अक्षर आकार:

श्रीधर्मपुरीरामलिङ्गेश्वर मङ्गलाशासनम्

Dharmapuri Ramalingeshvara Mangalashasanam

श्रीधर्मपुरीरामलिङ्गेश्वर मङ्गलाशासनम्

अथ श्री धर्मपुरीरामलिङ्गेश्वर मङ्गलाशासनम् एकस्मै जगतां भर्त्रे ह्यनेकाकृतिशोभने । मङ्गलं धर्मपूर्वास ! रामलिङ्गेश्वराय ते ॥ १॥ द्विजिह्व गलभूषाय द्विजेन्द्राश्रितमौलये । मङ्गलं धर्मपूर्वास ! रामलिङ्गेश्वराय ते ॥ २॥ त्रिनेत्राञ्चितरूपाय त्रिशूलायुधधारिणे । मङ्गलं धर्मपूर्वास ! रामलिङ्गेश्वराय ते ॥ ३॥ चतुरास्यसुसेव्याय चतुर्वेदस्वरूपिणे । मङ्गलं धर्मपूर्वास ! रामलिङ्गेश्वराय ते ॥ ४॥ पञ्चास्यशोभिने तस्मै पञ्चबाणविमर्दिने । मङ्गलं धर्मपूर्वास ! रामलिङ्गेश्वराय ते ॥ ५॥ षड्दर्शनैः सुवेद्याय षडानननुताय च । मङ्गलं धर्मपूर्वास ! रामलिङ्गेश्वराय ते ॥ ६॥ सप्तर्षिवर्यगीताय सप्ताश्वरथचक्षुषे । मङ्गलं धर्मपूर्वास ! रामलिङ्गेश्वराय ते ॥ ७॥ अष्टमूर्तिस्वरूपाय ह्यष्टैश्वर्य प्रदायिने । मङ्गलं धर्मपूर्वास ! रामलिङ्गेश्वराय ते ॥ ८॥ नवग्रहाणां शास्त्रे च नव द्रव्यात्मकाय च । मङ्गलं धर्मपूर्वास ! रामलिङ्गेश्वराय ते ॥ ९॥ दशदिग्व्याप्तदेहाय दशास्येन नुताय च । मङ्गलं धर्मपूर्वास ! रामलिङ्गेश्वराय ते ॥ १०॥ एकादशात्मरुद्राय ह्येकादशाघनाशिने । मङ्गलं धर्मपूर्वास ! रामलिङ्गेश्वराय ते ॥ ११॥ दाक्षायणी प्रियङ्कर्त्रे दक्षयज्ञविनाशिने । मङ्गलं धर्मपूर्वास ! रामलिङ्गेश्वराय ते ॥ १२॥ पार्वतीहृतदेहाय पर्वताग्रनिवासिने । मङ्गलं धर्मपूर्वास ! रामलिङ्गेश्वराय ते ॥ १३॥ यतीन्द्रप्रवारा यं हि नित्यं ध्यायन्ति तत्पराः । मङ्गलं धर्मपूर्वास ! रामलिङ्गेश्वराय ते ॥ १४॥ मयाहि कोरिडे कुलीन विश्वनाथशर्मणा मुदा कृतं तु रामलिङ्ग सुप्रभात सेवनम् । शिवाय चास्तु मोदकं प्रपाठकाय मोक्षदं भवेन्नुताय शङ्करं सदा ह्यरिष्ट नाशकम् ॥ १५॥ श्री धर्मपुरवास्तव्य कोर्डे वंशोद्भवेन हि । राजन्नशास्त्रि पुत्रेण विश्वनाथेन शर्मणा ॥ १६॥ कृता हि वाङ्मयी पूजा शिवानुग्रहकाङ्क्षिणा । शिवाय प्रीतिदा भूयात् पाठकाय शिवङ्करी ॥ १७॥ इति संस्कृतसाहित्यरत्नपदलाञ्छनस्य, बुधकोटिनुतस्य, प्रथितकविपण्डितगणाग्रणीवरस्य, अखिलशिष्यकोटिबृन्दार्चितपादपद्मयुगलस्य, आचार्यकोरिडेराजन्नशास्त्रिणः द्वितीयपुत्रेण कोरिडे विश्वनाथ शर्मणा विरचिता श्रीधर्मपुरीरामलिङ्गेश्वर वाङ्मयीपूजा समाप्ता ॥