अक्षर आकार:

श्रीधीरगुरुभूतेश्वरस्तोत्रम्

Shri Dhiragurubhuteshvarastotram

श्रीधीरगुरुभूतेश्वरस्तोत्रम्

माङ्गल्यदाननिरतप्रणमज्जनानां मान्धातृमुरव्यधरणीपतिचिन्तिताङ्घ्रे । मान्द्यान्धकारविनिवारणचण्डभानो मां पाहि धीरगुरुभूत शशाङ्कमौले ॥ १॥ मां प्राप्नुयादखिलसौख्यकरी सुधीश्च माकन्दतुल्यकविता सकलाः कलाश्च । क्वाचित्कयत्पदसरोजनतेर्हि स त्वं मां पाहि धीरगुरुभूत शशाङ्कमौले ॥ २॥ मातङ्गकृत्तिबसन प्रणतार्तिहारिन् मायासरित्पतिविशोषणबाडवाग्ने । मानोन्नतिप्रद निजाङ्घ्रिजुषां नराणां मां पाहि धीरगुरुभूत शशाङ्कमौले ॥ ३॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचितं श्रीधीरगुरुभूतेश्वरस्तोत्रं सम्पूर्णम् ।