अक्षर आकार:

श्रीहाटकेश्वराष्टकम्

Shri Hatakeshvara Ashtakam

श्रीहाटकेश्वराष्टकम्

जटातटान्तरोलसत्सुरापगोर्मिभास्वरं ललाटनेत्रमिन्दुनाविराजमानशेखरम् । लसद्विभूतिभूषितं फणीन्द्रहारमीश्वरं नमामि नाटकेश्वरं भजामि हाटकेश्वरम् ॥ १॥ पुरान्धकादिदाहकं मनोभवप्रदाहकं महाधराशिनाशकमभीप्सितार्थदायकम् । जगत्त्रयैककारकं विभाकरं विदारकं नमामि नाटकेश्वरं भजामि हाटकेश्वरम् ॥ २॥ मदीय मानसस्थले सदास्तु ते पदद्वयं मदीय वक्त्रपङ्कजे शिवेति चाक्षरद्वयम् । मदीय लोचनाग्रतः सदार्धचन्द्रविग्रहं नमामि नाटकेश्वरं भजामि हाटकेश्वरम् ॥ ३॥ भजन्ति हाटकेश्वरं सुभक्तिभावतोत्रये भवन्ति हाटकेश्वरः प्रमाणमात्र नागरः । धनेन तेज साधिका कुलेन चाखिलोन्नता नमामि नाटकेश्वरं भजामि हाटकेश्वरम् ॥ ४॥ सदाशिवोऽहमित्यहर्निशं भजेत यो जनः सदा शिवं करोति तं न संशयोत्र कश्चन । अहो दयालुता महेश्वरस्य दृश्यतां बुधा नमामि नाटकेश्वरं भजामि हाटकेश्वरम् ॥ ५॥ धराधरात्मजापते त्रिलोचनेश शङ्कर गिरीश चन्द्रशेखराहिराज भूषणेश्वरः । महेश नन्दिवाहनेति सङ्घटन्नहर्निशं नमामि नाटकेश्वरं भजामि हाटकेश्वरम् ॥ ६॥ महेश पाहि मां मुदा गिरीश पाहि मां सदा भवार्णवे निमज्जितो त्वमेवमेऽसि तारकः । करावलम्बनं झटित्य होधुनां प्रदीयतां नमामि नाटकेश्वरं भजामि हाटकेश्वरम् ॥ ७॥ धराधरेश्वरेश्वरं शिवं निधीश्वरेश्वरं सुरासुरेश्वरं रमापतिश्वरं महेश्वरम् । प्रचण्ड चण्डीकेश्वरं विनीत नन्दिकेश्वरं नमामि नाटकेश्वरं भजामि हाटकेश्वरम् ॥ ८॥ हाटकेशस्य भक्त्या यो हाटकेशाष्टकं पठेत् । हाटकेश प्रसादेन हाटकेशत्वमाप्नुयात् ॥ इति श्रीहाटकेश्वराष्टकं सम्पूर्णम् ।