अक्षर आकार:

श्रीदक्षिणामूर्तिसहस्रनामावलिः २

Shri Dakshinamurti Sahasranamavali 2 1000 names

श्रीदक्षिणामूर्तिसहस्रनामावलिः २

ॐ आदिदेवाय नमः । दयासिन्धवे । अखिलागमदेशिकाय । दक्षिणामूर्तये । अतुलाय । शिक्षितासुरविक्रमाय । कैलासशिखरोल्लासिने । कमनीयनिजाकृतये । वीरासनसमासीनाय । वीणापुस्तलसत्कराय । अक्षमालालसत्पाणये । चिन्मुद्रितकराम्बुजाय । अपस्मारोपरिन्यस्तसव्यपादसरोरुहाय । चारुचामीकराकारजटालार्पितचन्द्रमसे । अर्धचन्द्राभनिटिलपाटीरतिलकोज्ज्वलाय । करुणालहरीपूर्णकर्णान्तायतलोचनाय । कर्णदिव्योल्लसद्दिव्यमणिकुण्डलमण्डिताय । वरवज्रशिलादर्शपरिभावि कपोलभुवे । चारुचाम्पेय पुष्पाभनासिकापुटरञ्जिताय । दन्तालिकुसुमोत्कृष्टकोमलाधरपल्लवाय नमः । २० मुग्धस्मितपरीपाकप्रकाशितरदाङ्कुराय नमः । अनाकलितसादृश्यचिबुकश्रीविराजिताय । अनर्घरत्नग्रैवेय विलसत्कम्बुकन्धराय । माणिक्यकङ्कणोल्लासि कराम्बुजविराजिताय । मुक्ताहारलसत्तुङ्ग विपुलोरस्कराजिताय । आवर्तनाभिरोमालिवलित्रययुतोदराय । विशङ्कटकटिन्यस्तवाचालमणिमेखलाय । करिहस्तोपमेयोरवे । आदर्शोज्ज्वलजानुकाय । कन्दर्पतूणीजिज्जङ्घाय । गुल्फोदञ्चितनूपुराय । मणिमञ्जीरकिरण किञ्जल्कितपदाम्बुजाय । शाणोल्लीढमणिश्रेणीरम्याङ्घ्रिनखमण्डलाय । आपादकर्णकामुक्तभूषाशतमनोहराय । सनकादिमहायोगिसमाराधितपादुकाय । यक्षकिन्नरगन्धर्वस्तूयमानात्मवैभवाय । ब्रह्मादिदेवविनुताय । योगमायानियोजकाय । शिवयोगिने । शिवानन्दाय नमः । ४० शिवभक्तिसमुत्तराय नमः । वेदान्तसारसन्दोहाय । सर्वसत्वावलम्बनाय । वटमूलाश्रयाय । वाग्मिणे । मान्याय । मलयजप्रियाय । सुखदाय । वाञ्छितार्थज्ञाय । प्रसन्नवदनेक्षणाय । कर्मसाक्षिणे । कर्ममा(या) यिने । सर्वकर्मफलप्रदाय । ज्ञानदात्रे । सदाचाराय । सर्वपापविमोचनाय । अनाथनाथाय । भगवते । आश्रितामरपादपाय । वरप्रदाय नमः । ६० प्रकाशात्मने नमः । सर्वभूतहिते रताय । व्याघ्रचर्मासनासीनाय । आदिकर्त्रे । महेश्वराय । सुविक्रमाय । सर्वगताय । विशिष्टजनवत्सलाय । चिन्ताशोकप्रशमनाय । जगदानन्दाय कारकाय । रश्मिमते । भुवनेशानाय । देवासुरायसुपूजिताय । मृत्युञ्जयाय । व्योमकेशाय । षट्त्रिंशत्तत्वसङ्ग्रहाय । अज्ञातसम्भवाय । भिक्षवे । अद्वितीयाय । दिगम्बराय नमः । ८० समस्तदेवतामूर्तये नमः । सोमसूर्याग्निलोचनाय । सर्वसाम्राज्यनिपुणाय । धर्ममार्गप्रवर्तकाय । विश्वाधिकाय । पशुपतये । पशुपाशविमोचकाय । अष्टमूर्तये । दीप्तमूर्तये । नामोच्चारणमुक्तिदाय । सहस्रादित्यसङ्काशाय । सदाषोडशवार्षिकाय । दिव्यकेलीसमामुक्ताय । दिव्यमाल्याम्बरावृताय । अनर्घरत्नसम्पूर्णाय । मल्लिकाकुसुमप्रियाय । तप्तचामीकराकाराय । क्रुद्धदावानलाकृतये । निरञ्जनाय । निर्विकाराय नमः । १०० निजा(रा) वासाय नमः । निराकृतये । जगद्गुरु । जगत्कर्त्रे । जगदीशाय । जगत्पतये । कामहन्त्रे । काममूर्तये । कल्याणाय । वृषवाहनाय । गङ्गाधराय । महादेवाय । दीनबन्धविमोचनाय । धूर्जटये । खण्डपरशवे । सद्गुणाय । गिरिजासखाय । अव्ययाय । भूतसेनेशाय । पापघ्नाय नमः । १२० पुण्यदायकाय नमः । उपदेष्ट्रे । दृढप्रज्ञाय । रुद्राय । रोगविनाशकाय । नित्यानन्दाय । निराधाराय । हराय । देवशिखामणये । प्रणतार्तिहराय । सोमाय । सान्द्रानन्दाय । महामतये । आश्चर्यवैभवाय (ऐश्वर्यवैभवाय) । देवाय । संसारार्णवतारकाय । यज्ञेशाय । राजराजेशाय । भस्मरुद्राक्षलाञ्छनाय । अनन्ताय नमः । १४० तारकाय नमः । स्थाणवे । सर्वविद्येश्वराय । हरये । विश्वरूपाय । विरूपाक्षाय । प्रभवे । परिवृढाय । दृढाय । भव्याय । जितारिषड्वर्गाय । महोदाराय । अघनाशनाय । सुकीर्तये । आदिपुरुषाय । जरामरणवर्जिताय । प्रमाणभूताय । दुर्ज्ञेयाय । पुण्याय । परपुरञ्जयाय नमः । १६० गुणाकराय नमः । गुणश्रेष्ठाय । सच्चिदानन्दविग्रहाय । सुखदाय । कारणाय । कर्त्रे । भवबन्धविमोचकाय । अनिर्विण्णाय । गुणग्राहिणे । निष्कलङ्काय । कलङ्काघ्ने । पुरुषाय । शाश्वताय । योगिने । व्यक्ताव्यक्ताय । सनातनाय । चराचरात्मने । विश्वात्मने । विश्वकर्मणे । तमोपहृते नमः । १८० भुजङ्गभूषणाय नमः । भर्गाय । तरुणाय । करुणालयाय । अणिमादिगुणोपेताय । लोकवश्यविधायकाय । योगपट्टधराय । मुक्ताय । मुक्तानां परमायै गतये । गुरुरूपधराय । श्रीमते । परमानन्दसागराय । सहस्रबाहवे । सर्वेशाय । सहस्रावयवान्विताय । सहस्रमूर्दघ्ने । सर्वात्मने । सहस्राक्षाय । सहस्रपादे । निर्विकल्पाय नमः । २०० निराभासाय नमः । शान्ताय । सूक्ष्माय । परात्पराय । सर्वात्मकाय । सर्वसाक्षिणे । निस्सङ्गाय । निरुपद्रवाय । निर्लेपाय । सकलाध्यक्षाय । चिन्मयाय । तमसः पराय । ज्ञानवैराग्यसम्पन्नाय । योगानन्दमयाय । शिवाय । शाश्वतैश्वर्यसम्पूर्णाय । महायोगीश्वरेश्वराय । सहस्रशक्तिसंयुक्ताय । पुण्यकायाय । दुरासदाय नमः । २२० तारकब्रह्मणे नमः । सम्पूर्णाय । तपस्विजनसंवृताय । विधीन्द्रामरसम्पूज्याय । ज्योतिषां ज्योतिषे । उत्तमाय । निरक्षराय । निरालम्बाय । स्वात्मारामाय । विकर्तनाय । निरवद्याय । निरातङ्काय । भीमाय । भीमपराक्रमाय । वीरभद्राय । पुरारातये । जलन्धरशिरोहराय । अन्धकासुरसंहर्त्रे । भगनेत्रभिदे । अद्भुताय नमः । २४० विश्वग्रासाय नमः । अधर्मशत्रवे । ब्रह्मानन्दैकमन्दिराय । अग्रेसराय । तीर्थभूताय । सितभस्मावगुण्ठनाय । अकुण्ठमेधसे । श्रीकण्ठाय । बैकुण्ठपरमप्रियाय । ललाटोज्ज्वलनेत्राब्जाय । तुषारकरशेखराय । गजासुरशिरच्छेत्रे । गङ्गोद्भासितमूर्धजाय । कल्याणाचलकोदण्डाय । कमलापतिसायकाय । वारां शेवधितूणीराय । सरोजासनसारथये । त्रयीतुरङ्गसङ्क्रान्ताय । वासुकिज्याविराजिताय । रवीन्दुचरणाचारिधरारथविराजिताय नमः । २६० त्रय्यन्तप्रग्रहोदाराय नमः । उडुकण्ठारवोज्ज्वलाय । उत्तानभल्लवामाढयाय । लीलाविजितदानवाय । जातु प्रपञ्चजनितजीवनोपायनोत्सुकाय । संसारार्णव सम्मग्नसमुद्धरणपण्डिताय । मत्तद्विरदधिक्कारिगतिवैभवमञ्जुलाय । मत्तकोकिलमाधुर्यायरसनिर्भरनिस्वनाय । कैवल्योदितकल्लोललीलाताण्डवपण्डिताय । विष्णवे । जिष्णवे । वासुदेवाय । प्रभविष्णवे । पुरातनाय । वर्धिष्णवे । वरदाय । वैद्याय । हरये । नारायणाय । अच्युताय नमः । २८० अज्ञानवनदावाग्नये नमः । प्रज्ञाप्रासादभूपतये । सर्वभूषितसर्वाङ्गाय । कर्पूरोज्ज्वलिताकृतये । अनादिमध्यनिधनाय । गिरिशाय । गिरिजापतये । वीतरागाय । विनीतात्मने । तपस्विने । भूतभावनाय । देवासुर गुरवे । ध्येयाय(देवाय) । देवासुरनमस्कृताय । देवादिदेवाय । देवर्षये । देवासुरवरप्रदाय । सर्वदेवमयाय । अचिन्त्याय । देवतात्मने नमः । ३०० आत्मसम्भवाय नमः । निर्लेपाय । निष्प्रपञ्चात्मने । निर्व्यग्राय । विघ्ननाशनाय । एकज्योतिषे । निरानन्दाय । व्याप्तमूर्तये । अनाकुलाय । निरवद्याय । बहू(धो) पायाय । विद्याराशये । अकृत्रिमाय । नित्यानन्दाय । सुराध्यक्षाय । निस्सङ्कल्पाय । निरञ्जनाय । निरातङ्काय । निराकाराय । निष्प्रपञ्चाय नमः । ३२० निरामयाय नमः । विद्याधराय । वियत्केशाय । मार्कण्डयौवनाय । प्रभुवे । भैरवाय । भैरवीनाथाय । कामदाय । कमलासनाय । वेदवेद्याय । सुरानन्दाय । लसज्ज्योतषे । प्रभाकराय । चूडामणये । सुराधीशाय । यक्षगेयाय । हरिप्रियाय । निर्लेपाय । नीतिमते । सूत्रिणे नमः । ३४० श्रीहालाहलसुन्दराय नमः । धर्मरक्षाय । महाराजाय । किरीटिने । वन्दिताय । गुहाय । माधवाय । यामिनीनाथाय । शम्बराय । शम्बरीप्रियाय । सङ्गीतवेत्त्रे । लोकज्ञाय । शान्ताय । कलशसम्भवाय । बह्मण्याय । वरदाय । नित्याय । शूलिने । गुरुपराय । हराय नमः । ३६० मार्ताण्डाय नमः । पुण्डरीकाक्षाय । कर्मज्ञाय । लोकनायकाय । त्रिविक्रमाय । मुकुन्दार्च्याय । वैद्यनाथाय । पुरन्दराय । भाषाविहीनाय । भाषाज्ञाय । विघ्नेशाय । विघ्ननाशनाय । किन्नरेशाय । बृहद्भानवे । श्रीनिवासाय । कपालभृते । विजयिने । भूतवाहाय । भीमसेनाय । दिवाकराय नमः । ३८० बिल्वप्रियाय नमः । वसिष्ठेशाय । सर्वमार्गप्रवर्तकाय । ओषधीशाय । वामदेवाय । गोविन्दाय । नीललोहिताय । षडर्धनयनाय । श्रीमते । महादेवाय । वृषध्वजाय । कर्पूरवीटिकालोलाय । कर्पूरवरचर्चिताय । अव्याजकरुणमूर्तये । त्यागराजाय । क्षपाकराय । आश्चर्यविग्रहाय । सूक्ष्माय । सिद्धेशाय । स्वर्णभैरवाय नमः । ४०० देवराजाय नमः । कृपासिन्धवे । अद्वयाय । अमितविक्रमाय । निर्भेदाय । नित्यसत्वस्थाय । निर्योगक्षेमाय । आत्मवते । निरपायाय । निरासङ्गाय । निःशब्दाय । निरुपाधिकाय । अजाय । सर्वेश्वराय । स्वामिने । भवभीतिविभञ्जनाय । दारिद्रयतृणकूटाग्नये । दारितासुरसन्तत्यै । मुक्तिदाय । मुदिताय नमः । ४२० कुब्जसे नमः । धार्मिकाय । भक्तवत्सलाय । अभ्यासातिशयज्ञेयाय । चन्द्रमौलये । कलाधराय । महाबलाय । महावीर्याय । विभुवे । श्रीशाय । शुभप्रदाय (प्रियाय) । सिद्धाय । पुराणपुरुषाय । रणमण्डलभैरवाय । सद्योजाताय । वटारण्यवासिने । पुरुषवल्लभाय । हरिकेशाय । महात्रात्रे । नीलग्रीवाय नमः । ४४० सुमङ्गलाय नमः । हिरण्यबाहवे । तिग्मांशवे । कामेशाय । सोमविग्रहाय । सर्वात्मने । सर्वसत्कर्त्रे । ताण्डवाय । मुण्डमालिकाय । अग्रगण्याय । सुगम्भीराय । देशिकाय । वैदिकोत्तमाय । प्रसन्नदेवाय । वागीशाय । चिन्तातिमिरभास्कराय । गौरीपतये । तुङ्गमौलये । मधुराजसे । महाकवये नमः । ४६० श्रीधराय नमः । सर्वसिद्धेशाय । विश्वनाथाय । दयानिधये । अन्तर्मुखाय । बहिर्दृष्टये । सिद्धवेषाय । मनोहराय । कृत्तिवाससे । कृपासिन्धवे । मन्त्रसिद्धाय । मतिप्रदाय । महोत्कृष्टाय । पुण्यकराय । जगत्साक्षिणे । सदाशिवाय । महाक्रतुवे । महायज्वने । विश्वकर्मणे । तपोनिधये नमः । ४८० छन्दोमयाय नमः । महाज्ञानिने । सर्वज्ञाय । देववन्दिताय । सार्वभौमाय । सदानन्दाय । करुणामृतवारिधये । कालकालाय । कलिध्वंसिने । जरामरणनाशकाय । शितिकण्ठाय । चिदानन्दाय । योगिनीगणसेविताय । चण्डीशाय । सुखसंवेद्याय । पुण्यश्लोकाय । दिवस्पतये । स्थायिने । सकलतत्त्वात्मने । सदा सेवकवर्धकाय नमः । ५०० रोहिताश्वाय नमः । क्षमारूपिणे । तप्तचामीकरप्रभाय । त्रियम्बकाय । वररूचये । देवदेवाय । चतुर्भुजाय । विश्वम्भराय । विचित्राङ्गाय । विधात्रे । पुरनाश(शास) नाय । सुब्रह्मण्याय । जगत्स्वामिणे । लोहिताक्षाय । शिवोत्तमाय । नक्षत्रमाल्याभरणाय । भगवते । तमस: पराय । विधिकर्त्रे । विधानज्ञाय नमः । ५२० प्रधानपुरुषेश्वराय नमः । चिन्तामणये । सुरगुरवे । ध्येयाय । नीराजनप्रियाय । गोविन्दाय । राजराजेशाय । बहुपुष्पार्चनप्रियाय । सर्वानन्दाय । दयारूपिणे । शैलजासुमनोहराय । सुविक्रमाय । सर्वगताय । हेतुसाधनवर्जिताय । वृषाङ्काय । रमणीयाङ्गाय । सत्कर्त्रे । सामपारगाय । चिन्ताशोकप्रशमनाय । सर्वविद्याविशारदाय नमः । ५४० भक्तविज्ञप्तिसन्धात्रे नमः । वक्त्रे । गिरिवराकृतये । ज्ञानप्रदाय । मनोवासाय । क्षेम्याय । मोहविनाशनाय । सुरोत्तमाय । चित्रभानवे । सदा वैभवतत्पराय । सुहृदग्रेसराय । सिद्धाय । ज्ञानमुद्राय । गणाधिपाय । अमराय । चर्मवसनाय । वाञ्छितार्थफलप्रदाय । असमानाय । अन्तरहिताय । देवसिंहासनाधिपाय नमः । ५६० विवादहन्त्रे नमः । सर्वात्मने । कालाय । कालविवर्जिताय । विश्वातीताय । विश्वकर्त्रे । विश्वेशाय । विश्वकारणाय । योगिध्येयाय । योगनिष्ठाय । योगात्मने । योगवित्तमाय । ओङ्काररूपाय । भगवते । बिन्दुनादमयाय । शिवाय । चतुर्मुखादिसंस्तुत्याय । चतुर्वर्गफलप्रदाय । सहयाचलगुहावासिने । साक्षान्मोक्षरसाकृतये नमः । ५८० दक्षाध्वरसमुच्छेत्त्रे नमः । पक्षपातविवर्जिताय । ओङ्कारवाचकाय । शंभवे । शङ्कराय । शशिशीतलाय । पङ्कजासनसंसेव्याय । किङ्करामरवत्सलाय । नतदौर्भाग्यतूलाग्नये । कृतकौतुकविभ्रमाय । त्रिलोकमोहनाय । श्रीमते । त्रिपुण्ड्राङ्कितमस्तकाय । क्रौञ्चारिजनकाय । श्रीमद्गणनाथसुतान्विताय । अद्भुताय । अनन्तवरदाय । अपरिच्छेद्यात्मवैभवाय । इष्टामूर्तप्रियाय । शर्वाय नमः । ६०० एकवीरप्रियंवदाय नमः । ऊहापोहविनिर्मुक्ताय । ओङ्कारेश्वरपूजिताय । कलानिधये । कीर्तिनाथाय । कामेशीहृदयङ्गमाय । कामेश्वराय । कामरूपाय । गणनाथसहोदराय । गाढाय । गगनगम्भीराय । गोपालाय । गोचराय । गुरवे । गणेशाय । गायकाय । गोप्त्रे । गाणापत्यगणप्रियाय । घण्टानिनादरुचिराय । कर्णलज्जाविभञ्जनाय नमः । ६२० केशवाय नमः । केवलाय । कान्ताय । चक्रपाणये । चराचराय । घनाघनाय । घोषयुक्ताय । चण्डीहृदयनन्दनाय । चित्रार्पिताय । चित्रमयाय । चिन्तितार्थप्रदायकाय । छद्मचारिणे । छद्मगतये । चिदाभासाय । चिदात्मकाय । छन्दोमयाय । छत्रपतये । छन्दःशास्त्रविशारदाय । जीवनाय । जीवनाधाराय नमः । ६४० ज्योतिःशास्त्रविशारदाय नमः । ज्योतिषे । ज्योत्स्नामयाय । जेत्रे । जीमूतवरदायकाय । जनाघनाशनाय । जीवाय । जीवदाय । जीवनौषधाय । जराहराय । जाड्यहराय । ज्योत्स्नाजालप्रवर्तकाय । ज्ञानेश्वराय । ज्ञानगम्याय । ज्ञानमार्गपरायणाय । तरुस्थाय । तरुमध्यस्थाय । डामरीशक्तिरञ्जकाय । तारकाय । तारतम्यात्मने नमः । ६६० टीपाय नमः । तर्पणकारकाय । तुषाराचलमध्यस्थाय । तुषारकरभूषणाय । त्रिसुगन्धाय । त्रिमूर्तये । त्रिमुखाय । त्रिककुद्धराय । त्रिलोकीमुद्रिकायूषाय । त्रिकालज्ञाय । त्रयीमयाय । तत्त्वरूपाय । तरुस्थायिने । तन्त्रीवादनतत्पराय । अद्भुतानन्तसङ्ग्रामाय । ढक्कावादन तत्पराय (कौतुकाय) । तुष्टाय । तुष्टिमयाय । स्तोत्रपाठकाय । अतिप्रियस्तवाय नमः । ६८० तीर्थप्रियाय नमः । तीर्थरताय । तीर्थाटनपरायणाय । तैलदीपप्रियाय । तैलपक्वान्नप्रीतमानसाय । तैलाभिषेकायसन्तुष्टाय । तिलचर्वणाय तत्पराय । दीनार्तिह्यते । दीनबन्धवे । दीननाथाय । दयापराय । दनुजारये । दुःखहन्त्रे । दुष्टभूतनिषूदनाय । दीनोरुदायकाय । दान्ताय । दीप्तिमते । दिव्यलोचनाय । देदीप्यमानाय । दुर्ज्ञेयाय नमः । ७०० दीनसम्मानतोषिताय नमः । दक्षिणाप्रेमसन्तुष्टाय । दारिद्रयबडबानलाय । धर्माय । धर्मप्रदाय । ध्येयाय । धीमते । धैर्यविभूषिताय । नानारूपधराय । नम्राय । नदीपुलिनसंश्रिताय । नटप्रियाय । नाट्यकराय । नारीमानसमोहनाय । नारदाय । नामरहिताय । नानामन्त्ररहस्यविदे । पत्यै । पातित्यसंहर्त्रे । परविद्याविकर्षकाय नमः । ७२० पुराणपुरुषाय नमः । पुण्याय । पद्यगद्यप्रदायकाय । पार्वतीरमणाय । पूर्णाय । पुराणागमसूचकाय । पशूपहाररसिकाय । पुत्रदाय । पुत्रपूजिताय । ब्रह्माण्डभेदनाय । ब्रह्मज्ञानिने । ब्राह्मणपालकाय । भूताध्यक्षाय । भूतपतये । भूतभीतिनिवारणाय । भद्राकाराय । भीमगर्भाय । भीमसङ्ग्रामलोलुपाय । भस्मभूषाय । भस्मसंस्थाय नमः । ७४० भैक्ष्यकर्मपरायणाय नमः । भानुभूषाय । भानुरूपाय । भवानीप्रीतिदायकाय । भवप्रियाय । भावरताय । भावाभावविवर्जिताय । भ्राजिष्णवे । जीवसन्तुष्टाय । भट्टाराय । भद्रवाहनाय । भद्रदाय । भ्रान्तिरहिताय । भीमचण्डीपत्ये । महते । यजुर्वेदप्रियाय । याजिने । यमसंयमसंयुताय । रामपूज्याय । रामनाथाय नमः । ७६० रत्नदाय नमः । रत्नहारकाय । राज्यदाय । रामवरदाय । रञ्जकाय । रतिमार्गधृते । रामानन्दमयाय । रम्याय । राजराजेश्वराय । रसाय । रत्नमन्दिरमध्यस्थाय । रत्नपूजापरायणाय । रत्नाकाराय । लक्षणेशाय । लक्ष्यदाय । लक्ष्यलक्षणाय । लोलाक्षीनायकाय । लोभिने । लक्षमन्त्रजपप्रियाय । लम्बिकामार्गनिरताय नमः । ७८० लक्ष्यकोट्यण्डनायकाय नमः । विद्याप्रदाय । वीतिहोत्रे । वीरविद्याविकर्षकाय । वाराहीपालकाय । वन्याय । वनवासिने । वनप्रियाय । वनेचराय । वनचराय । शक्तिपूज्याय । शिखिप्रियाय । शरच्चन्द्रनिभाय । शान्ताय । शक्ताय । संशयवर्जिताय । शापानुग्रहदाय । शङ्खप्रियाय । शत्रुनिषूदनाय । षट्कृत्तिकासुसम्पूज्याय नमः । ८०० षट्शास्त्रार्थरहस्यविदे नमः । सुभगाय । सर्वजिते । सौम्याय । सिद्धमार्गप्रवर्तकाय । सहजानन्ददाय । सोमाय । सर्वशास्त्ररहस्यविदे । सर्वजिते । सर्वविदे । साधवे । सर्वधर्म समन्विताय । सर्वाध्यक्षाय । सर्वदेवाय । महर्षये । मोहनास्त्रविदे । क्षेमङ्कराय । क्षेत्रपालाय । क्षयरोगक्षयङ्कराय । निस्सिममहिम्ने नमः । ८२० नित्याय नमः । लीलाविग्रहरूपधृते । चन्दनद्रवदिग्धाङ्गाय । चाम्पेयकुसुमप्रियाय । समस्तभक्तसुखदाय । परमाणवे । महाह्नदाय । आकाशगाय । दुष्प्रधर्षाय । कपिलाय । कालकन्धराय । कर्पूरगौराय । कुशलाय । सत्यसन्धाय । जितेन्द्रियाय । शाश्वतैश्वर्यविभवाय । पुष्कराय । सुसमाहिताय । महर्षये । पण्डिताय नमः । ८४० ब्रह्मयोनये नमः । सर्वोत्तमोत्तमाय । भूमिभारार्तिसंहर्त्रे । षडूर्मिरहिताय । मृडाय । त्रिविष्टपेश्वराय । सर्वहृदयाम्बुजमध्यगाय । सहस्रदलपद्मस्थाय । सर्ववर्णोपशोभिताय । पुण्यमूर्तये । पुण्यलभ्याय । पुण्यश्रवणकीर्तनाय । सूर्यमण्डलमध्यस्थाय । चन्द्रमण्डलमध्यगाय । सद्भक्तध्याननिगलाय । शरणागतपालकाय । श्वेतातपत्ररुचिराय । श्वेतचामरवीजिताय । सर्वावयसम्पूर्णाय । सर्वलक्षणलक्षिताय नमः । ८६० सर्वमङ्गलामाङ्गल्याय नमः । सर्वकारणकारणाय । आमोदमोदजनकाय । सर्पराजोत्तरीयकाय । कपालिने । गोविन्दसिद्धाय । कान्तिसंवलिताननाय । सर्वसद्गुरुसंसेव्याय । दिव्यचन्दनचर्चिताय । विलासिनीकृतोल्लासाय । इच्छाशक्तिनिषेविताय । अनन्ताय । अनन्तसुखदाय । नन्दनाय । श्रीनिकेतनाय । अमृताब्धिकृतावासाय (तोल्लासी) । नित्यक्लिन्नाय । निरामयाय । अनपायाय । अनन्तदृष्टये नमः । ८८० अप्रमेयाय नमः । अजराय । अमराय । अनामयाय । अप्रतिहताय । अप्रतर्क्याय । अमृताय । अक्षराय । अमोघसिद्धये । आधाराय । आधाराधेयवर्जिताय । ईषणात्रयनिर्मुक्ताय । ईहामात्रविवर्जिताय । ऋग्यजुःसामनयनाय । ऋद्धिसिद्धिसमृद्धिदाय । औदार्यनिधये । आपूर्णाय । ऐहिकामुष्मिकप्रदाय । शुद्धसन्मात्रसंवित्तास्वरूपसु(मु) खविग्रहाय । दर्शनप्रथमाभासाय नमः । ९०० दुष्टदर्शनवर्जिताय नमः । अग्रगण्याय । अचिन्त्यरूपाय । कलिकल्मषनाशनाय । विमर्शरूपाय । विमलाय । नित्यतृप्ताय । निराश्रयाय । नित्यशुद्धाय । नित्यबुद्धाय । नित्यमुक्ताय । निरावृताय । मैत्र्यादिवासनालभ्याय । महाप्रलयसंस्थिताय । महाकैलासनिलयाय । प्रज्ञानघनविग्रहाय । श्रीमद्व्याघ्रपुरावासाय । भुक्तिमुक्तिफलप्रदाय । जगद्योनये । जगत्साक्षिणे नमः । ९२० जगदीशाय नमः । जगन्मयाय । जपाय । जपपराय । जप्याय । विद्यासिंहासनप्रभवे । तत्त्वानां प्रकृतये । तत्त्वाय । तत्त्वम्पदनिरूपिताय । दिक्कालाग्न्यनवच्छिन्नाय । सहजानन्दसागराय । प्रकृतयै । प्राकृतातीताय । प्रज्ञानैकरसाकृतये । निःशङ्कमतिदूरस्थाय । चेत्यचेतनचिन्तकाय । तारकान्तरसंस्थानाय । तारकाय । तारकान्तकाय । ध्यानैकप्रकटाय नमः । ९४० ध्येयाय नमः । ध्यानाय । ध्यानविभूषणाय । परस्मै व्योम्ने । परस्मैधाम्ने । परमाणवे । परस्मैपदाय । पूर्णानन्दाय । सदानन्दाय । नादमध्यप्रतिष्ठिताय । प्रमाविपर्यया (णप्रत्यया) तीताय । प्रणताज्ञाननाशकाय । बाणार्चिताङ्घ्रियुगलाय । बालकेलिकुतूहलाय । बृहत्तमाय । ब्रह्मपदाय । ब्रह्मविदे । ब्रह्मवित्प्रियाय । भ्रूक्षेपदत्तलक्ष्मीकाय । भ्रूमध्यध्यानलक्षिताय नमः । ९६० यशस्कराय नमः । रत्नगर्भाय । महाराज्य सुखप्रदाय । शब्दब्रह्मणे । शमप्राप्याय । लाभकृते । लोकविश्रुताय । शास्त्रे । शिखाग्रनिलयाय । शरण्याय । याजकप्रियाय । संसारवेद्याय । सर्वज्ञाय । सर्वभेषजभेषजाय । मनोवाचाभिरग्राह्याय । पञ्चकोशविलक्षणाय । अवस्थात्रयनिर्मुक्ताय । त्वक्स्थाय । साक्षिणे । तुरीयकाय नमः । ९८० पञ्चभूतादिदूरस्थाय नमः । प्रतीचे । एकरसाय । अव्ययाय । षट्चक्रान्तःकृतोल्लासाय । षड्विकारविवर्जिताय । विज्ञानघनसम्पूर्णाय । वीणावादनतत्पराय । नीहाराकारगौराङ्गाय । महालावण्यवारिधये । पराभिचारशमनाय । षडध्वोपरिसंस्थिताय । सुषुम्नामार्गसञ्चारिणे । बिसतन्तुनिभाकृतये । पिनाकिने । लिङ्गरूपाय । श्रीमङ्गलावयवोज्ज्वलाय । क्षेत्राधिपाय । सुसंवेद्याय । श्रीप्रदाय नमः । १००० विभवप्रदाय नमः । सर्ववश्यकराय । सर्वतोषकाय । पुत्रपौत्रदाय । आत्मनाथाय । तिर्थनाथाय । सप्त(प्ति)नाथाय । सदाशिवाय नमः । १००८ इति श्रीदक्षिणामूर्तिसहस्रनामावलिः समाप्ता ।