अक्षर आकार:

श्रीगौरीशस्तुतिः

Shri Gaurishastutih

श्रीगौरीशस्तुतिः

(शिष्याशीर्वचनात्मकस्तवाः) बालं चाममहीमहेन्द्रसुकृतक्षीराब्धिमध्योद्भवं सोमं सोमशिशूत्तमाङ्ग सततं मौलौ निधायादरात् । श्रीमत्कृष्णमहीपसंज्ञमनिशं सिंहासनाध्यासिनं विद्याऽऽयुर्धननीतिभिः प्रतिपदं गौरीश संवर्धय ॥ १॥ जित्वा मृत्युमथापमृत्युमखिलान् रोगांश्च हृत्वानिशं प्राणम्राखिललोकरक्षणविधावाबद्धदीक्ष प्रभो । श्रीमत्कृष्णमहीपतिं ससहजं सिंहासनाध्यासिनं मार्कण्डेयमिवादरेण सततं गौरीश संवर्धय ॥ २॥ शौर्यौदार्यमुखान्गुणाननितरप्राप्यान्ददत्सर्वदा प्रालेयाचलसेतुमध्यविलसद्भूपालवर्येड्यताम् । दीर्घायुष्यमरोगतामपि ददच्छ्रीकृष्णभूपोत्तमं मात्राद्यैः सततं कृपाजलनिधे गौरीश संवर्धय ॥ ३॥ सेनाधीशसुमन्त्रिभृत्यसहितं नव्योपमन्युं प्रभो कृत्वा दीनजनावनैकनिपुणं कारुण्यवारान्निधे । बालं कृष्णमहीपसंज्ञमनिशं दत्त्वा च भक्तिं स्थिरां हर्यक्षासनसंस्थितं ससहजं गौरीश संवर्धय ॥ ४॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचिता श्रीगौरीशस्तुतिः समाप्ता ।