अक्षर आकार:

श्रीगिरिपल्लवनाथेश्वरस्तुतिः

Shri Giripallavanatheshvarastutih

श्रीगिरिपल्लवनाथेश्वरस्तुतिः

(श्रीदेवदानक्षेत्रे) पल्लवसदृक्षतावकपदविन्यासाज्जगाम पल्लवताम् । यद्गिरिरसौ ततस्त्वं गिरिपल्लवनाथशब्दवाच्योऽभूः ॥ १॥ वृक्षलतानां पल्लवमिह सिद्धं नैव भूमिधर्तुर्हि । शक्तिस्तवाद्भुतातो गिरिपल्लवमत्र दृष्टमतिचित्रम् ॥ २॥ गङ्गाधर करुणाकर बिम्बाधर बालकुमुदबन्धुधर । गरलाम्बरविनिवारण पादसरोजे नमस्ये ते ॥ ३॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचिता श्रीगिरिपल्लवनाथेश्वरस्तुतिः सम्पूर्णा ।