अक्षर आकार:

गौरीपतिशतनामावलिः

Gauripati Shatanamavali 100 Names

गौरीपतिशतनामावलिः

बृहस्पतिरुवाच - ॐ रुद्राय नमः । नीलाय । भीमाय । परमात्मने । कपर्दिने । सुरेशाय । व्योमकेशाय । वृषभध्वजाय । सोमाय । सोमनाथाय । शम्भवे । दिगम्बराय । भर्गाय । उमाकान्ताय । तपोमयाय । भव्याय । शिवाय । श्रेष्ठाय । विष्णवे । व्यालप्रियाय नमः । २० ॐ व्यालाय नमः । व्यालानां पतये । महीधराय । व्याघ्राय । पशूनां पतये । पुरान्तकाय । सिंहाय । शार्दूलाय । मखाय । मीनाय । मीननाथाय । सिद्धाय । परमेष्ठिने । कामान्तकाय । बुद्धाय । बुद्धीनां पतये । कपोताय । विशिष्टाय । शिष्टाय । सकलात्मने नमः । ४० ॐ वेदाय नमः । वेदजीवाय । वेदगुह्याय । दीर्घाय । दीर्घरूपाय । दीर्घार्थाय । अविनाशिने । जगत्प्रतिष्ठाय । व्योमरूपाय । गजासुरमहाकालाय । अन्धकासुरभेदिने । नीलरूपाय । लोहितरूपाय । शुक्लरूपाय । चण्डमुण्डप्रियाय । भक्तिप्रियाय । देवाय । ज्ञात्रे । ज्ञानिने । अव्ययाय नमः । ६० ॐ महेशाय नमः । महादेवाय । हराय । त्रिनेत्राय । त्रिवेदाय । वेदाङ्गाय । अर्थाय । अर्थरूपाय । परमार्थाय । विश्वभूपाय । विश्वाय । विश्वनाथाय । शङ्कराय । कालाय । कालावयवरूपिणे । अरूपाय । विरूपाय । सूक्ष्मसूक्ष्माय । श्मशानवासिने । कृत्तिवाससे नमः । ८० ॐ भूम्ने नमः । शशाङ्कशेखराय । ईशाय । उग्रभूमिशयाय । दुर्गाय । दुर्गपाराय । दुर्गावयवसाक्षिणे । लिङ्गरूपाय । लिङ्गाय । लिङ्गानां पतये । प्रलयरूपाय । प्रणवार्थाय । कारणकारणाय । मृत्युञ्जयाय । आत्मभवस्वरूपिणे । श्रीत्र्यम्बकाय । असितकण्ठाय । शर्वाय । गौरीपतये । सकलमङ्गलहेतवे नमः । १००