अक्षर आकार:

श्रीदक्षिणामूर्ति नवरत्नमालिकास्तोत्रम्

Shri DakShinamurti Navaratnamalika Stotra

श्रीदक्षिणामूर्ति नवरत्नमालिकास्तोत्रम्

॥ श्री दक्षिणामूर्ति नवरत्नमालिका स्तोत्रम् ॥ मूलेवटस्य मुनिपुङ्गवसेव्यमानं मुद्राविशेषमुकुलीकृतपाणिपद्मम् । मन्दस्मितं मधुरवेषमुदारमाद्यं तेजस्तदस्तु हृदि मे तरुणेन्दुचूडम् ॥ १॥ शान्तं शारदचन्द्रकान्तिधवळं चन्द्राभिरमाननं चन्द्रार्कोपमकान्तिकुण्डलधरं चन्द्रावदातांशुकम् । वीणापुस्तकमक्षसूत्रवलयं व्याख्यानमुद्रांकरै- र्बिभ्राणं कलये हृदा मम सदा शास्तारमिष्टार्थदम् ॥ २॥ कर्पूरपात्रमरविन्ददळायताक्षं कर्पूरशीतलहृदं करुणाविलासम् । चन्द्रार्धशेखरमनन्तगुणाभिराम- मिन्द्रादिसेव्यपदपङ्कजमीशमीडे ॥ ३॥ द्युद्रोधः स्वर्णमयासनस्थं मुद्रोल्लसद्बाहुमुदारकायम् । सद्रोहिणीनाथकळावतंसं भद्रोदधिं कञ्चन चिन्तयामः ॥ ४॥ उद्यद्भास्करसन्निभं त्रिणयनं श्वेताङ्गरागप्रभं बालं मौञ्जिधरं प्रसन्नवदनं न्यग्रोधमूलेस्थितम् । पिङ्गाक्षं मृगशावकस्थितिकरं सुब्रह्मसूत्राकृतिम् भक्तानामभयप्रदं भयहरं श्रीदक्षिणामूर्तिकम् ॥ ५॥ श्रीकान्तद्रुहिणोपमन्यु तपन स्कन्देन्द्रनन्द्यादयः प्राचीनागुरवोऽपियस्य करुणालेशाद्गतागौरवम् । तं सर्वादिगुरुं मनोज्ञवपुषं मन्दस्मितालङ्कृतं चिन्मुद्राकृतिमुग्धपाणिनळिनं चित्तं शिवं कुर्महे ॥ ६॥ कपर्दिनं चन्द्रकळावतंसं त्रिणेत्रमिन्दुपतिमाननोज्वलम् । चतुर्भुजं ज्ञानदमक्षसूत्र- पुस्ताग्निहस्तं हृदि भावयेच्छिवम् ॥ ७॥ वामोरूपरिसंस्थितां गिरिसुतामन्योन्यमालिंगितां श्यामामुत्पलधारिणी शशिनिभांचालोकयन्तं शिवम् । आश्लिष्टेन करेण पुस्तकमधो कुंभं सुधापूरितं मुद्रां ज्ञानमयीं दधानमपरैर्मुक्ताक्षमालां भजे ॥ ८॥ वटतरुनिकटनिवासं पटुतरविज्ञानमुद्रितकराब्जम् । कञ्चनदेशिकमाद्यं कैवल्यानन्दकन्दळं वन्दे ॥ ९॥ इति श्री दक्षिणामूर्ति नवरत्नमाला स्तोत्रं सम्पूर्णम् ॥