अक्षर आकार:

श्रीदक्षिणामूर्त्यष्टोत्तरशतनामस्तोत्रम्

Shri DakshinAmurti Ashtottarashatanama Stotram

श्रीदक्षिणामूर्त्यष्टोत्तरशतनामस्तोत्रम्

श्रीमेधादक्षिणामूर्त्यष्टोत्तरशतनामस्तोत्रम् मूलमन्त्रवर्णाद्यात्मकं श्रीदेव्युवाच - भगवन्देवदेवेश मन्त्रार्णस्तवमुत्तमम् । दक्षिणामूर्तिदेवस्य कृपया वद मे प्रभो ॥ १॥ श्रीमहादेव उवाच - साधु पृष्टं महादेवि सर्वलोकहिताय ते । वक्ष्यामि परमं गुह्यं मन्त्रार्णस्तवमुत्तमम् ॥ २॥ ऋषिश्छन्दो देवताङ्गन्यासादिकमनुत्तमम् । मूलमन्त्रवदस्यापि द्रष्टव्यं सकलं हि तत् ॥ ३॥ ध्यानम् - भस्मव्यापाण्डुराङ्गः शशिशकलधरो ज्ञानमुद्राक्षमाला- वीणापुस्तैर्विराजत्करकमलधरो योगपट्टाभिरामः । व्याख्यापीठे निषण्णे मुनिवरनिकरैः सेव्यमानः प्रसन्नः स्व्याळः कृत्तिवासाः सततमवतु नो दक्षिणामूर्तिरीशः ॥ ४॥ इति ध्यात्वा महादेवं मन्त्रार्णस्तवमुत्तमम् । जपेत् त्रिसन्ध्यं नियतो भस्मरुद्राक्षभूषितह ॥ ५॥ ओङ्काराचलसिंहेन्द्रः ओङ्कारध्यानकोकिलः । ओङ्कारनीडशुकराड् ओङ्कारार्णवकुञ्जरः ॥ ६॥ ओङ्कारारण्यकुञ्जरः नगराजसुताजानिर्नगराजनिजालयः । नवमाणिक्यमालाढ्यो नवचन्द्रशिखामणिः ॥ ७॥ नन्दिताशेषमौनीन्द्रो नन्दीशादिमदेशिकः । मोहानलसुधासारो मोहाम्बुजसुधाकरः ॥ ८॥ मोहान्धकारतरणिर्मोहोत्पलनभोमणिः । भक्तज्ञानाब्धिशीतांशुः भक्ताज्ञानतृणानलः ॥ ९॥ भक्ताम्भोजसहस्रांशुः भक्तकेकिघनाघनः । भक्तकैरवराकेन्दुः भक्तकोकदिवाकरः ॥ १०॥ गजाननादिसम्पूज्यो गजचर्मोज्ज्वलाकृतिः । गङ्गाधवलदिव्याङ्गो गङ्गाभङ्गलसज्जटः ॥ ११॥ गगनाम्बरसंवीतो गगनामुक्तमूर्धजः । वदनाब्जजिताब्जश्रीः वदनेन्दुस्फुरद्दिशः ॥ १२॥ वरदानैकनिपुणो वरवीणोज्ज्वलत्करः । वनवाससमुल्लासो वनवीरैकलोलुपः ॥ १३॥ तेजःपुञ्जघनाकारो तेजसामपि भासकः । तेजःप्रदो विनेयानां तेजोमयजनाश्रयः ॥ १४॥ दमितानङ्गसङ्ग्रामो दरहासजिताङ्गनः । दयारससुधासिन्धुः दरिद्रधनशेवधिः ॥ १५॥ क्षीरेन्दुस्फटिकाकारः क्षीणेन्दुमकुटोज्ज्वलः । क्षीरोपहाररसिकः क्षिप्रैश्वर्यफलप्रदः ॥ १६॥ नानाभरणमुग्धाङ्गो नारीसम्मोहनाकृतिः । नादब्रह्मरसास्वादी नागभूषणभूषितः ॥ १७॥ मूर्तिनिन्दितकन्दर्पो मूर्तामूर्तजगद्वपुः । मूकाज्ञानतमोभानुः मूर्तिमत्कल्पपादपः ॥ १८॥ तरुणादित्यसङ्काशः तन्त्रीवादनतत्परः । तरुमूलैकनिलयः तप्तजाम्बूनदप्रभः ॥ १९॥ तत्त्वपुस्तोल्लसत्पाणिः तपनोडुपलोचनः । यमसन्नुतसत्कीर्तिः यमसंयमसंयुतः ॥ २०॥ यतिरूपधरो मौनी यतीन्द्रोपास्यविग्रहः । मन्दारहाररुचिरो मदनायुतसुन्दरः ॥ २१॥ मन्दस्मितलसद्वक्त्रो मधुराधरपल्लवः । मञ्जीरमञ्जुपादाब्जो मणिपट्टोलसत्कटिः ॥ २२॥ हस्ताङ्कुरितचिन्मुद्रो हठयोगपरोत्तमः । हंसजप्याक्षमालाढ्यो हंसेन्द्राराध्यपादुकः ॥ २३॥ मेरुश‍ृङ्गतटोल्लासो मेघश्याममनोहरः । मेधाङ्कुरालवालाग्र्यो मेधपक्वफलद्रुमः ॥ २४॥ धार्मिकान्तर्गुहावासो धर्ममार्गप्रवर्तकः । धामत्रयनिजारामो धर्मोत्तममनोरथः ॥ २५॥ प्रबोधोदारदीपश्रीः प्रकाशितजगत्त्रयः । प्रज्ञाचन्द्रशिलादर्शः प्रज्ञामणिवराकरः ॥ २६॥ ज्ञानान्तरभासात्मा ज्ञातृज्ञातिविदूरगः । ज्ञानाद्वैतसुदिव्याङ्गो ज्ञातृज्ञातिकुलागतः ॥ २७॥ प्रपन्नपारिजाताग्र्यः प्रणतार्त्यब्धिवाडवः । प्रमाणभूतो भूतानां प्रपञ्चहितकारकः ॥ २८॥ यत्तत्वमसिसंवेद्यो यक्षगेयात्मवैभवः । यज्ञादिदेवतामूर्तिः यजमानवपुर्धरः ॥ २९॥ छत्राधिपतिविश्वेशः छत्रचामरसेवितः । छान्दश्शास्त्रादिनिपुणश्छलजात्यादिदूरगः ॥ ३०॥ स्वाभाविकसुखैकात्मा स्वानुभूतरसोदधिः । स्वाराज्यसम्पदध्यक्षः स्वात्माराममहामतिः ॥ ३१॥ हाटकाभजटाजूटो हासोदस्तारमण्डलः । हालाहलोज्ज्वलगळो हारायुतमनोहरः ॥ ३२॥ इति श्रीमेधादक्षिणामूर्तिमनुवर्णाद्यादिमा श्रीदक्षिणामूर्त्यष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।