अक्षर आकार:

श्रीदक्षिणामूर्त्यष्टकम् २

Shri Dakshinamurtyashtakam 2

श्रीदक्षिणामूर्त्यष्टकम् २

पायय जनमिमममृतं दुर्लभमितरस्य लोकस्य । नतजनपारनदीक्षित मेधाधीदक्षिणामूर्ते ॥ १॥ स्तोतुं वा नेतुं वा जडविषयासक्तहृन्न शक्रोमि । नैसर्गिकी कुरु कृपां मयि वटतटवास दक्षिणामूर्ते ॥ २॥ स्फुरतु मम हृदि तनुस्ते पुस्तकमुद्राक्षमालिकाकुम्भान् । दधती चन्द्रार्धलसच्छीर्षा श्रीदक्षिणामूर्ते ॥ ३॥ सहमान दक्षिणानन सहमानविहीनमत्कमन्तुततीः । सहमानत्वं त्यज वा युक्तं कुर्वत्र यद्विभाति तव ॥ ४॥ मेधाप्रज्ञे जन्ममूकोऽपि लोकः प्राप्नोत्यङ्घ्रिं पूजयन्यस्य लोके । तं पादाम्भोजातनम्रामरालिं मेधाप्रज्ञादक्षिणामूर्तिमीडे ॥ ५॥ गङ्गानिर्झरिणी हिमाद्रिकुहराद्यद्वत्सुधांशोः प्रभा निर्गच्छत्यतिवेगतः कमपि च त्यक्त्वा प्रयत्नं मुहुः । तद्वद्यत्पदभक्तवक्त्रकुहराद्वाणी जवान्निसरेत् तं वन्दे मुनिवृन्दवन्द्यचरणं श्रीदक्षिणास्यं मुदा ॥ ६॥ अप्पित्तार्कशशाङ्कनेत्रमगजासंलिङ्गिताङ्गं कृपा- वाराशिं विधिविष्णुमुख्यदिविजैः संसेविताङ्घ्रिं मुदा । नन्दीशप्रमुखैर्गणैः परिवृतं नागास्यषड्वक्त्रयु- क्पार्श्वं नीलगलं नमामि वटभूरुण्मूलवासं शिवम् ॥ ७॥ शीतांशुप्रतिमानकान्तिवपुषं पीताम्बुराश्यादिभि- र्मौनीन्द्रैः परिचिन्त्यमानमनिशं मोदाद्धृदम्भोरुहे । शान्तानङ्गकटाक्षिभासिनिटिलं कान्तार्धकायं विभुं वन्दे चित्रचरित्रमिन्दुमुकुटं न्यग्रोधमूलाश्रयम् ॥ ८॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचितं श्रीदक्षिणामूर्त्यष्टकं सम्पूर्णम् ।