अक्षर आकार:

श्रीदक्षिणामूर्तिसहस्रनामस्तोत्रम् २

ShridakShinamUrtisahasranamastotram 2

श्रीदक्षिणामूर्तिसहस्रनामस्तोत्रम् २

श्रीगणेशाय नमः । आदिदेवो दयासिन्धुरखिलागमदेशिकः । दक्षिणामूर्तिरतुलः शिक्षितासुरविक्रमः ॥ १॥ कैलासशिखरोल्लासी कमनीयनिजाकृतिः । वीरासनसमासीनो वीणापुस्तलसत्करः ॥ २॥ अक्षमालालसत्पाणिश्चिन्मुद्रितकराम्बुजः । अपस्मारोपरिन्यस्तसव्यपादसरोरुहः ॥ ३॥ चारुचामीकराकारजटालार्पितचन्द्रमाः । अर्धचन्द्राभनिटिलपाटीरतिलकोज्ज्वलः ॥ ४॥ करुणालहरीपूर्ण कर्णान्तायतलोचनः । कर्णदिव्योल्लसद्दिव्यमणिकुण्डलमण्डितः ॥ ५॥ वरवज्रशिलादर्शपरिभाविकपोलभूः । चारुचाम्पेयपुष्पाभनासिकापुटरञ्जितः ॥ ६॥ दन्तालिकुसुमोत्कृष्टकोमलाधरपल्लवः । मुग्धस्मितपरीपाकप्रकाशितरदाङ्कुरः ॥ ७॥ अनाकलितसादृश्यचिबुकश्रीविराजितः । अनर्घरत्नग्रैवेय विलसत्कम्बुकन्धरः ॥ ८॥ माणिक्यकङ्कणोल्लासि कराम्बुजविराजितः । मुक्ताहारलसत्तुङ्ग विपुलोरस्कराजितः ॥ ९॥ आवर्तनाभिरोमालिवलित्रययुतोदरः । विशङ्कटकटिन्यस्त वाचाल मणिमेखलः ॥ १०॥ करिहस्तोपमेयोरुरादर्शोज्ज्वलजानुकः । कन्दर्पतूणीजिज्जङ्घो गुल्पोदञ्चितनूपुरः ॥ ११॥ मणिमञ्जीर किरण किञ्जल्कितपदाम्बुजः । शाणोल्लीढमणिश्रेणीरम्याङ्घ्रिनखमण्डलः ॥ १२॥ आपादकर्णकामुक्तभूषाशतमनोहरः । सनकादिमहायोगिसमाराधितपादुकः ॥ १३॥ यक्षकिन्नरगन्धर्वस्तूयमानात्मवैभवः । ब्रह्मादिदेवविनुतो योगमायानियोजकः ॥ १४॥ शिवयोगी शिवानन्दः शिवभक्तिसमुत्तरः । वेदान्तसारसन्दोहः सर्वसत्वावलम्बनः ॥ १५॥ वटमूलाश्रयो वाग्मी मान्यो मलयजप्रियः । सुखदो वाञ्छितार्थज्ञः प्रसन्नवदनेक्षणः ॥ १६॥ कर्मसाक्षी कर्ममा(या)यी सर्वकर्मफलप्रदः । ज्ञानदाता सदाचारः सर्वपापविमोचनः ॥ १७॥ अनाथनाथो भगवान् आश्रितामरपादपः । वरप्रदः प्रकाशात्मा सर्वभूतहिते रतः ॥ १८॥ व्याघ्रचर्मासनासीनः आदिकर्ता महेश्वरः । सुविक्रमः सर्वगतो विशिष्टजनवत्सलः ॥ १९॥ चिन्ताशोकप्रशमनो जगदानन्द कारकः । रश्मिमान् भुवनेशानो देवासुर सुपूजितः ॥ २०॥ मृत्युञ्जयो व्योमकेशः षट्त्रिंशत्तत्वसङ्ग्रहः । अज्ञातसम्भवो भिक्षुरद्वितीयो दिगम्बरः ॥ २१॥ समस्तदेवतामूर्तिः सोमसूर्याग्निलोचनः । सर्वसाम्राज्यनिपुणो धर्ममार्गप्रवर्तकः ॥ २२॥ विश्वाधिकः पशुपतिः पशुपाशविमोचकः । अष्टमूर्तिर्दीप्तमूर्तिर्नामोच्चारणमुक्तिदः ॥ २३॥ सहस्रादित्यसङ्काशः सदाषोडशवार्षिकः । दिव्यकेलीसमामुक्तो दिव्यमाल्याम्बरावृतः ॥ २४॥ अनर्घरत्नसम्पूर्णो मल्लिकाकुसुमप्रियः । तप्तचामीकराकारः क्रुद्धदावानलाकृतिः ॥ २५॥ निरञ्जनो निर्विकारो निजा(रा)वासो निराकृतिः । जगद्गुरुर्जगत्कर्ता जगदीशो जगत्पतिः ॥ २६॥ कामहन्ता काममूर्तिः कल्याणो वृषवाहनः । गङ्गाधरो महादेवो दीनबन्धविमोचनः ॥ २७॥ धूर्जटिः खण्डपरशुःसद्गुणो गिरिजासखः । अव्ययो भूतसेनेशः पापघ्नः पुण्यदायकः ॥ २८॥ उपदेष्टा दृढप्रज्ञो रुद्रो रोगविनाशकः । नित्यानन्दो निराधारो हरो देवशिखामणिः ॥ २९॥ प्रणतार्तिहरः सोमः सान्द्रानन्दो महामतिः । आश्च(ऐश्व)र्यवैभवो देवः संसारार्णवतारकः ॥ ३०॥ यज्ञेशो राजराजेशो भस्मरुद्राक्षलाञ्छनः । अनन्तस्तारकः स्थाणुःसर्वविद्येश्वरो हरिः ॥ ३१॥ विश्वरूपो विरूपाक्षः प्रभुः परिवृढो दृढः । भव्यो जितारिषड्वर्गो महोदारोऽघनाशनः ॥ ३२॥ सुकीर्तिरादिपुरुषो जरामरणवर्जितः । प्रमाणभूतो दुर्ज्ञेयः पुण्यः परपुरञ्जयः ॥ ३३॥ गुणाकरो गुणश्रेष्ठः सच्चिदानन्द विग्रहः । सुखदः कारणं कर्ता भवबन्धविमोचकः ॥ ३४॥ अनिर्विण्णो गुणग्राही निष्कलङ्कः कलङ्कहा । पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः सनातनः ॥ ३५॥ चराचरात्मा विश्वात्मा विश्वकर्मा तमोऽपहृत् । भुजङ्गभूषणो भर्गस्तरुणः करुणालयः ॥ ३६॥ अणिमादिगुणोपेतो लोकवश्यविधायकः । योगपट्टधरो मुक्तो मुक्तानां परमा गतिः ॥ ३७॥ गुरुरूपधरः श्रीमान् परमानन्दसागरः । सहस्रबाहुः सर्वेशः सहस्रावयवान्वितः ॥ ३८॥ सहस्रमूर्धा सर्वात्मा सहस्राक्षः सहस्रपात् । निर्विकल्पो निराभासः शान्तः सूक्ष्मः परात्परः ॥ ३९॥ सर्वात्मकः सर्वसाक्षी निस्सङ्गो निरुपद्रवः । निर्लेपः सकलाध्यक्षः चिन्मयस्तमसः परः ॥ ४०॥ ज्ञानवैराग्यसम्पन्नो योगानन्दमयः शिवः । शाश्वतैश्वर्यसम्पूर्णो महायोगीश्वरेश्वरः ॥ ४१॥ सहस्रशक्तिसंयुक्तः पुण्यकायो दुरासदः । तारकब्रह्म सम्पूर्णः तपस्विजनसंवृतः ॥ ४२॥ विधीन्द्रामरसम्पूज्यो ज्योतिषां ज्योतिरुत्तमः । निरक्षरो निरालम्बः स्वात्मारामो विकर्तनः ॥ ४३॥ निरवद्यो निरातङ्को भीमो भीमपराक्रमः । वीरभद्रः पुरारातिर्जलन्धरशिरोहरः ॥ ४४॥ अन्धकासुरसंहर्ता भगनेत्रभिदद्भुतः । विश्वग्रासोऽधर्मशत्रुर्ब्रह्मज्ञानै(नन्दै)कमन्दिरः ॥ ४५॥ अग्रेसरस्तीर्थभूतः सितभस्मावगुण्ठनः । अकुण्ठमेधाः श्रीकण्ठो वैकुण्ठपरमप्रियः ॥ ४६॥ ललाटोज्ज्वलनेत्राब्जः तुषारकरशेखरः । गजासुरशिरश्छेत्ता गङ्गोद्भासितमूर्धजः ॥ ४७॥ कल्याणाचलकोदण्डः कमलापतिसायकः । वारां शेवधितूणीरः सरोजासनसारथिः ॥ ४८॥ त्रयीतुरङ्गसङ्क्रान्तो वासुकिज्याविराजितः । रवीन्दुचरणाचारिधरारथविराजितः ॥ ४९॥ त्रय्यन्तप्रग्रहोदारः उडुकण्ठारवोज्ज्वलः । उत्तानभल्लवामाढयो लीलाविजितदानवः ॥ ५०॥ जातु प्रपञ्चजनितजीवनोपायनोत्सुकः । संसारार्णवसम्मग्न समुद्धरणपण्डितः ॥ ५१॥ मत्तद्विरदधिक्कारिगतिवैभवमञ्जुलः । मत्तकोकिलमाधुर्य रसनिर्भरनिस्वनः ॥ ५२॥ कैवल्योदितकल्लोललीलाताण्डवपण्डितः । विष्णुर्जिष्णुर्वासुदेवः प्रभविष्णुः पुरातनः ॥ ५३॥ वर्धिष्णुर्वरदो वैद्यो हरिर्नारायणोऽच्युतः । अज्ञानवनदावाग्निः प्रज्ञाप्रासादभूपतिः ॥ ५४॥ सर्वभूषितसर्वाङ्गः कर्पूरोज्ज्वलिताकृतिः । अनादिमध्यनिधनो गिरिशो गिरिजापतिः ॥ ५५॥ वीतरागो विनीतात्मा तपस्वी भूतभावनः । देवासुरगुरुर्ध्येयो(देवो) देवासुरनमस्कृतिः ॥ ५६॥ देवादिदेवो देवर्षिर्देवासुरवरप्रदः । सर्वदेवमयोऽचिन्त्यो देवतात्माऽऽत्मसम्भवः ॥ ५७॥ निर्लेपो निष्प्रपञ्चात्मा निर्व्यग्रो विघ्ननाशनः । एकज्योतिर्निरानन्दो व्याप्तमूर्तिनाकुलः ॥ ५८॥ निरवद्यो बहु(धो)पायो विद्याराशिरकृत्रिमः । नित्यानन्दः सुराध्यक्षो निस्सङ्कल्पो निरञ्जनः ॥ ५९॥ निरातङ्को निराकारो निष्प्रपञ्चो निरामयः । विद्याधरो वियत्केशो मार्कण्डयौवनः प्रभुः ॥ ६०॥ भैरवो भैरवीनाथः कामदः कमलासनः । वेदवेद्यः सुरानन्दो लसज्ज्योतिः प्रभाकरः ॥ ६१॥ चूडामणिः सुराधीशो यक्षगेयो हरिप्रियः । निर्लेपो नीतिमान् सूत्री श्रीहालाहलसुन्दरः ॥ ६२॥ धर्मरक्षो महाराजः किरीटी वन्दितो गुहः । माधवो यामिनीनाथः शम्बरः शम्बरीप्रियः ॥ ६३॥ सङ्गीतवेत्ता लोकज्ञः शान्तः कलशसम्भवः । बह्मण्यो वरदो नित्यः शूली गुरुपरो हरः ॥ ६४॥ मार्ताण्डः पुण्डरीकाक्षः कर्मज्ञो लोकनायकः । त्रिविक्रमो मुकुन्दार्च्यो वैद्यनाथः पुरन्दरः ॥ ६५॥ भाषाविहीनो भाषाज्ञो विघ्नेशो विघ्ननाशनः । किन्नरेशो बृहद्भानुः श्रीनिवासः कपालभृत् ॥ ६६॥ विजयी भूतवाहश्च भीमसेनो दिवाकरः । बिल्वप्रियो वसिष्ठेशः सर्वमार्गप्रवर्तकः ॥ ६७॥ ओषधीशो वामदेवो गोविन्दो नीललोहितः । षडर्धनयनः श्रीमान् महादेवो वृषध्वजः ॥ ६८॥ कर्पूरवीटिकालोलः कर्पूरवरचर्चितः । अव्याजकरुणमूर्तिस्त्यागराजः क्षपाकरः ॥ ६९॥ आश्चर्यविग्रहः सूक्ष्मः सिद्धेशः स्वर्णभैरवः । देवराजः कृपासिन्धुरद्वयोऽमितविक्रमः ॥ ७०॥ निर्भेदो नित्यसत्वस्थो निर्योगक्षेम आत्मवान् । निरपायो निरासङ्गो निःशब्दो निरुपाधिकः ॥ ७१॥ भवः सर्वेश्वरः स्वामी भवभीतिविभञ्जनः । दारिद्रयतृणकूटाग्निः दारितासुरसन्ततिः ॥ ७२॥ मुक्तिदो मुदितः कुब्जो धार्मिको भक्तवत्सलः । अभ्यासातिशयज्ञेयश्चन्द्रमौलिः कलाधरः ॥ ७३॥ महाबलो महावीर्यो विभुःश्रीशः शुभप्रदः (प्रियः) । सिद्धःपुराणपुरुषो रणमण्डलभैरवः ॥ ७४॥ सद्योजातो वटारण्यवासी पुरुषवल्लभः । हरिकेशो महात्राता नीलग्रीवः सुमङ्गलः ॥ ७५॥ हिरण्यबाहुस्तिग्मांशुः कामेशः सोमविग्रहः । सर्वात्मा सर्वसत्कर्ता ताण्डवो मुण्डमालिकः ॥ ७६॥ अग्रगण्यः सुगम्भीरो देशिको वैदिकोत्तमः । प्रसन्नदेवो वागीशः चिन्तातिमिरभास्करः ॥ ७७॥ गौरीपतिस्तुङ्गमौलिः मधुराजो महाकविः । श्रीधरः सर्वसिद्धेशो विश्वनाथो दयानिधिः ॥ ७८॥ अन्तर्मुखो बहिर्दृष्टिः सिद्धवेषो मनोहरः । कृत्तिवासाः कृपासिन्धुर्मन्त्रसिद्धो मतिप्रदः ॥ ७९॥ महोत्कृष्टः पुण्यकरो जगत्साक्षी सदाशिवः । महाक्रतुर्महायज्वा विश्वकर्मा तपोनिधिः ॥ ८०॥ छन्दोमयो महाज्ञानी सर्वज्ञो देववन्दितः । सार्वभौमः सदानन्दः करुणामृतवारिधिः ॥ ८१ । । कालकालः कलिध्वंसी जरामरणनाशकः । शितिकण्ठश्चिदानन्दो योगिनीगणसेवितः ॥ ८२॥ चण्डीशः सुखसंवेद्यः पुण्यश्लोको दिवस्पतिः । स्थायी सकलतत्त्वात्मा सदा सेवकवर्धकः ॥ ८३॥ रोहिताश्वः क्षमारूपी तप्तचामीकरप्रभः । त्रियम्बको वररूचिः देवदेवश्चतुर्भुजः ॥ ८४॥ विश्वम्भरो विचित्राङ्गो विधाता पुरनाश(शास)नः । सुब्रह्मण्यो जगत्स्वामी लोहिताक्षः शिवोत्तमः ॥ ८५॥ नक्षत्रमाल्याभरणो भगवान् तमसः परः । विधिकर्ता विधानज्ञः प्रधानपुरुषेश्वरः ॥ ८६॥ चिन्तामणिः सुरगुरुर्ध्येयो नीराजनप्रियः । गोविन्दो राजराजेशो बहुपुष्पार्चनप्रियः ॥ ८७॥ सर्वानन्दो दयारूपी शैलजासुमनोहरः । सुविक्रमः सर्वगतो हेतुसाधनवर्जितः ॥ ८८॥ वृषाङ्को रमणीयाङ्गः सत्कर्ता सामपारगः । चिन्ताशोकप्रशमनः सर्वविद्याविशारदः ॥ ८९॥ भक्तविज्ञप्तिसन्धाता वक्ता गिरिवराकृतिः । ज्ञानप्रदो मनोवासः क्षेम्यो मोहविनाशनः ॥ ९०॥ सुरोत्तमश्चित्रभानुः सदा वैभवतत्परः । सुहृदग्रेसरः सिद्धो ज्ञानमुद्रो गणाधिपः ॥ ९१॥ अमरश्चर्मवसनो वाञ्छितार्थफलप्रदः । असमानोऽन्तरहितो देवसिंहासनाधिपः ॥ ९२॥ विवादहन्ता सर्वात्मा कालः कालविवर्जितः । विश्वातीतो विश्वकर्ता विश्वेशो विश्वकारणः ॥ ९३॥ योगिध्येयो योगनिष्ठो योगात्मा योगवित्तमः । ओङ्काररूपो भगवान् बिन्दुनादमयः शिवः ॥ ९४॥ चतुर्मुखादिसंस्तुत्यश्चतुर्वर्गफलप्रदः । सहयाचलगुहावासी साक्षान्मोक्षरसाकृतिः ॥ ९५॥ दक्षाध्वरसमुच्छेत्ता पक्षपातविवर्जितः । ओङ्कारवाचकः शम्भुः शङ्करः शशिशीतलः ॥ ९६॥ पङ्कजासनसंसेव्यः किङ्करामरवत्सलः । नतदौर्भाग्यतूलाग्निः कृतकौतुकविभ्रमः ॥ ९७॥ त्रिलोकमोहनः श्रीमान् त्रिपुण्ड्राङ्कितमस्तकः । क्रौञ्चरिजनकः श्रीमद्गणनाथसुतान्वितः ॥ ९८॥ अद्भुतोऽनन्तवरदोऽपरिच्छेद्यात्मवैभवः । इष्टामूर्तप्रियः शर्व एकवीरप्रियंवदः ॥ ९९॥ ऊहापोहविनिर्मुक्त ओङ्कारेश्वरपूजितः । कलानिधिः कीर्तिनाथः कामेशीहृदयङ्गमः ॥ १००॥ कामेश्वरः कामरूपो गणनाथसहोदरः । गाढो गगनगम्भीरो गोपालो गोचरो गुरुः ॥ १०१॥ गणेशो गायको गोप्ता गाणापत्यगणप्रियः । घण्टानिनादरुचिरः कर्णलज्जाविभञ्जनः ॥ १०२॥ केशवः केवलः कान्तश्चक्रपाणिश्चराचरः । घनाघनो घोषयुक्तश्चण्डीहृदयनन्दनः ॥ १०३॥ चित्रार्पितश्चित्रमयः चिन्तितार्थप्रदायकः । छद्मचारी छद्मगतिः चिदाभासश्चिदात्मकः ॥ १०४॥ छन्दोमयश्छत्रपतिः छन्दःशास्त्रविशारदः । जीवनो जीवनाधारो ज्योतिःशास्त्रविशारदः ॥ १०५॥ ज्योतिर्ज्योत्स्नामयो जेता जीमूतवरदायकः । जनाघनाशनो जीवो जीवदो जीवनौषधम् ॥ १०६॥ जराहरो जाड्यहरो ज्योत्स्नाजालप्रवर्तकः । ज्ञानेश्वरो ज्ञानगम्यो ज्ञानमार्गपरायणः ॥ १०७॥ तरुस्थस्तरुमध्यस्थो डामरीशक्तिरञ्जकः । तारकस्तारतम्यात्मा टीपस्तर्पणकारकः ॥ १०८॥ तुषाराचलमध्यस्थस्तुषारकरभूषणः । त्रिसुगन्धस्त्रिमूर्तिश्च त्रिमुखस्त्रिककुद्धरः ॥ १०९॥ त्रिलोकीमुद्रिकाभूषः त्रिकालज्ञस्त्रयीमयः । तत्वरूपस्तरुस्थायी तन्त्रीवादनतत्परः ॥ ११०॥ अद्भुतानन्तसङ्ग्रामो ढक्कावादनतत्परः (कौतुकः) । तुष्टस्तुष्टिमयः स्तोत्रपाठकोऽति(काति)प्रियस्तवः ॥ १११॥ तीर्थप्रियस्तीर्थरतः तीर्थाटनपरायणः । तैलदीपप्रियस्तैलपक्कान्नप्रीतमानसः ॥ ११२॥ तैलाभिषेकसन्तुष्टस्तिलचर्वणतत्परः । दीनार्तिहृद्दीनबन्धुर्दीननाथो दयापरः ॥ ११३॥ दनुजारिर्दुःखहन्ता दुष्टभूतनिषूदनः । दीनोरुदायको दान्तो दीप्तिमान्दिव्यलोचनः ॥ ११४॥ देदीप्यमानो दुर्ज्ञेयो दीनसम्मानतोषितः । दक्षिणाप्रेमसन्तुष्टो दारिद्रयबडबानलः ॥ ११५॥ धर्मो धर्मप्रदो ध्येयो धीमान्धैर्यविभूषितः । नानारूपधरो नम्रो नदीपुलिनसंश्रितः ॥ ११६॥ नटप्रियो नाट्यकरो नारीमानसमोहनः । नारदो नामरहितो नानामन्त्ररहस्यवित् ॥ ११७॥ पतिः पातित्यसंहर्ता परविद्याविकर्षकः । पुराणपुरुषः पुण्यः पद्यगद्यप्रदायकः ॥ ११८॥ पार्वतीरमणः पूर्णः पुराणागमसूचकः । पशूपहाररसिकः पुत्रदः पुत्रपूजितः ॥ ११९॥ ब्रह्माण्डभेदनो ब्रह्मज्ञानी ब्राह्मणपालकः । भूताध्यक्षो भूतपतिर्भूतभीतिनिवारणः ॥ १२०॥ भद्राकारो भीमगर्भो भीमसङ्ग्रामलोलुपः । भस्मभूषो भस्मसंस्थो भैक्ष्यकर्मपरायणः ॥ १२१॥ भानुभूषो भानुरूपो भवानीप्रीतिदायकः । भवप्रियो भावरतो भावाभावविवर्जितः ॥ १२२॥ भ्राजिष्णुजी(र्जी)वसन्तुष्टो भट्टारो भद्रवाहनः । भद्रदो भ्रान्तिरहितो भीमचण्डीपतिर्महान् ॥ १२३॥ यजुर्वेदप्रियो याजी यमसंयमसंयुतः । रामपूज्यो रामनाथो रत्नदो रत्नहारकः ॥ १२४॥ राज्यदो रामवरदो रञ्जको रतिमार्गधृत् । रामानन्दमयो रम्यो राजराजेश्वरो रसः ॥ १२५॥ रत्नमन्दिरमध्यस्थो रत्नपूजापरायणः । रत्नाकारो लक्षणेशो लक्ष्यदो लक्ष्यलक्षणः ॥ १२६॥ लोलाक्षीनायको लोभी लक्षमन्त्रजपप्रियः । लम्बिकामार्गनिरतो लक्ष्यकोट्यण्डनायकः ॥ १२७॥ विद्याप्रदो वीतिहोता वीरविद्याविकर्षकः । वाराहीपालको वन्यो वनवासी वनप्रियः ॥ १२८॥ वनेचरो वनचरः शक्तिपूज्यः शिखिप्रियः । शरच्चन्द्रनिभः शान्तः शक्तः संशयवर्जितः ॥ १२९॥ शापानुग्रहदः शङ्खप्रियः शत्रुनिषूदनः । षट्कृत्तिकासुसम्पूज्यः षट्शास्त्रार्थरहस्यवित् ॥ १३०॥ सुभगः सर्वजित्सौम्यः सिद्धमार्गप्रवर्तकः । सहजानन्ददः सोमः सर्वशास्त्र रहस्यवित् ॥ १३१॥ सर्वजित्सर्ववित्साधुः सर्वधर्म समन्वितः । सर्वाध्यक्षः सर्वदेवो महर्षिर्मोहनास्त्रवित् ॥ १३२ । । क्षेमङ्करः क्षेत्रपालः क्षयरोगक्षयङ्करः । निः सीममहिमा नित्यो लीलाविग्रहरूपधृत् ॥ १३३ । । चन्दनद्रवदिग्धाङ्गः चाम्पेयकुसुमप्रियः । समस्तभक्तसुखदः परमाणुर्महाह्नदः ॥ १३४ । । आकाशगो दुष्प्रधर्षः कपिलः कालकन्धरः । कर्पूगौरः कुशलः सत्यसन्धो जितेन्द्रियः ॥ १३५ । । शाश्वतैश्वर्यविभवः पुष्करः सुसमाहितः । महर्षिः पण्डितो ब्रह्मयोनिः सर्वोत्तमोत्तमः ॥ १३६ । । भूमिभारार्तिसंहर्ता षडूर्मिरहितो मृडः । त्रिविष्टपेश्वरः सर्वहृदयाम्बुजमध्यगः ॥ १३७ । । सहस्रदलपद्मस्थः सर्ववर्णोपशोभितः । पुण्यमूर्तिः पुण्यलभ्यः पुण्यश्रवणकीर्तनः ॥ १३८ । । सूर्यमण्डलमध्यस्थश्चन्द्रमण्डलमध्यगः । सद्भक्तध्याननिगलः शरणागतपालकः ॥ १३९ । । श्वेतातपत्ररुचिरः श्वेतचामरवीजितः । सर्वावयसम्पूर्णः सर्वलक्षणलक्षितः ॥ १४० । । सर्वमङ्गलामाङ्गल्यः सर्वकारणकारणम् । आमोदमोदजनकः सर्पराजोत्तरीयकः ॥ १४१ । । कपाली गोविन्दसिद्धः कान्तिसंवलिताननः । सर्वसद्गुरुसंसेव्यो दिव्यचन्दनचर्चितः ॥ १४२ । । विलासिनीकृतोल्लासः इच्छाशक्तिनिषेवितः । अनन्तोऽनन्तसुखदो नन्दनः श्रीनिकेतनः ॥ १४३॥ अमृताब्धिकृतावासो (तोल्लासी) नित्यक्लिन्नो निरामयः । अनपायोऽनन्तदृष्टिः अप्रमेयोऽजरोऽमरः ॥ १४४॥ अनामयोऽप्रतिहतश्चाऽप्रतर्क्योऽमृतोऽक्षरः । अमोघसिद्धिराधार आधाराधेयवर्जितः ॥ १४५॥ ईषणात्रयनिर्मुक्त ईहामात्रविवर्जितः । ऋग्यजुःसामनयन ऋद्धिसिद्धिसमृद्धिदः ॥ १४६॥ औदार्यनिधिरापूर्ण ऐहिकामुष्मिकप्रदः । शुद्धसन्मात्रसंवित्तास्वरूपसु(मु)खविग्रहः ॥ १४७॥ दर्शनप्रथमाभासो दुष्टदर्शनवर्जितः । अग्रगण्योऽचिन्त्यरूपः कलिकल्मषनाशनः ॥ १४८॥ विमर्शरूपो विमलो नित्यतृप्तो निराश्रयः । नित्यशुद्धो नित्यबुद्धो नित्यमुक्तो निरावृतः ॥ १४९॥ मैत्र्यादिवासनालभ्यो महाप्रलयसंस्थितः । महाकैलासनिलयः प्रज्ञानघनविग्रहः ॥ १५०॥ श्रीमद्व्याघ्रपुरावासो भुक्तिमुक्तिफलप्रदः । जगद्योनिर्जगत्साक्षी जगदीशो जगन्मयः ॥ १५१॥ जपो जपपरो जप्यो विद्यासिंहासनप्रभुः । तत्त्वानां प्रकृतिस्तत्त्वं तत्त्वम्पदनिरूपितः ॥ १५२॥ दिक्कालाग्न्यनवच्छिन्नः सहजानन्दसागरः । प्रकृतिः प्राकृतातीतः प्रज्ञानैकरसाकृतिः ॥ १५३॥ निःशङ्कमतिदूरस्थः चेत्यचेतनचिन्तकः । तारकान्तरसंस्थानस्तारकस्तारकान्तकः ॥ १५४॥ ध्यानैकप्रकटो ध्येयो ध्यानं (नी) ध्यानविभूषणः । परं व्योम परं धाम परमाणुः परं पदम् ॥ १५५॥ पूर्णानन्दः सदानन्दो नादमध्यप्रतिष्ठितः । प्रमाविपर्यया(णप्रत्यया)तीतः प्रणताज्ञाननाशकः ॥ १५६॥ बाणार्चिताङ्घ्रिर्बहुदो बालकेलिकुतूहलः । बृहत्तमो ब्रह्मपदो ब्रह्मविद्ब्रह्मवित्प्रियः ॥ १५७॥ भ्रूक्षेपदत्तलक्ष्मीको भ्रूमध्यध्यानलक्षितः । यशस्करो रत्नगर्भो महाराज्यसुख प्रदः ॥ १५८॥ शब्दब्रह्म शमप्राप्यो लाभकृल्लोकविश्रुतः । शास्ता शिखाग्रनिलयः शरण्यो याजकप्रियः ॥ १५९॥ संसारवेद्यः सर्वज्ञः सर्वभेषजभेषजम् । मनोवाचाभिरग्राह्यः पञ्चकोशविलक्षणः ॥ १६०॥ अवस्थात्रयनिर्मुक्तस्त्वक्स्थः साक्षी तुरीयकः । पञ्चभूतादिदूरस्थः प्रत्यगेकरसोऽव्ययः ॥ १६१॥ षट्चक्रान्तःकृतोल्लासः षड्विकारविवर्जितः । विज्ञानघनसम्पूर्णो वीणावादनतत्परः ॥ १६२॥ नीहाराकारगौराङ्गो महालावण्यवारिधिः । पराभिचारशमनः षडध्वोपरि संस्थितः ॥ १६३॥ सुषुम्नामार्ग सञ्चारी बिसतन्तुनिभाकृतिः । पिनाकी लिङ्गरूपः श्रीमङ्गलावयवोज्ज्वलः ॥ १६४॥ क्षेत्राधिपः सुसंवेद्यः श्रीप्रदो विभवप्रदः । सर्ववश्यकरः सर्वतोषकः पुत्रपौत्रिदः । आत्मनाथस्तीर्थनाथः सप्त(प्ति)नाथः सदाशिवः ॥ १६५॥ kShetra name: shivapuram tiruperunthuRai turiyaateeta kShetra, shri Shodashaanta mahAsthAnam - shri AtmanAtha