीर्घकालं वसेत् सः । इह पठति भवानीवल्लभः स्तोत्रसारं दशशतमभिधेयं ज्ञानमष्टोत्तरं च ॥ १३६ । ॥ इति श्रीरुद्रयामले उत्तरतन्त्रे भैरवीभैरवसंवादे परशिवहाकिनीश्वराष्टोत्तरसहस्रनामस्तोत्रं सम्पूर्णम् ॥ श्रीरुद्रयामले उत्तरतन्त्रे सप्ताशीतितनः पटलः परनाथाष्टोत्तरसहस्रनामस्तोत्रम्