अक्षर आकार:

श्रीमद्द्राक्षापुरीवास भीमेश्वरसुप्रभातम्

Shri Maddrakshapurivasa Bhimeshvarasuprabhatam

श्रीमद्द्राक्षापुरीवास भीमेश्वरसुप्रभातम्

श्रीमद्दक्षपुरीवास भीमेश्वर महाप्रभो । भवच्चरणसान्निद्ध्ये सुप्रभातं मयार्पितम् ॥ १॥ उत्तिष्ठोत्तिष्ठ भीमेश उत्तिष्ठ वृषवाहन । उत्तिष्ठ शिव गौरीश त्रैलोक्यं मङ्गलं कुरु ॥ २॥ जय दक्षपुराधीश जय श्रीवृषभध्वज । जय माणिक्यदेवीश त्रैलोक्यं मङ्गलं कुरु ॥ ३॥ मातस्समस्तजगतां सुखदानदक्षे भीमेशवामनिलये श्रितपारिजाते । शर्वाणि दक्षपुरनित्यनिवासदीक्षे भीमेशदेवदयिते तव सुप्रभातम् ॥ ४॥ तव सुप्रभातमरविन्दलोचने भवतु प्रसन्नमुखचन्द्रशोभिते । विधिवासुदेववनितादिपूजिते भीमेशदेवदयिते तव सुप्रभातम् ॥ ५॥ शर्वाणि सस्मितलसन्मुखचन्द्रबिम्बे भीमाधरोष्ठपरिपूर्णकृपावलम्बे । कादम्बिकावननिवासिनि लोकमान्ये भीमेशदेवदयिते तव सुप्रभातम् ॥ ६॥ चम्पालताङ्गि शुभकारिणि शातकुम्भ- शुम्भत्प्रभाजयविराजदुरोजयुग्मे । शर्मप्रदायिनि शशाङ्ककलावतंसे भीमेशदेवदयिते तव सुप्रभातम् ॥ ७॥ देवेन्द्रमौलिमणिस्थलनतपादपद्म सर्वाप्सराभिनयशोभितचत्वरान्त । भक्तार्तिपर्वतसुवज्रशिवेश शम्भो श्रीभीमशङ्करविभो तव सुप्रभातम् ॥ ८॥ श्रीभीमनाथ करुणाकर दीनबन्धो श्रीशादिदेवगणपालितलोकबन्धो । श्रीपार्वतीवदनपङ्कजपद्मबन्धो श्रीभीमशङ्करविभो तव सुप्रभातम् ॥ ९॥ ब्रह्मादिदेवनुत देवगणाधिनाथ देवेन्द्रवन्द्य मृदुपङ्कजपादयुग्म । देवर्षिनारदमुनीन्द्रसुगीतकीर्ते श्रीभीमशङ्करविभो तव सुप्रभातम् ॥ १०॥ हीरादिदिव्यमणियुक्तकिरीटहार- केयूरकुण्डललसत्कवचाभिराम । भक्तार्चित प्रणववाच्यनिजस्वरूप श्रीभीमशङ्करविभो तव सुप्रभातम् ॥ ११॥ श्रीदक्षवाटपुरसंस्थितदिव्यलिङ्ग त्रैलिङ्गलिङ्ग त्रिगुणात्मक शक्तियुक्त । वन्दारुवृन्दनुत वेदवनीविहार श्रीभीमशङ्करविभो तव सुप्रभातम् ॥ १२॥ पञ्चाक्षरादिमनुयन्त्रितगाङ्गतोयैः पञ्चामृतैः प्रमुदितेन्द्रयुतैर्मुनीन्द्रैः । पट्टाभिषिक्त हरियुक्त शिवासनाथ श्रीभीमशङ्करविभो तव सुप्रभातम् ॥ १३॥ कैलासनाथ कलिदोषमहान्धसूर्य कञ्जासनादिसुरवन्दितपादपद्म । वेश्याप्रनृत्यपरितुष्टमनोऽम्बुजात श्रीभीमशङ्करविभो तव सुप्रभातम् ॥ १४॥ अग्रे वसन्ति तव पादतले सुभक्त्या दिक्पालका विनयनम्रशिरःप्रयुक्ताः । शम्भो महेश इति देव वदन्ति ये त्वां श्रीभीमशङ्करविभो तव सुप्रभातम् ॥ १५॥ लिङ्गाकृते निखिलजीवगणात्मलिङ्ग गङ्गाधर प्रमथसेवितदिव्यपाद । भोगीन्द्रहार परिरक्षितसाधुलोक श्रीभीमशङ्करविभो तव सुप्रभातम् ॥ १६॥ शम्भो शशाङ्कधर शङ्कर शूलपाणे स्वामिन् त्रिशूलधर मोक्षद भोगदायिन् । सर्वावतारधर पालितजीवलोक श्रीभीमशङ्करविभो तव सुप्रभातम् ॥ १७॥ श्रीभीमनाथ हर दिव्यतलाधिवास श्रीपार्वतीहृदयपङ्कजभृङ्गरूप । श्रीनीलकण्ठ पर शर्व उमेश शम्भो श्रीभीमशङ्करविभो तव सुप्रभातम् ॥ १८॥ कन्दर्पदर्पहर कञ्जभवादिवन्द्य गौरीकुचाम्बुरुहकुट्मललोलदृष्टे । भद्रप्रदातृभवभक्तिसुलभ्य देव श्रीभीमशङ्करविभो तव सुप्रभातम् ॥ १९॥ भस्मप्रलिप्तशुभदायक दिव्यमूर्ते भस्मासुरादिखलमर्दनकम्ररूप । गौरीविनिर्मितसुभक्ष्यसुभोज्यभोजिन् श्रीभीमशङ्करविभो तव सुप्रभातम् ॥ २०॥ नन्दीशवाह नरकार्णवकर्णधार नारायणादिसुरसंस्तुतदिव्यनाम । श्रीदक्षवाटपुरनिर्मितदिव्यसौध श्रीभीमशङ्करविभो तव सुप्रभातम् ॥ २१॥ श्रीमन्गणादिमुनिभावितदिव्यदेह त्रय्यन्तवेद्य त्रिपुरान्तक श्रीत्रिनेत्र । ज्ञानार्थदानपरिनिष्ठितदिव्यचित्त श्रीभीमशङ्करविभो तव सुप्रभातम् ॥ २२॥ व्यासादिपण्डितवरस्तुत दिव्यचित्त भक्तालिदिव्यपदवीप्रद भासुराङ्ग । संसारसार शिव शान्त सुरूप शम्भो श्रीभीमशङ्करविभो तव सुप्रभातम् ॥ २३॥ उन्मील्य नेत्रयुगलं द्विजवृन्दमाशु पञ्चाक्षरीजपसुनिष्ठितदिव्यचित्त । आयाति ते पदसरोजतलन्तु नित्यं श्रीभीमशङ्करविभो तव सुप्रभातम् ॥ २४॥ तन्त्रीनिबद्धस्वरयुक्तवर्णा गायन्ति ते दिव्यचरित्रमारात् । भक्त्या नितान्तं भवनारदाद्या भीमेशभूयात् तव सुप्रभातम् ॥ २५॥ श्रितालिसत्काम्यसुपारिजात श्रीविष्णुचक्रप्रद भव्यतीर्थ । श्रीसूर्यहस्तार्चितदिव्यपाद भीमेशभूयात् तव सुप्रभातम् ॥ २६॥ श्रीबिल्वपत्रार्चितपादपद्म श्रीविष्णुहृत्तामरसाभिरम्य । नागेन्द्रभूषाप्रिय नाकवन्द्य भीमेशभूयात् तव सुप्रभातम् ॥ २७॥ श्रीसप्तगोदावरिहेमपदैः सम्पूजितुं त्वां तु नितान्तभक्त्या । आयान्ति भक्ताश्च सुदूरदेशात् भीमेशभूयात् तव सुप्रभातम् ॥ २८॥ श्रीसप्तगोदावरिपूतनीरैः मूर्धाभिषिक्तेश्वर मङ्गलाङ्ग । शम्भो महादेव जगन्निवास भीमेशभूयात् तव सुप्रभातम् ॥ २९॥ इत्थं वृषध्वजविभोरिह सुप्रभातं ये सज्जनाः प्रतिदिनं पठितुं प्रवृत्ताः । तेषां प्रभातसमये शिवभक्तिमाद्यां प्रज्ञां सुमुक्तिपदवीं श्रियमाशु दद्यात् ॥ ३०॥ इति द्राक्षारामभीमेश्वरसुप्रभातं सम्पूर्णम् ।