अक्षर आकार:

श्रीदक्षिणामूर्ति अष्टोत्तरशतनामस्तोत्र

shrI dakShiNAmUrti aShTottarashatanAma stotra

श्रीदक्षिणामूर्ति अष्टोत्तरशतनामस्तोत्र

॥ अथ ध्यानम्॥ वटवृक्ष तटासीनं योगी ध्येयांघ्रि पङ्कजम्। शरश्चन्द्र निभं पूज्यं जटामुकुट मण्डितम् ॥ १॥ गङ्गाधरं ललाटाक्षं व्याघ्र चर्माम्बरावृतम्। नागभूषं परंब्रह्म द्विजराजवतंसकम् ॥ २॥ अक्षमाला ज्ञानमुद्रा वीणा पुस्तक शोभितम्। शुकादि वृद्ध शिष्याढ्यं वेद वेदान्तगोचरम्॥ ३॥ युवानां मन्मथारातिं दक्षिणामूर्तिमाश्रये। ॥ अथ दक्षिणामूर्ति अष्टोत्तरशतनाम स्तोत्रं ॥ ॐ विद्यारूपी महायोगी शुद्ध ज्ञानी पिनाकधृत् । रत्नालंकृत सर्वाङ्गी रत्नमौळिर्जटाधरः ॥ १॥ गङ्गाधर्यचलावासी महाज्ञानी समाधिकृत्। अप्रमेयो योगनिधिर्तारको भक्तवत्सलः॥ २॥ ब्रह्मरूपी जगद्व्यापी विष्णुमूर्तिः पुरातनः । उक्षवाहश्चर्मवासाः पीताम्बर विभूषणः॥ ३॥ मोक्षदायी मोक्ष निधिश्चान्धकारी जगत्पतिः। विद्याधारी शुक्ल तनुः विद्यादायी गणाधिपः॥ ४॥ प्रौढापस्मृति संहर्ता शशिमौळिर्महास्वनः । साम प्रियोऽव्ययः साधुः सर्व वेदैरलङ्कृतः ॥ ५॥ हस्ते वह्निधरः श्रीमान् मृगधारी वशङ्करः । यज्ञनाथ क्रतुध्वंसी यज्ञभोक्ता यमान्तकः॥ ६॥ भक्तानुग्रह मूर्तिश्च भक्तसेव्यो वृषध्वजः । भस्मोध्दूलित सर्वाङ्गः चाक्षमालाधरोमहान् ॥ ७॥ त्रयीमूर्तिः परंब्रह्म नागराजैरलङ्कृतः । शान्तरूपो महाज्ञानी सर्व लोक विभूषणः ॥ ८॥ अर्धनारीश्वरो देवोमुनिस्सेव्यस्सुरोत्तमः । व्याख्यानदेवो भगवान् रवि चन्द्राग्नि लोचनः ॥ ९॥ जगद्गुरुर्महादेवो महानन्द परायणः । जटाधारी महायोगी ज्ञानमालैरलङ्कृतः ॥ १०॥ व्योमगङ्गा जल स्थानः विशुद्धो यतिरूर्जितः । तत्त्वमूर्तिर्महायोगी महासारस्वतप्रदः ॥ ११। व्योममूर्तिश्च भक्तानां इष्टकाम फलप्रदः । परमूर्तिः चित्स्वरूपी तेजोमूर्तिरनामयः ॥ १२॥ वेदवेदाङ्ग तत्त्वज्ञः चतुःष्षष्टि कलानिधिः । भवरोग भयध्वंसी भक्तानामभयप्रदः ॥ १३॥ नीलग्रीवो ललाटाक्षो गज चर्मागतिप्रदः । अरागी कामदश्चाथ तपस्वी विष्णुवल्लभः ॥ १४॥ ब्रह्मचारी च सन्यासी गृहस्थाश्रम कारणः । दान्तः शमवतां श्रेष्ठो सत्यरूपो दयापरः ॥ १५॥ योगपट्टाभिरामश्च वीणाधारी विचेतनः । मतिप्रज्ञा सुधाधारी मुद्रापुस्तक धारणः ॥ १६॥ वेतालादि पिशाचौघ राक्षसौघ विनाशनः । राज यक्ष्मादि रोगाणां विनिहन्ता सुरेश्वरः ॥ ॥ इति श्री दक्षिणामूर्ति अष्टोत्तरशतनाम स्तोत्रं सम्पूर्णम् ॥