अक्षर आकार:

श्रीधर्मपुरी रामलिङ्गेश्वर सुप्रभातम्

Shri Dharmapuri Ramalingeshvara Suprabhatam

श्रीधर्मपुरी रामलिङ्गेश्वर सुप्रभातम्

सुप्रभातंस्तोत्रम् प्रपत्ती च श्रीमद्धर्मपुरीनाथरामचन्द्रप्रतिष्ठित । उत्तिष्ठरामलिङ्गेश रक्षितव्यं जगत्रयम् ॥ १॥ उत्तिष्टोत्तिष्टगौरीश उत्तिष्ठ वृषवाहन । उत्तिष्ठजगदधार उदयाद्रिं गतो रविः ॥ २॥ ऐशान्यकोणगतमन्दिरगोगणेश भक्तैर्भवान् प्रथमतः खलु वन्दनीयः । दन्तैकघातविनिपातितदुष्टदैत्य श्रीरामलिङ्गसुत ते ननु सुप्रभातम् ॥ ३॥ दाक्षयणीतिप्रथमं धृतनामधेये श्रीपार्वतीति तदनु प्रथिते ह्यपर्णे । विश्वेश्वरीतिपतिदत्ततदर्धदेहे श्रीरामलिङ्गदयिते तव सुप्रभातम् ॥ ४॥ देवाधिदेवफणिभूषण नीलकण्ठ शम्भोमहेश शशिभूषण वेदवेद्य । रक्ष्याःसदा सकललोक जनांस्त्वमेव श्रीरामलिङ्गभगवन् तव सुप्रभातम् ॥ ५॥ पित्राज्ञयावनगतेन सभार्यकेण रामेणधर्मनिरतेन हि धर्मपुर्याम् । त्वंगौतमी ??कतया कृतलिङ्गरूपः श्रीरामलिङ्गभगवन् तव सुप्रभातम् ॥ ६॥ एकादशैश्चलघुरुद्रमहातिरुद्रैः रुद्रानुवाकचमकादिक वेदघोषैः । आयान्तिविप्रविबुधाश्च तवार्चनाय श्रीरामलिङ्गभगवन् तव सुप्रभातम् ॥ ७॥ गोदावरीसुजलपूर्णघटान्गृहीत्वा भक्ताललाटसमलंकृतभस्मरेखाः । द्वारेऽत्रसन्ति भवतो ह्यभिषेचनार्थं श्रीरामलिङ्गभगवन् तव सुप्रभातम् ॥ ८॥ ब्राह्मीमुहूर्तमनुगम्यविहङ्गमास्तु अश्वत्थवृक्षमधिरुह्यजनान् स्वरावैः । तेचैव दर्शनफलं ननु बोधयन्ति श्रीरामलिङ्गभगवन् तव सुप्रभातम् ॥ ९॥ तिथ्यादिकंशुकमुखात् पठतीह जीवः तेनारदः पिकमुखात् कुरुतेऽत्र गानम् । भृङ्गीच नृत्यति मुदाऽत्र मयूररूपः श्रीरामलिङ्गभगवन् तव सुप्रभातम् ॥ १०॥ चन्द्रार्कनेत्र भवतः खलु सेवनाय चन्द्रोऽभवच्चशिरस्तव भूषणं हि । पादौहि रञ्जयति ते स्वकरै स्त्विहार्कः श्रीरामलिङ्गभगवन् तव सुप्रभातम् ॥ ११॥ यत्त्वन्बरंतव तनुत्वमुपेत्य भक्त्या भक्तप्रकीर्तितभवत् स्तुतिगीतिरावम् । तुष्यत्तनोतिच दिशाः श्रुतिघोषरूपं श्रीरामलिङ्गभगवन् तव सुप्रभातम् ॥ १२॥ यस्त्वच्छरीरपदवींगमितोऽनलोऽसौ त्वन्मन्दिरंस्वकिरणैस्तु प्रकाशयंश्च । त्वांसेवतेऽत्र खलु निश्चलदीपरूपः श्रीरामलिङ्गभगवन् तव सुप्रभातम् ॥ १३॥ योमारुतस्तव तनुत्वमुपेत्य भक्तः त्वांसेवितुं त्विह हिपूरितवेणु यष्टिः । शम्भोकरोति तव कीर्तिमयं स गानं श्रीरामलिङ्गभगवन् तव सुप्रभातम् ॥ १४॥ यागौतमेन कृतगोहतिपापनाशा गोदावरीतव जटोद्भववाहिनी च । त्वांसेवितुं पुरमिमां तु गताहि सैषा श्रीरामलिङ्गभगवन् तव सुप्रभातम् ॥ १५॥ वाराणसीपुरपतेस्तवदर्शनार्थम् विश्वश्वरेतितपतः खलु भक्तवृन्दान् । संरक्षितुंत्विह समुद्भवलिङ्गरूपः श्रीरामलिङ्गभगवन् तव सुप्रभातम् ॥ १६॥ मात्रास्वरक्षणकृते ह्यवारितो यः विघ्नान्धकारविनिवारकभानुरेषः। तेदर्शनार्थमगजासुत ईक्षतेऽत्र श्रीरामलिङ्गभगवन् तव सुप्रभातम् ॥ १७॥ तेजोहि यत्तव निपातितमग्निमूर्तौ स्कन्दस्तदेवविनिघातिततारकोऽभूत् । षाण्मातुरःस भवतेऽत्र निरीक्षते हि श्रीरामलिङ्गभगवन् तव सुप्रभातम् ॥ १८॥ यात्वाज्ञयैव खलु ते महिषासुराख्यं सिंहस्थ्तिताह्यगमयत् यमराजसद्म । दुर्गामुदाऽत्र तव दर्शनलोलुपैषा श्रीरामलिङ्गभगवन् तव सुप्रभातम् ॥ १९॥ त्वत्तुल्यपुत्रमभिकामयिताशिलादः यत्त्वत्प्रसादमधिगम्यस यं ह्यवाप । त्वद्दर्शनायस तु ते पुरतोऽस्ति नन्दी श्रीरामलिङ्गभगवन् तव सुप्रभातम् ॥ २०॥ यश्चाम्बुधेस्तुमथने कृतवान् सहायं योवासुकी च गळभूषणतां गतस्ते । सोऽयंफणी तव सुदर्शनलोलुपोऽत्र श्रीरामलिङ्गभगवन् तव सुप्रभातम् ॥ २१॥ यद्विश्वनाथकृतशङ्कर सुप्रभातं प्रातस्तुये निलयमेत्य पठन्ति भक्त्या । तेरामलिङ्गसदनुग्रपात्रभूताः आजीवनंहि सदभीष्टफलं लभन्ते ॥ २२॥ इति सुप्रभातं समाप्तम् । अथश्री धर्मपुरी श्रीरामलिङ्गेश्वरसुप्रभाताण्तर्गतं स्तोत्रम् । धनुषीकृतमेरुगिरीन्द्रविभो वरचापगुणीकृतनागपते। स्वशरीकृतविष्णुहतत्रिपुर जयरामप्रतिष्ठितलिङ्ग शिव ॥ १॥ शिशुचन्द्रविभूषितमौळितट घनसर्पलसद्भुजदण्डविभो। गिरिजाप्रगतस्वकवामतनो जयरामप्रतिष्ठितलिङ्ग शिव ॥ २॥ निजभक्तवचःपरितुष्ट हर निजशूलविभीतयमादितते। निजपादपवित्रितगोत्रमणे जयरामप्रतिष्ठितलिङ्ग शिव ॥ ३॥ मदमत्तगजाजिनवस्त्रधर स्थिरबद्धजटा भृतदेवनदे । धृतकान्तवपुःपरमात्मविभो जयरामप्रतिष्ठितलिङ्ग शिव ॥ ४॥ त्रिपुरान्तकचान्धकराक्षसहन् प्रळायान्तकभीतकृतान्त विभो । वरताण्डवनन्दितभक्ततते जयरामप्रतिष्ठितलिङ्ग शिव ॥ ५॥ शिपिविष्टदिगम्बर शूलकर शशिशेखरनागविभूषतनो । अवताज्जगतींनिजभक्तयुतां जयरामप्रतिष्ठितलिङ्ग शिव ॥ ६॥ ननुधर्मपथं स्वयमाचरितुं धृतरामवपुर्हरिणाप्रणुतः । शिवकेशवयोर्न हि भेद इति जयरामप्रतिष्ठितलिङ्ग शिव ॥ ७॥ मनसावचसा वपुषा सततं करणैश्चत्रिभिस्तव नाम जपन् । भवतोहि नरो निलयं लभते जयरामप्रतिष्ठितलिङ्ग शिव ॥ ८॥ कृतयाऽर्चनयाहृतपापचयाः जितयोगिहृदस्तवभक्त वराः । पटवोनिलयाधिगमे हर ते जयरामप्रतिष्ठितलिङ्ग शिव ॥ ९॥ भवभस्म विलेपितदेहधरः शतरुद्रविधानक पूजयिता । सच तुष्टिकरस्तव भक्तवरो जयरामप्रतिष्ठितलिङ्ग शिव ॥ १०॥ हरिपादसमुद्भवदेवनदी निजनाथगृहाधिगमेऽभिरता । भुवनत्रयंखलु पावयितुं हरते निलयं गमिता सा ॥ ११॥ भवमूडमतिं तव भक्तममुं हरपश्य सदा दयया वरद । निजभक्तमनोरथसिद्धिकर जयरामप्रतिष्ठितलिङ्ग शिव ॥ १२॥ इति स्तोत्रं सम्पूर्णम् । अथश्री धर्मपुरी श्रीरामलिङ्गेश्वरसुप्रभाताण्तर्गता प्रपत्तिः । योब्रह्मादि समस्त देवविनुतो लिङ्गात्मकस्यात्मजः यंलब्ध्वा हि मुदान्विता सुतनयं गौरी जगन्मातृका । यस्येष्टानुगुणंसमस्तविपदो दूरीकृता भक्तगाः वन्देतं वररामलिङ्गतनयं श्रीविघ्ननाथं सदा ॥ १॥ अयिकरिकर्णिकमूषिकवाहन पर्वतजासुत साम्बप्रिय नुतजनपोषकषण्मुखसेवित शङ्करचुम्बितफालतट । वरचतुराननदेवगणार्चितदानवभञ्जक दासरत जयगणनायक विघ्नविनाशक धर्मपुरीजनपाल विभो ॥ २॥ यैषादुष्टनिवारणे सुनिरता भक्तार्तिनिर्हारिणी यस्यास्त्विष्टतयाहि लब्धविभवा निष्किञ्चनाः प्राणिनः । मूढान्ज्ञानवतः करोति सततं या स्वप्रसादान्मुदा वन्देधर्मपुरीस्थितां भगवतीं तां रामलिङ्गेश्वरीम् ॥ ३॥ हरनिजमूर्धजपाशजटोद्भवगौतमजासिकतोद्भव भोः वररघुवंशकळानिधिकीर्तितराघवसेवितलिङ्गतनो। निजवरभक्तकृताघविनाशकदासजनार्थितदानरते जयरजनीकरभूषितशेखर धर्मपुरीविलसन्निलय ॥ ४॥ ध्यानेलीनयतीन्द्रवृन्दहृदयं सम्मोदयंश्चैकतः वामाङ्गस्थितपार्वतीमपिनिजां संलालयंश्चान्यतः । स्वर्लोकाद्भुवनत्रयं जिगमिषुं गङ्गां तथा धारयन् योभक्तान् खलु रक्षतीह वरदस्तं रामलिङ्गं भजे ॥ ५॥ भस्मोद्धूलितविग्रहोऽपिसततं भक्तेभ्य ऐश्वर्यदः नाम्नारुद्रकमूर्तिरप्यविरतं शान्तस्वभावश्च यः । दारायत्तशरीरकोऽपिनियतैः संस्तूयते ऽहर्निशं वन्देधर्मपुरी स्थितं भवहरं त्वां रामलिङ्गेश्वर ॥ ६॥ यागङ्गा चतुराननस्य कलशात् श्रीविष्णुपादं गता यालोकत्रयपावनाय भवतो मूर्ध्नि स्थिता पावनी । सैषाते ह्यभिषेचनाय गमिता गोदवरीत्वं त्विह वन्देधर्मपुरी स्थितं त्वघहरं त्वां रामलिङ्गेश्वर ॥ ७॥ ब्रह्मादिदेवमकुटाग्रमणिप्रदीप्तौ याभ्यांहि पावित तनुर् हिमवान् नितान्तम् । यौरावणस्य भुकदर्पविनाशहेतू तौरामलिङ्ग चरणौ शरणं प्रपद्ये ॥ ८॥ वेदान्तिभिःशिव भवान् प्रणतो हि ब्रह्म यःसाङ्ख्याकै स्तु पुरुषः प्रकृतेर् विभिन्नः । विष्णुर्विरिञ्चिरिति नैकबुधै स्त्वमेकः त्वांरामलिङ्ग शुभदं शरणं प्रपद्ये ॥ ९॥ योराजन्नसुलोचनः फणिधरः रामारमः शङ्करः । प्रार्थीराज्यप्रसाददःशशिधरः यो विश्वनाथो जयः । योऽसौहैमवती सुकान्तवरदः भागीरथी शेखरः वन्देत्वां नटराज रामवरदं हीन्दूत्तमाङ्गाद्विक ॥ १०॥ ब्रह्मात्वमेव जगतः खलु सृष्टि कार्ये विष्णुस्त्वमेव ननु सूद्धरणे च तस्य । रुद्रस्त्वमेवविलयी करणे च तस्य त्वांरामलिङ्ग शुभदं शरणं प्रपद्ये ॥ ११॥ भूम्यादयोहि भवतस्तनवोऽष्टमूर्ते निस्स्वार्थतांप्रकटयन्ति न केवलं तु । तेचैव लोकसुहिताय भवन्ति नूनं त्वांरामलिङ्ग शुभदं शरणं प्रपद्ये ॥ १२॥ हेपार्वतीश वरद त्वयि भक्तिशून्यः वेदान्तशास्त्रनिखिलागमपण्डितोयः । तज्जीवनंगिरिश तस्य निरर्थकं स्यात् त्वांरामलिङ्ग शुभदं शरणं प्रपद्ये ॥ १३॥ गाणाधिपत्यमधिगन्तुमहोनु दन्ती यत्तेप्रदक्षिणविधिं कृतवान् सुभक्तः । तेभक्तिशून्यमितरत्तु निरर्थकं तत् त्वांरामलिङ्ग शुभदं शरणं प्रपद्ये ॥ १४॥ मारःशरीकृत सु पुष्पनिपातनेन त्वत्क्रोधजन्यनिटलेक्षणवह्निदग्धः । मत्तस्यभक्तिरहितस्य फलं नुचैतत् त्वांरामलिङ्ग शुभदं शरणं प्रपद्ये ॥ १५॥ नादिंह्यजो तव समैक्षत लिङ्गमूर्तेः नान्तंच विष्णुरपि ते शिव मूर्तिमत्त्वम् । वेत्तुंतु कैस्तव विलासमहो नु साध्यं त्वांरामलिङ्ग शुभदं शरणं प्रपद्ये ॥ १६॥ रामोहि धर्मनिरतो भवतश्च भक्तः भक्तस्त्वधर्मनिरतस्त्वथरावणोऽपि । धर्मोऽभवद्धिविजयी भवतः प्रसादात् त्वांरामलिङ्ग शुभदं शरणं प्रपद्ये ॥ १७॥ कैरातकेनवपुषा सुपरीक्षतः सन् प्रापार्जुनोहि तव पाशुपतं कृपाळो । येनारिनशनविधावभवत्समर्थः त्वांरामलिङ्ग शुभदं शरणं प्रपद्ये ॥ १८॥ रामस्तुशत्रुमवधीच्च तवार्चनेन कृष्णःप्रियसुतमवाप तवार्चनेन विष्णुःसुदर्शनमवाप तवार्चनेन त्वांरामलिङ्ग शुभदं शरणं प्रपद्ये ॥ १९॥ सम्प्राप्यमृत्युसमयं तु मृकण्डुसूनुः त्यक्तोयमेन भवतो नु दयां स लब्ध्वा । भक्तार्तिनाशनविधौत्वमहो निबद्धः त्वांरामलिङ्ग शुभदं शरणं प्रपद्ये ॥ २०॥ दुग्धाम्बुधेःसुमथितात्तु सुरासुरैश्च तस्माद्धिजातगरळं भवता निपीय । हेनीलकण्ठ जगतो विहिता सुरक्षा त्वांरामलिङ्ग शुभदं शरणं प्रपद्ये ॥ २१॥ यःस्त्री मिषाद्धरिरमोहयदङ्ग भोस्त्वां प्रासूतसैष भुवनारिविनाशपुत्रम् । सर्वाःक्रियास्तव हि लोकहिता भवन्ति त्वांरामलिङ्ग शुभदं शरणं प्रपद्ये ॥ २२॥ बाल्यात्त्वमेवशिव मे ननु चात्मबन्धुः नत्वां विना मम सखा हुदयङ्गतो यः । त्वय्येवदत्तहृदयस्तु करोमि सर्वं त्वांरामलिङ्ग शुभदं शरणं प्रपद्ये ॥ २३॥ हेरामलिङ्ग भगवन् तव सेवनेषु किंवा कृतं त्वयि मया त्व विचिन्त्य दोषम् । यस्मात्तवस्मृति पथाद्धि विसृष्ट एषः तत्प्राप्तुमीश करवाणि किमद्य हृद्यम् ॥ २४॥ याचेत्वहं न हि धनं ननु नीलकण्ठ कीर्तिंच नैव न तु विस्तृत सार्वभौमम् । याचेतु केवलमहं भवतः कृपां तां यांचिन्तयामि भुवनाधिपतेरनूनाम् ॥ २५॥ श्रीरामलिङ्ग भगवान् वरपाठकेभ्यो नित्यंत्वभीष्ट शुभ सौख्य फलं ददातु । लक्ष्मीःसमाविशतु भक्तगृहाणि भद्रा सर्वत्रचास्तु विजयः सकलस्तु तेषाम् ॥ २६॥ ॥ इति संस्कृतसाहित्यरत्नबिरुदाञ्चितस्य बुधकोटिनुतस्य प्रथितकविपण्डितगणाग्रणीवरस्याखिलशिष्यकोटिवृन्दार्चित- पादपद्मयुगळस्यआचार्यकोरिडेराजन्नशास्त्रिणः द्वितीयपुत्रेण कोरिडेविश्वनाथ शर्मणा विरचिता श्रीधर्मपुरीरामलिङ्गेश्वर प्रपत्तिःसमाप्ता ॥ Composedby Koride Vishwanatha Sharma, Dharmapuri, Telangana