अक्षर आकार:

श्रीद्विनेत्रशम्भुस्तुतिः

Shri Dvinetrashambhustutih

श्रीद्विनेत्रशम्भुस्तुतिः

अवतारेऽस्मिन्कामप्रसक्त्यभावाद्विनेत्रत्वम् । अलमिति तार्तीयं किं नेत्रं शम्भुस्तिरोधत्ते ॥ १॥ समताबोधाय नृणां पदपाथोजप्रणम्राणाम् । गिरिशेनाद्य कृपातस्त्यक्ता वा विषमलोचनता ॥ २॥ अथवा किं बोधयितुं विकारहीनं पदं कृपाम्भोधे । वैरूप्यं मा भूदिति समलोचनतां दधासि मे ब्रूहि ॥ ३॥ द्वे विद्ये श्रुतिमध्ये वेद्ये प्रोक्ते जनानां हि । इममर्थं बोधयितुं नेत्रद्वन्द्वं गुरो धत्से ॥ ४॥ बाह्यं तथान्तरं च द्वन्द्वं तमसो निवारयितुम् । अलमिति नेत्रद्वन्द्वं धत्से किं यतिवर ब्रूहि ॥ ५॥ नेतारो जगतां किल विख्यातौ हरिहरौ लोके । तदुभयरूपत्वात्त्वयि नेत्रद्वन्द्वं गुरो युक्तम् ॥ ६॥ स्वाहाभावादस्मिन् स्वाहानाथो निवृत्तो यत् । तस्मान्नेत्रद्वन्द्वं शिष्टं यतिरूपशङ्करे नूनम् ॥ ७॥ अज्ञानतिमिरसंवृतजनततये बोधनेत्रदानेन । अवशिष्टा किमु चास्मिन्नवतारे द्विनेत्रता शम्भो ॥ ८॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचिता श्रीद्विनेत्रशम्भुस्तुतिः सम्पूर्णा ।