अक्षर आकार:

श्रीदक्षिणामूर्तिसहस्रनामस्तोत्रम् १

Shri Dakshinamurti Sahasranamastotram 1

श्रीदक्षिणामूर्तिसहस्रनामस्तोत्रम् १

(चिदम्बरनटनतन्त्रतः) (दकारादिथकारान्तम् ) अस्य श्रीदक्षिणामूर्तिसहस्रनामस्तोत्रमहामन्त्रस्य गुरुराट् ऋषिः । अनुष्टुप्छन्दः । श्रीदक्षिणामूर्तिः परमात्मा देवता । ह्रीं बीजं । स्वाहा शक्तिः । नमः कीलकम् । चतुःषष्टिकलाविद्याज्ञानप्राप्त्यै नामपरायणे विनियोगः । ॐ नमो भगवते दक्षिणामूर्तये । मह्यं मेधां प्रज्ञां प्रयच्छ स्वाहा इति षडङ्गन्यासः । ॐ दक्षिणो दक्षिणामूर्तिर्दयालुर्दीनवल्लभः । दीनार्तिहा दीननाथो दीनबन्धुर्दयापरः ॥ १॥ दारिद्र्यशमनोऽदीनो दीर्घो दानवनाशनः । दनुजारिर्दुःखहन्ता दुष्टभूतनिषूदनः ॥ २॥ दीनार्तिहरणो दान्तो दीप्तिमान्दिव्यलोचनः । देदीप्यमानो दुर्गेशः श्रीदुर्गावरदायकः ॥ ३॥ दरिसंस्थो दानरूपो दानसन्मानतोषितः । दीनो दाडिमपुष्पाढ्यो दाडिमीपुष्पभूषितः ॥ ४॥ दैन्यहृद्दुरितघ्नश्च दिशावासो दिगम्बरः । दिक्पतिर्दीर्घसूत्री च दरदम्बुदलोचनः ॥ ५॥ दक्षिणाप्रेमसन्तुष्टो दारिद्र्यवडवानलः । दक्षिणावरदो दक्षो दक्षाध्वरविनाशकृत् ॥ ६॥ दामोदरप्रियो दीर्घो दीर्घिकाजनमध्यगः । धर्मो धनप्रदो ध्येयो धीमान्धैर्यविभूषितः ॥ ७॥ धरणीधारको धाता धनाध्यक्षो धुरन्धरः । धीधारको धिण्डिमको नग्नो नारायणो नरः ॥ ८॥ नरनाथप्रियो नाथो नदीपुलिनसंस्थितः । नानारूपधरो नमो नान्दीश्राद्धप्रियो नरः ॥ ९॥ नटाचार्यो नटवरो नारीमानसमोहनः । नदीप्रियो नीतिधरो नानामन्त्ररहस्यवित् ॥ १०॥ नारदो नामरहितो नौकारूढो नटप्रियः । परमः परमादश्च परविद्याविकर्षणः ॥ ११॥ पतिः पातित्यसंहर्ता परमेशः पुरातनः । पुराणपुरुषः पुण्यः पद्यगद्यविशारदः ॥ १२॥ पद्यप्रियः पद्यहस्तः परमार्थपरायणः । प्रीतः पुराणपुरुषः पुराणागमसूचकः ॥ १३॥ पुराणवेत्ता पापघ्नः पार्वतीशः परार्थवित् । पद्मावतीप्रियः प्राणः परः पररहस्यवित् ॥ १४॥ पार्वतीरमणः पीनः पीतवासाः परात्परः । पशूपहाररसिकः पाशी पाशुपतः प्रियः ॥ १५॥ पक्षीन्द्रवाहनप्रीतः पुत्रदः पुत्रपूजितः । फणिनादः फैङ्कृतिश्च फट्कारिः फ्रें परायणः ॥ १६॥ फ्रीं बीजजपसन्तुष्ट फ्रीङ्कारः फणिभूषितः । फणिविद्यामयः फ्रैं फ्रैं फ्रैं फ्रैं शब्दपरायणः ॥ १७॥ फडस्रजपसन्तुष्टो बलिभुग् बाणभूषितः । बाणपूजारतो ब्लूं ब्लूं ब्लूं बीजनिरतः शुचिः ॥ १८॥ भवार्णवो बालमतिः बालेशो बालभावधृत् । बालप्रियो बालगतिः बलिवरदप्रियो बली ॥ १९॥ बालचन्द्रप्रियो बालो बालशब्दपरायणः । ब्रह्माण्डभेदनो ब्रह्मज्ञानी ब्राह्मणपालकः ॥ २०॥ भवानी भूपतिर्भद्रो भद्रदो भद्रवाहनः । भूताध्यक्षो भूतपतिः भूतभीतिनिवारण ॥ २१॥ भद्रङ्करो भीमगर्भो भीमसङ्गमलोलुपः । भीमो भयानको भ्राता भ्रान्तो भरकासुरप्रियः ॥ २२॥ भस्मभूषो भस्मसंस्थो भैक्षकर्मपरायणः । भानुभूषो भानुरूपो भवानीप्रीतिदो भवः ॥ २३॥ भगेदवो भर्गवासो भर्गपूजापरायणः । भावव्रतो भावरतो भावाभावविवर्जितः ॥ २४॥ भर्गो भावानन्तयुक्तो भां भिं शब्दपरायणः । भ्रां बीजजपसन्तुष्टो भट्टारो भद्रवाहनः ॥ २५॥ भट्टारको भीमभीमो भीमचण्डपतिर्भवः । भवानीजपसन्तुष्टो भवानीपूजनोत्सुकः ॥ २६॥ भ्रमरो भ्रामरीयुक्तो भ्रमराम्बाप्रपूजितः । महादेवो महामान्यो महेशो माधवप्रियः ॥ २७॥ मधुपुष्पप्रियो माध्वी मानपूजपरायणः । मधुपानप्रियो मीनो मीनाक्षीनायको महान् ॥ २८॥ मारदृशो मदनघ्नो माननीयो महोक्षगः । माधवो मानरहितो म्राम्बीजजपतोषितः ॥ २९॥ मधुपानरतो मानी महार्हो मोहनास्रवित् । महाताण्डवकृन्मन्त्रो मधुपूजापरायणः ॥ ३०॥ मूर्तिर्मुद्राप्रियो मित्रो मित्रसन्तुष्टमानसः । म्रीं म्रीं मधुमतीनाथो महादेवप्रियो मृडः ॥ ३१॥ यादोनिधिर्यदुपतिः यतिर्यज्ञपरायणः । यज्वा यागप्रियो याजी यायीभावप्रियो यमः ॥ ३२॥ यातायातादिरहितो यतिधर्मपरायणः । यतिसाध्यो यष्टिधरो यजमानप्रियो यजः ॥ ३३॥ यजुर्वेदप्रियो यायी यमसंयमसंयुतः । यमपीडाहरो युक्तिर्योगी योगीश्वरालयः ॥ ३४॥ याज्ञवल्क्यप्रियो योनिः योनिदोषविवर्जितः । यामिनीनाथो यूषी च यमवंशसमुद्भवः ॥ ३५॥ यक्षो यक्षप्रियो याम्यो रामो राजीवलोचनः । रात्रिञ्चरो रात्रिचरो रामेशो रामपूजितः ॥ ३६॥ रामपूज्यो रामनाथो रत्नदो रत्नहारकः । राज्यदो रामवरदो रञ्जको रतिमार्गकृत् ॥ ३७॥ रमणीयो रघुनाथो रघुवंशप्रवर्तकः । रामानन्दप्रियो राजा राजराजेश्वरो रसः ॥ ३८॥ रत्नमन्दिरमध्यस्थो रत्नपूजापरायणः । रत्नाकरो लक्ष्मणेशो लक्ष्मको लक्ष्मलक्षणः ॥ ३९॥ लक्ष्मीनाथप्रियो लाली लम्बिकायोगमार्गधृत् । लब्धलक्ष्यो लब्धसिद्धिर्लभ्यो लाक्षारुणेक्षणः ॥ ४०॥ लोलाक्षीनायको लोभी लोकनाथो लतामयः । लतापूजापरो लीलो लक्षमन्त्रजपप्रियः ॥ ४१॥ लम्बिकामार्गनिरतो लक्षकोट्यण्डनायकः । वाणीप्रियो वाममार्गो वादी वादपरायणः ॥ ४२॥ वीरमार्गरतो वीरो वीरचर्यापरायणः । वरेण्यो वरदो वामो वाममार्गप्रवर्तकः ॥ ४३॥ वामदेवो वागधीशो वीणाढ्यो वेणुतत्परः । विद्याप्रदो वीतिहोत्रो वीरविद्याविशारदः ॥ ४४॥ वर्गो वर्गप्रियो वायुः वायुवेगपरायणः । वार्तज्ञश्च वशीकारी वर्षिष्ठो वामहर्षकः ॥ ४५॥ वासिष्ठो वाक्पतिर्वेद्यो वामनो वसुदो विराट् । वाराहीपालको वश्यो वनवासी वनप्रियः ॥ ४६॥ वनपतिर्वारिधारी वीरो वाराङ्गनाप्रियः । वनदुर्गापतिर्वन्यः शक्तिपूजापरायणः ॥ ४७॥ शशाङ्कमौलिः शान्तात्मा शक्तिमार्गपरायणः । शरच्चन्द्रनिभः शान्तः शक्तिः संशयवर्जितः ॥ ४८॥ शचीपतिः शक्रपूज्यः शरस्थः शापवर्जितः । शापानुग्राहकः शङ्खप्रियः शत्रुनिषूदनः ॥ ४९॥ शरीरयोगी शान्तारिः शक्ता श्रमगतः शुभः । शुक्रपूज्यः शुक्रभोगी शुक्रभक्षणतत्परः ॥ ५०॥ शारदानायकः शौरिः षण्मुखः षण्मनाः षढः । षण्डः षडङ्गः षट्कश्च षडध्वंयागतत्परः ॥ ५१॥ षडाम्नायरहस्यज्ञः षष्ठीजपपरायणः । षट्चक्रभेदनः षष्ठीनादषड्दर्शनप्रियः ॥ ५२॥ षष्ठीदोषहरः षट्कः षट्शास्रार्थरहस्यवित् । षड्भूमि हितः षड्वर्गः षडैश्वर्यफलप्रदः ॥ ५३॥ षड्गुणः षण्मुखप्रीतः षष्ठिपालः षडात्मकः । षट्कृत्तिकासमाजस्थः षडाधारनिवासकः ॥ ५४॥ षोढान्यासमयः सिन्धुः सुन्दरः सुरसुन्दरः । सुराध्यक्षः सुरपतिः सुमुखः सुसमः सुरः ॥ ५५॥ सुभगः सर्ववित्सौम्य सिद्धमार्गप्रवर्तकः । सहजानन्दजः साम सर्वशास्त्ररहस्यवित् ॥ ५६॥ समिद्धोमप्रियः सर्वः सर्वशक्तिप्रपूजितः । सुरदेवः सुदेवश्च सन्मार्गः सिद्धदर्शनः ॥ ५७॥ सर्ववित्साधुवित्साधुः सर्वधर्मसमन्वितः । सर्वाध्यक्षः सर्ववेद्यः सन्मार्गसूचकोऽर्थवित् ॥ ५८॥ हारी हरिर्हरो हृद्यो हरो हर्षप्रदो हरिः । हरयोगी हेहरतो हरिवाहो हरिध्वजः ॥ ५९॥ ह्रादिमार्गरतो ह्रीं च हारीतवरदायकः । हारीतवरदो हीनो हितकृद्धुंकृतिर्हविः ॥ ६०॥ हविष्यभुग् हविष्याशी हरिद्वर्णो हरात्मकः । हैहयेशो ह्रीङ्कृतिश्च हरिमानसतोषणः ॥ ६१॥ ह्रांङ्कारजपसन्तुष्टो ह्रीङ्कारजपचिह्नितः । हितकारी हरिणदृक् हलितो हरनायकः ॥ ६२॥ हारप्रियो हाररतो हाहाशब्दपरायणः । ळकार वर्णभूषाढ्यो ळकारेशो महामुनिः ॥ ६३॥ ळकारबीजनिलयो ळांळिं मन्त्रप्रवर्तकः । क्षेमङ्करीप्रियः क्षाम्यः क्षमाभृत्क्षणरक्षकः ॥ ६४॥ क्षाङ्कारबीजनिलयः क्षोभहृत् क्षोभवर्जितः । क्षोभहारी क्षोभकारी क्ष्रीं बीज क्ष्रां स्वरूपधृत् ॥ ६५॥ क्ष्राङ्कारबीजनिलयः क्षौमाम्बरविभूषितः । क्षोणीरथः प्रियकरः क्षमापालः क्षमाकरः ॥ ६६॥ क्षेत्रज्ञः क्षेत्रपालश्च क्षयरोगक्षयङ्करः । क्षामोदरः क्षामगात्रः क्षामरूपः क्षयोदरः ॥ ६७॥ अद्भुतोऽनन्तवरदः अनसूयुः प्रियंवदः । अत्रिपुत्रोऽग्निगर्भश्च अभूतोऽनन्तविक्रमः ॥ ६८॥ आदिमध्यान्तरहितः अणिमादि गुणाकरः । अक्षरोऽष्टगुणैश्वर्यः अर्होऽनर्हः स उच्यते ॥ ६९॥ आदित्यश्चागुणश्चात्मा अध्यात्मप्रीतमानसः । आद्यश्चाम्रप्रियश्चाम्र आम्रपुष्पविभूषितः ॥ ७०॥ आम्रपुष्पप्रियः प्राणः आर्ष आम्रातकेश्वरः । इङ्गितज्ञश्च इष्टज्ञ इष्टभद्र इष्टप्रदस्तथा ॥ ७१॥ इष्टापूर्तप्रियश्चेष्ट ईश ईश्वरवल्लभः । ईङ्कारश्चेश्वराधीनः ईशतटिदिन्द्रवाचकः ॥ ७२॥ उक्षिरूकारगर्भश्च ऊकाराय नमो नमः । ऊह्य ऊहविनिर्मुक्त ऊष्मा ऊष्ममणिस्तथा ॥ ७३॥ ऋद्धिकारी ऋद्धिरूपी ऋद्धिप्रावर्तकेश्वरः । ॠकारवर्णभूषाढ्यः ॠकाराय नमो नमः ॥ ७४॥ ऌकारगर्भो ॡकार ॡं ॡङ्काराय ते नमः । एकारगर्भश्चैकारः एकश्चैकप्रवाचकः ॥ ७५॥ एकङ्कारिश्चैककर एकप्रियतराय ते । एकवीर एकपतिः एं ऐं शब्दपरायणः ॥ ७६॥ ऐन्द्रप्रियश्चैक्यकारी ऐं बीजजपतत्परः । ओङ्कारश्चोङ्कारबीजः ओङ्काराय नमो नमः ॥ ७७॥ ओङ्कारपीठनिलयः ओङ्कारेश्वरपूजितः । अङ्कितोत्तमवर्णश्च अङ्कितज्ञाय ते नमः ॥ ७८॥ कलङ्कहरः कङ्कालः क्रूरः कुक्कुटवाहनः । कामिनीवल्लभः कामी काम्यार्थः कमनीयकः ॥ ७९॥ कलानिधिः कीर्तिनाथः कामेशीहृदयङ्गमः । कामेश्वरः कामरूपः कालः कालकृपानिधिः ॥ ८०॥ कृष्णः कालीपतिः कालि कृशचूडामणिः कलः । केशवः केवलः कान्तः कालीशो ( श) वरदायकः ॥ ८१॥ कालिकासंप्रदायज्ञः कालः कामकलात्मकः । खट्वाङ्गपाणिः खतितः खरशूलः खरान्तकृत् ॥ ८२॥ खेलनः खेटकः खड्गः खड्गनाथः खगेश्वरः । खेचरः खेचरनाथो गणनाथसहोदरः ॥ ८३॥ गाढो गहनगम्भीरो गोपालो गूर्जरो गुरुः । गणेशो गायको गोप्ता गायत्रीवल्लभो गुणी ॥ ८४॥ गोमन्तो गारुडो गौरो गौरीशो गिरिशो गुहः । गीरर्गर्यो गोपनीयो गोमयो गोचरो गुणः ॥ ८५॥ हेरम्बायुष्यरुचिरो गाणापत्यागमप्रियः । घण्टाकर्णो घर्मरश्मिर्घृणिर्घण्टाप्रियो घटः ॥ ८६॥ घटसर्पो घूर्णितश्च घृमणिर्घृतकम्बलः । घण्टादिनादरुचिरो घृणी लज्जाविवर्जितः ॥ ८७॥ घृणिमन्त्रजपप्रीतो घृतयोनिर्घृतप्रियः । घर्घरो घोरनादश्चाघोरशास्त्रप्रवर्तकः ॥ ८८॥ घनाघनो घोषयुक्तो घेटको घेटकेश्वरः । घनो घनरुचिः घ्रिं घ्रां घ्रां घ्रिं मन्त्रस्वरूपधृत् ॥ ८९॥ घनश्यामो घनतरो घटोत्कचो घटात्मजः । घङ्घादो घुर्घुरो घूको घकाराय नमो नमः ॥ ९०॥ ङकाराख्यो ङकारेशो ङकाराय नमो नमः । ङकारबीजनिलयो ङां ङिं मन्त्रस्वरूपधृत् ॥ ९१॥ चतुष्षष्टिकलादायी चतुरश्चञ्चलश्चलः । चक्री चक्रश्चक्रधरः श्रीबीजजपतत्परः ॥ ९२॥ चण्डश्चण्डेश्वरश्चारुः चक्रपाणिश्चराचरः । चराचरमयश्चिन्तामणिश्चिन्तितसारथिः ॥ ९३॥ चण्डरश्मिश्चन्द्रमौलिश्चण्डीहृदयनन्दनः । चक्राङ्कितश्चण्डदीप्तिप्रियश्चूडालशेखरः ॥ ९४॥ चण्डश्चण्डालदमनः चिन्तितश्चिन्तितार्थदः । चित्तार्पितश्चित्तमायी चित्रविद्यामयश्च चित् ॥ ९५॥ चिच्छक्तिश्चेतनश्चिन्त्यः चिदाभासश्चिदात्मकः । छन्दचारी छन्दगतिश्छात्रश्छात्रप्रियश्च छित् ॥ ९६॥ छेदकृच्छेदनश्छेदः छन्दः शास्त्रविशारदः । छन्दोमयश्च छान्दोग्यश्छन्दसां पतिरित्यपि ॥ ९७॥ छन्दोभेदश्छन्दनीयः छन्दश्छन्दोरहस्यवित् । छत्रधारी छत्रभृतश्छत्रदश्छत्रपालकः ॥ ९८॥ छिन्नप्रियश्छिन्नमस्तः छिन्नमन्त्रप्रसादकः । छिन्नताण्डवसम्भूतः छिन्नयोगविशारदः ॥ ९९॥ जाबालिपूज्यो जन्माद्यो जनिता जन्मनाशकः । जपायुष्यप्रियकरो जपादाडिमरागधृत् ॥ १००॥ जमलो जैनतो जन्यो जन्मभूमिर्जनप्रियः । जन्माद्यश्च प्रियकरो जनिता जाजिरागधृत् ॥ १०१॥ जैनमार्गरतो जैनो जितक्रोधो जितेन्द्रियः । जर्जज्जटो जर्जभूषी जटाघारो जटाधरः ॥ १०२॥ जगद्गुरुर्जगत्कारी जामातृवरदोऽजरः । जीवनो जीवनाधारो ज्योतिःशास्त्रविशारदः ॥ १०३॥ ज्योतिर्ज्योत्स्नामयो जेता जयो जन्मकृतादरः । जामित्रो जैमिनीपुत्रो ज्योतिःशास्त्रप्रवर्तकः ॥ १०४॥ ज्योतिर्लिङ्गो ज्योतीरूपो जीमूतवरदायकः । जितो जेता जन्मपुत्रो ज्योत्स्नाजालप्रवर्तकः ॥ १०५॥ जन्मादिनाशको जीवो जीवातुर्जीवनौषधम् । जराहरो जाड्यहरो जन्माजन्मविवर्जितः ॥ १०६॥ जनको जननीनाथो जीमूतो जाम्बवप्रियः । जपमूर्तिर्जगन्नाथो जगत्स्थावरजङ्गमः ॥ १०७॥ जारदो जारविद्जारो जठराग्निप्रवर्तकः । जीर्णो जीर्णरतो जातिः जातिनाथो जगन्मयः ॥ १०८॥ जगत्प्रदो जगत्त्राता जगज्जीवनकौतुकः । जङ्गमो जङ्गमाकारो जटिलश्च जगद्गुरुः ॥ १०९॥ झीरर्झञ्झारिको झञ्झो झञ्झानुर्झरुलन्दकृत् । झकारबीजनिलयो झूं झूं झूं मन्त्ररूपधृत् ॥ ११० ज्ञानेश्वरो ज्ञानगम्यो ज्ञानमार्गपरायणः । ज्ञानकाण्डी ज्ञेयकाण्डी ज्ञेयाज्ञेयविवर्जितः ॥ १११॥ टङ्कास्त्रधारी टङ्कारः टीकाटिप्पणकारकः । टां टीं टूं जपसन्तुष्टो टिट्टिभष्टिट्टिभाननः ॥ ११२॥ टिट्टिभाननसहितः टकाराक्षरभूषितः । टङ्कारकार्यष्टसिद्धिरष्टमूर्त्यष्टकष्टहा ॥ ११३॥॥ ठाङ्कुरष्ठकुरुष्ठष्ठः ठं ठे बीजपरायणः । ठां ठीं ठूं जपयोगाढ्यो डामरो डाकिनीप्रियः ॥ ११४॥ डाकिनीनायको डाडिः डूं डूं शब्दपरायणः । डकारात्मा डामरश्च डामरीशक्तिरञ्जितः ॥ ११५॥ डाकारो डाङ्करो डां डिं डिण्डिवादनतत्परः । डकाराढ्यो डङ्कहीनो डामरीवादनप्रियः ॥ ११६॥ ढाङ्कृतिढां पतिः ढां ढीं ढूं ढैं ढौं शब्दतत्परः । ढोढिभूषण भूषाढ्यो ढीं ढीं पालो ढपारजः ॥ ११७॥ णकारकुण्डलो णाडीवर्गप्राणो णणाद्रिभूः । णकारपञ्जरीशाय णां णिं णूं णं प्रवर्तकः ॥ ११८॥ तरुशस्तरुमध्यस्थः तर्वन्तस्तरुमध्यगः । तारकस्तारतम्यश्च तारनाथः सनातनः ॥ ११९॥ तरुणस्ताम्रचूडश्च तमिस्रानायकस्तमी । तोतस्त्रिपथगस्तीव्रस्तीव्रवेगस्त्रिशब्दकृत् ॥ १२०॥ तारिमतस्तालधरः तपःशीलस्त्रपाकरः । तन्त्रमार्गरतस्तन्त्रस्तान्त्रिकस्तान्त्रिकोत्तमः ॥ १२१॥ तुषाराचलमध्यस्थः तुषारवरभूषितः । तुरस्तुम्बीफलप्राणस्तुलजापुरनायकः ॥ १२२ तीव्रयष्टिकरस्तीव्रस्तुण्डदुर्गसमाजगः । त्रिवर्गयज्ञकृत्त्रयी त्र्यम्बकस्त्रिपुरान्तकः ॥ १२३॥ त्रिपुरान्तकसंहारस्त्रिधामा स्त्रीतृतीयकः । त्रिलोकमुद्रिकाभूषः त्रिपञ्चन्याससंयुतः ॥ १२४॥ त्रिसुगन्धिस्त्रिमूर्तिर्स्त्रिगुणस्त्रिगुणसारथिः । त्रयीमयश्च त्रिगुणः त्रिपादश्च त्रिहस्तकः ॥ १२५॥ तन्त्ररूपस्त्रिकोणेशस्त्रिकालज्ञस्त्रयीमयः । त्रिसन्ध्यश्च त्रिकालश्च ताम्रपर्णीजलप्रियः ॥ १२६॥ तोमरस्तुमुलः स्थूलः स्थूलपुरुषरूपधृत् । तत्तन्त्री तन्त्रतन्त्री तृतीयस्तरुशेखरः ॥ १२७॥ तरुणेन्दुशिखस्तालस्तीर्थस्नातस्त्रिशेखरः । त्रिजोऽजेशस्त्रिस्वरूपस्त्रित्रिशब्दपरायणः ॥ १२८॥ तारनायकभूषश्च तरुवादनचञ्चलः । तिष्कस्त्रिराशिकस्त्र्यक्षः तरुणस्ताटवाहनः ॥ १२९॥ तृतीयस्तारकः स्तम्भः स्तम्भमध्यगतः स्थिरः । तत्त्वरूपस्तलस्तालस्तान्त्रिकस्तन्त्रभूषणः ॥ १३०॥ तथ्यस्तुतिमयः स्थूलः स्थूलबुद्धिस्त्रपाकरः । तुष्टः स्तुतिमयः स्तोता स्तोत्रप्रीतः स्तुतीडितः ॥ १३१॥ त्रिराशिश्च त्रिबन्धुश्च त्रिप्रस्तारस्त्रिधागतिः । त्रिकालेशस्त्रिकालज्ञः त्रिजन्मा च त्रिमेखलः ॥ १३२॥ त्रिदोषश्च त्रिवर्गश्च त्रैराशिकफलप्रदः । तन्त्रसिद्धस्तन्त्ररतस्तन्त्रस्तन्त्रफलप्रदः ॥ १३३॥ त्रिपुरारिस्त्रिमधुरस्त्रिशक्तिस्त्रिकतत्त्वधृत् । तीर्थप्रीतस्तीर्थरतस्तीर्थोदानपरायणः ॥ १३४॥ त्रयक्लेशः तन्त्रणेशः तीर्थश्राद्धफलप्रदः । तीर्थभूमिरतस्तीर्थस्तित्तिडीफलभोजनः ॥ १३५॥ तित्तिडीफलभूषाढ्यः ताम्रनेत्रविभूषितः । तक्षः स्तोत्रपाठप्रीतः स्तोत्रमयः स्तुतिप्रियः ॥ १३६॥ स्तवराजजपप्राणः स्तवराजजपप्रियः । तैलस्तिलमनास्तैलपक्वान्नप्रीतमानसः ॥ १३७॥ तैलाभिषेकसन्तुष्टः तैलचर्वणतत्परः । तैलाहारप्रियः प्राणः तिलमोदकतोषणः ॥ १३८॥ तिलपिष्टान्नभोजी च तिलपर्वतरूपधृत् । थकार कूटनिलयः थैरिः थैः शब्दतत्परः ॥ १३९॥ थिमाथिमाथिमारूपः थै थै थै नाट्यनायकः । स्थाणुरूपो महेशानि प्रोक्तनामसहस्रकम् ॥ १४०॥ गोप्याद्गोप्यं महेशानि सारात्सारतरं परम् । ज्ञानकैवल्यनामाख्यं नामसाहस्रकं शिवे ॥ १४१॥ यः पठेत्प्रयतो भूत्वा भस्मभूषितविग्रहः । रुद्राक्षमूलाभरणो भक्तिमान् जपतत्परः ॥ १४२॥ सहस्रनाम प्रपठेत् ज्ञानकैवल्यकाभिधम् । सर्वसिद्धिमवाप्नोति साक्षात्कारं च विन्दति ॥ १४३॥ तत्त्वमुद्रां वामकरे कृत्वा नामसहस्रकम् । प्रपठेत्पञ्चसाहस्रं पुरश्चरणमुच्यते ॥ १४४॥ शिवनाम्ना जातभावो वाङ्मनः कायकर्मभिः । शिवोऽहमिति वै ध्यायन्नामसाहस्रकं पठेत् ॥ १४५॥ रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् । विद्यार्थी लभते विद्यां अभीष्टं लभते तथा ॥ १४६॥ ॥ इति चिदम्बरनटनतन्त्रतः श्रीदक्षिणामूर्तिसहस्रनामस्तोत्रं सम्पूर्णम् ॥