अक्षर आकार:

श्रीदक्षिणास्यभुजङ्गप्रयातस्तुतिः

Shri Dakshinasyabhujangaprayatastutih

श्रीदक्षिणास्यभुजङ्गप्रयातस्तुतिः

भवाम्भोधिपारे नयन्तं स्वभक्तान् कृपापूरपूर्णैरपाङ्गैः स्वकीयैः । समस्तागमान्तप्रगीतापदानं सदा दक्षिणास्यं तमाराधयेऽहम् ॥ १॥ चतुर्विंशदर्णस्य मन्त्रोत्तमस्य प्रजापाद्दृढं वश्यभावं समेत्य । प्रयच्छत्यरं यश्च विद्याममोघां सदा दक्षिणास्यं तमाराधयेऽहम् ॥ २॥ जडायापि विद्यां प्रयच्छन्तमाशु प्रपन्नार्तिविध्वंसदक्षाभिधानम् । जराजन्ममृत्यून्हरन्तं प्रमोदात् सदा दक्षिणास्यं तमाराधयेऽहम् ॥ ३॥ यमाराध्य पद्माक्षपद्मोद्भवाद्याः सुराग्र्याः स्वकार्येषु शक्ता बभूवुः । रमाभारतीपार्वतीस्तूयमानं सदा दक्षिणास्यं तमाराधयेऽहम् ॥ ४॥ सुधासूतिबालोल्लसन्मौलिभागं सुधाकुम्भमालालसत्पाणिपद्मम् । सपुत्रं सदारं सशिष्यं सवाहं सदा दक्षिणास्यं तमाराधयेऽहम् ॥ ५॥ गजास्याग्निभूसेव्यपादारविन्दं गजाश्वादिसम्पत्तिहेतुप्रणामम् । निजानन्दवाराशिराकासुधांशुं शुचीन्द्वर्कनेत्रं भजे दक्षिणास्यम् ॥ ६॥ गुणान्षट्शमादीनिहामुत्र भोगे विरक्तिं विवेकं ध्रुवानित्ययोश्च । मुमुक्षां च शीघ्रं लभेत प्रसादा- त्तमानन्दकन्दं भजे दक्षिणास्यम् ॥ ७॥ जडो जन्ममूकोऽपि यन्मन्त्रजप्तुः करस्पर्शनात्स्यात्सुराचार्यतुल्यः । तमज्ञानवारान्निधेर्बाडवाग्निं मुदा सर्वकालं भजे दक्षिणास्यम् ॥ ८॥ जहौ मृत्युभीतिं यदीयाङ्घ्रिपद्मं सदा पूजयित्वा मृकण्डोस्तनूजः । तमद्रीन्द्रकन्यासमाश्लिष्टदेहं कृपावारिराशिं भजे दक्षिणास्यम् ॥ ९॥ पुरा कामयाना पतिं स्वानुरूपां चरित्वा तपो दुष्करं शैलकन्या । अवापादराद्या रुचा कामगर्वं हरन्तं तमन्तर्भजे दक्षिणास्यम् ॥ १०॥ यदीयाङ्घ्रिसेवापराणां नराणां सुसाध्या भवेयुर्जवात्सर्वयोगाः । हठाद्याः शिवान्ता यमाद्यङ्गयुक्ता मुदा सन्ततं तं भजे दक्षिणास्यम् ॥ ११॥ वटागस्य मूले वसन्तं सुरस्त्री- कदम्बैः सदा सेव्यमानं प्रमोदात् । वरान् कामितान्नम्रपङ्क्त्यै दिशन्तं दयाजन्मभूभिं भजे दक्षिणास्यम् ॥ १२॥ विधूताभिमानैस्तनौ चक्षुरादा- वहन्त्वेन सम्प्राप्यमेकाग्रचित्तैः । यतीन्द्रैर्गुरुश्रेष्ठविज्ञाततत्त्वै- र्महावाक्यगूढं भजे दक्षिणास्यम् ॥ १३॥ शुकाद्या मुनीन्द्रा विरक्ताग्रगण्याः समाराध्य यं ब्रह्मविद्यामवापुः । तमल्पार्चनातुष्टचेतोऽम्बुजातं चिदानन्दरूपं भजे दक्षिणास्यम् ॥ १४॥ श्रुतेर्युक्तितश्चिन्तनाद्‍ध्यानयोगा- द्भवेद्यस्य साक्षात्कृतिः पुण्यभाजाम् । अखण्डं सदानन्दचिद्रूपमन्तः सदाहं मुदा तं भजे दक्षिणास्यम् ॥ १५॥ सुवर्णाद्रिचापं रमानाथबाणं दिनेशेन्दुचक्रं धरास्यन्दनाग्र्यम् । विधिं सारथिं नागनाथं च मौर्वीं प्रकुर्वाणमीशं भजे दक्षिणास्यम् ॥ १६॥ कराम्भोरुहैः पुस्तकं बोधमुद्रां सुधापूर्णकुम्भं स्रजं मौक्तिकानाम् । दधानं धराधीशमौलौ शयानं शशाङ्कार्धचूडं भजे दक्षिणास्यम् ॥ १७॥ कलादानदक्षं तुलाशून्यवक्त्रं शिलादात्मजेड्यं वलारातिपूज्यम् । जलाद्यष्टमूर्तिं कलालापयुक्तं फलालिं दिशन्तं भजे दक्षिणास्यम् ॥ १८॥ यदालोकमात्रान्नतानां हृदब्जे शमाद्या गुणाः सत्वरं सम्भवन्ति । प्रणम्रालिचेतःसरोजातभानुं गुरुं तं सुरेड्यं नमामो भजामः ॥ १९॥ पिनद्धानि भक्त्याख्यसूत्रेण कण्ठे सदेमानि रत्नानि धत्ते दृढं यः । मुदा मुक्तिकान्ता द्रुतं तं वृणीते स्वयं शान्तिदान्तिप्रमुख्यालियुक्ता ॥ २०॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचिता श्रीदक्षिणास्यभुजङ्गप्रयातस्तुतिः सम्पूर्णा ।