अक्षर आकार:

श्रीदक्षिणामूर्तिमनुसुवर्णमालास्तवः

Shri Dakshinamurtimanusuvarnamalastavah

श्रीदक्षिणामूर्तिमनुसुवर्णमालास्तवः

ओमिति निखिला देवा यस्याज्ञां शिरसि कुर्वते सततम् । ओङ्कारपद्मभृङ्गं तमहं प्रणमामि दक्षिणामूर्तिम् ॥ १॥ नत्वा यत्पदयुग्मं मूका अपि वाग्विधूतगुरवः स्युः । नतजनरक्षणदक्षं तमहं प्रणमामि दक्षिणामूर्तिम् ॥ २॥ मोहमतङ्गजभेदनपञ्चास्या यत्पदाम्बुजप्रणताः । मोहान्धकारमिहिरं तमहं प्रणमामि दक्षिणामूर्तिम् ॥ ३॥ भववारिधिमाशु तरेत्कुल्यामिव यत्पदाम्बुजध्यानात् । भगवत्पदादिरूपं तमहं प्रणमामि दक्षिणामूर्तिम् ॥ ४॥ गतिविजितहंसगर्वं गगनमरुद्वह्णिजलधरारूपम् । गजमुखषडास्यपूजितमनिशं प्रणमामि दक्षिणामूर्तिम् ॥ ५॥ वरयन्तेऽखिलविद्याः स्वयमेव यदङ्घ्रिपद्मनम्रजनान् । वनवासलोलचित्तं तमहं प्रणमामि दक्षिणामूर्तिम् ॥ ६॥ तेन जितं जगदखिलं तेनैवात्तं समस्तभाग्यं च । येन त्वत्पदयुगलं पूजितमपि जातु दक्षिणामूर्ते ॥ ७॥ दमशममुखास्तु सुगुणाः प्राप्यन्ते सत्वरं यस्य । पादाम्बुजयुगनमनात्तमहं प्रणमामि दक्षिणामूर्तिम् ॥ ८॥ क्षितिपतयो दासाः स्युर्यत्पादपाथोजपूजकस्याशु । क्षितिधरशिखरावासं तमहं प्रणमामि दक्षिणामूर्तिम् ॥ ९॥ णाणेति यन्मनुस्थं वर्णं जप्तुः समस्तपुरुषार्थाः । करतलमध्यगताः स्युस्तमहं प्रणमामि दक्षिणामूर्तिम् ॥ १०॥ मूर्तिं निरीक्ष्य मोहं प्राप्यागसुता पुरा तपस्तेपे । यस्य प्राप्त्यै सुचिरं तमहं प्रणमामि दक्षिणामूर्तिम् ॥ ११॥ तस्याणिमादिसिद्धिर्विनैव योगं भवेन्न सन्देहः । तरुणेन्दुभूषितजटं यस्त्वां नमतीह दक्षिणामूर्ते ॥ १२॥ ये त्वत्पादाब्जयुगलं चित्ते सन्दधति दक्षिणामूर्ते । तान्मत्तवारणेन्द्रा दधति तुरङ्गाः सुवर्णशिबिकाश्च ॥ १३॥ मथितासुरसन्दोहं मानसचरमद्रिराजतनयायाः । मानप्रदमानमतामनिशं प्रणमामि दक्षिणामूर्तिम् ॥ १४॥ ह्यम्भोधौ लुठतां तत्पारं गन्तुं यदीयपदभक्तिः । संसृतिरूपे नौका तमहं प्रणमामि दक्षिणामूर्तिम् ॥ १५॥ मेधाप्रज्ञे चेटीभावं व्रजतो यदङ्घ्रिनतिकर्तुः । मेनासखजाकान्तं तमहं प्रणमामि दक्षिणामूर्तिम् ॥ १६॥ धां बापूर्वां निखिलां योऽरं वारयति भक्तवृन्दस्य । धाम्नामपि धामत्वदमनिशं प्रणमामि दक्षिणामूर्तिम् ॥ १७॥ प्रज्ञामात्रशरीरं प्रणताघाम्भोधिकुम्भसञ्जातम् । प्रत्यक्षं नतविततेः सततं प्रणमामि दक्षिणामूर्तिम् ॥ १८॥ ज्ञांशीभूताञ्जीवान् भवमग्नान् ब्रह्मबोधदानेन । कुर्वाणं प्रविमुक्तान् सततं प्रणमामि दक्षिणामूर्तिम् ॥ १९॥ प्रत्नवचस्ततिगेयं प्रज्ञादानप्रचण्डनिजनमनम् । प्रणवप्रतिपाद्यतनुं सततं प्रणमामि दक्षिणामूर्तिम् ॥ २०॥ यस्यार्धवर्ष्मलाभादेवाभूत्सर्वमङ्गला गिरिजा । यमिवरहृदब्जनिलयं तमहं प्रणमामि दक्षिणामूर्तिम् ॥ २१॥ छत्रीभूतवटागं छन्नमविद्याऽऽख्यवाससानादिम् । छत्रादिनृपविभूतिदमनिशं प्रणमामि दक्षिणामूर्तिम् ॥ २२॥ स्वाहास्वधानिषेव्यं स्वाकृतिसन्तोषितागजाहृदयम् । स्वाहासहायतिलकं सततं प्रणमामि दक्षिणामूर्तिम् ॥ २३॥ हासाधरीकृतविधुं हालाहलशोभमानगलदेशम् । हारायिताहिराजं सततं प्रणमामि दक्षिणामूतिम्म् ॥ २४॥ श्रीमन्नृसिंहयतिराट्शिष्यः श्रीसच्चिदानन्दः । अकरोद्गुरुवरकृपया स्तोत्रं श्रीदक्षिणामूर्तेः ॥ २५॥ मनुवर्णघटितमेतत्स्तोत्रं यः पठति भक्तिसंयुक्तः । तस्मै वटतटवासी दद्यात्सकलाः कलास्त्वरितम् ॥ २६॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचितः श्रीदक्षिणामूर्तिमनुसुवर्णमालास्तवः समाप्तः ।