अक्षर आकार:

दक्षिणामूर्तिस्तोत्रं सूतसंहिता

dakShiNAmUrtistotra from Suta Samhita

दक्षिणामूर्तिस्तोत्रं सूतसंहिता

प्रलंबितजटाबद्धं चन्द्ररेखावतंसकम् । नीलग्रीवं शरच्चन्द्रिकाभिर्विराजितम् ॥ १॥ गोक्षीरधवलाकारं चन्द्रबिंबसमाननम् । सुस्मितं सुप्रसन्नं च स्वात्मतत्त्वैकसंस्थितम् ॥ २॥ गङ्गाधरं शिवं शान्तं लसत्केयूरमण्डितम् । सर्वाभरणसंयुक्तं सर्वलक्षणसंयुतम् ॥ ३॥ वीरासने समासीनं वेदयज्ञोपवीतिनम् । भस्मधाराभिरामं तं नागाभरणभूषितम् ॥ ४॥ व्याघ्रचर्माम्बरं शुद्धं योगपट्टावृतं शुभम् । सर्वेषां प्राणिनामात्मज्ञापस्मारपृष्टतः ॥ ५॥ विन्यस्तचरणं सम्यग् ज्ञानमुद्राधरं हरम् । सर्वविज्ञानरत्नानं कोशभूतं सुपुस्तकम् ॥ ६॥ दधानं सर्वतत्त्वाक्षमालिकां कुण्डिकामपि । स्वात्मभूतपरानन्दपरशक्त्यर्ध विग्रहम् ॥ ७॥ धर्मरूपवृषोपेतं धार्मिकैर्वेदपारगैः । मुनिभिस्संऋतं मायावटमूलाश्रितं शुभम् ॥ ८॥ ईशानं सर्वविद्यानामीश्वरेश्वरमव्ययम् । उत्पत्त्यादिविनिर्मुक्तं ओङ्कारकमलासनम् ॥ ९॥ स्वात्मविद्याप्रदानेन सदा संसारमोचकम् । रुद्रं परमकारुण्यात्सर्वप्राणिहिते रतम् ॥ १०॥ उपासकानां सर्वेषामभीष्टसकलप्रदम् । दक्षिणामूर्तिदेवाख्यं जगत्स्वर्गादिकारणम् ॥ ११। समागत्य महाभक्त्या दण्डवत्पृथिवीतले । प्रणम्य बहुशो देवं समाराध्य यथा बलम् ॥ १२॥ रुद्र यत्ते मुखं तेन दक्षिणं पाहि मामिति । उक्त्वा पुनः पुनर्देवं पूजयामास भक्तितः ॥ १३॥ ॥ इति सूतसंहितान्तर्गतम् दक्षिणामूर्तिस्तोत्रम् ॥