अक्षर आकार:

गौरीश्वरस्तुतिः

gaurIshvarastutiH

गौरीश्वरस्तुतिः

श्रीगणेशाय नमः ॥ दिव्यं वारि कथं यतः सुरधुनी मौलौ कथं पावको दिव्यं तद्धि विलोचनं कथमहिर्दिव्यं स चाङ्गे तव । तस्माद्द्यूतविधौ त्वयाद्य मुषितो हारः परित्यज्यता- मित्थं शैलभुवा विहस्य लपितः शम्भुः शिवायास्तु वः ॥ १॥ श्रीकण्ठस्य सकृत्तिकाऽऽर्तभरणी मूर्तिः सदा रोहिणी ज्येष्ठा भाद्रपदा पुनर्वसुयुता चित्रा विशाखान्विता । दिश्यादक्षतहस्तमूलघटिताषाढा मघालङ्कृता श्रेयो वैश्रवणान्विता भगवतो नक्षत्रपालीव वः ॥ २॥ एषा ते हर का सुगात्रि कतमा मूर्घ्नि स्थिता किं जटा हंसः किं भजते जटां न हि शशी चन्द्रो जलं सेवते । मुग्धे भूतिरियं कुतोऽत्र सलिलं भूतिस्तरङ्गायते एवं यो विनिगूहते त्रिपथगां पायात्स वः शङ्करः ॥ ३॥ इति गौरीश्वरस्तुतिः समाप्ता ।