अक्षर आकार:

श्रीदक्षिणामूर्तिध्यानम्

Shri Dakshinamurti Dhyanam

श्रीदक्षिणामूर्तिध्यानम्

वटस्याधः कञ्चित्करकमलचिन्मुद्रमचलं निटालाक्षं सूक्ष्मं पुनिवरगणासेव्यचरणम् । चिदानन्दाकारं मदनहरमापूर्णममलं सदा ध्यायेदन्तः परमशिवमाचार्यवपुषम् ॥ १॥ कैलासशिखरे रम्ये कमनीयमणिप्रभे । वटद्रुमतटे नित्यं निवसन्तं जगद्गुरुम् ॥ २॥ दक्षिणामूर्तिमीशानं दधतं मौनमुत्तमम् । व्यालम्बितजटाकोटिघटितार्धकलाधरम् ॥ ३॥ फालभूतिलकीभूतरुचिराम्भोजलोचनम् । कारुण्यरसपूरैकपूरिताक्षियुगाम्बुजम् ॥ ४॥ शुक्तिकाकारसङ्काशकर्णद्वन्द्वपुटोज्ज्वलम् । मणिदर्पणदर्पघ्नकपोलफलकप्रभम् ॥ ५॥ नवचम्पकपुष्पाभनासादण्डाविराजितम् । दरहासलसन्मुग्धमुखोन्निद्रसरोरुहम् । ६॥ दाडिगीवीजसन्दोहसन्देहदरदावलिम् । बिम्बसम्भ्रमधिकारिमधुराधरमञ्जुलम् ॥ ७॥ ग्रीवोदारश्रियोदस्तकम्बुसौभाग्यसन्ततिम् । श्रितकल्पलतीभूतभुजवल्लीचतुष्टयम् । ८॥ विद्यामुद्राक्षमालैकलसत्पाणियुगाम्बुजम् । वीणापुस्तोज्ज्वलोद्दामकरद्वन्द्वसरोरुहम् ॥ ९॥ विगढजन्नुविभ्राजिविपुलोत्तुङ्गवक्षसम् । आवर्तनाभिसुभगं त्रिवलीललितोदरम् ॥ १०॥ विशङ्कटकटिश्रोणिकरभोरुद्वयोज्ज्वलम् । चारुजानुयुगं वल्गुजङ्घायुगलरञ्जितम् ॥ ११॥ गूढगुल्फारुणनखव्रातदीधितिशोभितम् । दशाङ्गुलीदलोदारपदद्वन्द्वसरोरुहम् ॥ १२॥ दक्षिणोरूपरिन्यस्तसव्यपादाम्बुसम्भवम् । अपसव्यपदाम्भोजभञ्जितापस्मरं परम् ॥ १३॥ योगपट्टाभिरामं तं योगिवृन्दनिषेवितम् । पाटीरकुन्दचन्द्राभपाण्डराङ्गैकभासुरम् ॥ १४॥ चन्दनागरुकर्पूरचर्चितावयवोज्ज्वलम् । मन्दारचम्पकाशोकमल्लिकादामभूषितम् ॥ १५॥ तटिद्वलयसङ्काशमणिकुण्डलमण्डितम् । कटकाङ्गदकेयूरहारग्रैवेयकोज्ज्वलम् ॥ १६॥ प्रत्युप्तदिव्यमाणिक्यप्रस्फुरन्मेखलावृतम् । कलनिस्वनमञ्जीरपदकङ्कणरञ्जितम् ॥ १७॥। त्रैलोक्याद्भुतसौन्दर्यपरिपाकमनोहरम् । कन्दर्पकोटिलावण्यगर्वनिर्वापणाकृतिम् ॥ १८॥ कञ्जासनमहेन्द्रादिकलिताङ्घ्रिसरोरुहम् । देवकिन्नरगन्धर्वसंस्तुतोदारवैभवम् ॥ १९॥ सकृत्प्रपन्नलोकौघसरोरुहदिवाकरम् । संसाराशीविषालीमृतसञ्जीवनौषधम् ॥ २०॥ परमाद्वैतविज्ञानमहोदधिसुधाकरम् । अज्ञानध्वान्तसन्तानमार्तण्डोदारमण्डलम् ॥ २१॥ अनन्तभवकान्तारदहनोग्रदवानलम् । मोहानललसज्जालाजालकीलालसागरम् ॥ २२॥ संसारसौरसन्तापसन्तप्तोदारभूरुहम् । पञ्चाक्षरदलोल्लासिप्रणवाम्बुजषट्पदम् ॥ २३॥ षट्त्रिंशत्तत्त्वसोपानस्वात्मप्रासादभूपतिम् । दक्षाध्वरविभेत्तारं शिक्षितान्धकदुःस्थितिम् ॥ २४॥ दारितान्तकदौरात्म्यं दलितासुरसन्ततिम् । लीलाविजितकन्दर्पं हालाहलधरं हरम् ॥ २५॥ पालिताखिलभक्तौघं वेलातीतगुणार्णवम् । भृङ्गावलीकालकण्ठं मङ्गलाधारमद्भुतम् ॥ २६॥ गङ्गाधरं वृषारूढं सङ्गीतरसशेवधिम् । भस्मोद्धूलितसर्वाङ्गं भवरोगभिषग्वरम् ॥ २७॥ भवानीभावनागम्यं भक्तचित्तापहारिणम् । नासाञ्चलहिताब्जाक्षं नागाभरणभूषितम् ॥ २८॥ वसानं चर्म वैयाघ्रं वैराग्यभरमन्थरम् । वीणानादानुसन्धानविकसद्वदनाम्बुजम् ॥ २९॥ विश्वातीतसुखाम्भोजविलसद्भ्रमराप्रियम् । संसारसर्पसन्दष्टजनजाङ्गलिकोत्तमम् ॥ ३०॥ महादेवं महात्मानं महायोगीश्वरेश्वरम् । शाश्वतैश्वर्यसम्पूर्णं शङ्करं लोकशङ्करम् ॥ ३१॥ कारणं जगतामेकमनेकाकारभासुरम् । कालत्रयापरिच्छेद्यं कारकग्रामवर्जितम् ॥ ३२॥ निःसीमपरमानन्दनिजधामनि संस्थितम् । निगमान्तैकसंसिद्धशुद्धविद्यैकगोचरम् ॥ ३३॥ अविद्याकार्यनिर्मुक्तमवाङ्मनसगोचरम् । अद्वयानन्दविज्ञानघनं परमपावनम् ॥ ३४॥ आदिमध्यान्तरहितमपोहितगुणत्रयम् । अवेद्यं जगतां हृद्यमान्तरान्तरमव्ययम् ॥ ३५॥ निरवद्यं निराभासं निष्क्रियं निरुपप्लवम् । निर्विकल्पं निरातङ्कं निःसङ्गं निःसमीहितम् ॥ ३६॥ निस्त्रैगुण्यफलं किञ्चिन्निर्वाणसुखसागरम् । निर्द्वन्द्वानन्दसन्दोहमसन्देहमनूपमम् ॥ ३७॥ निर्गुणं निष्कलं नित्यं निर्विकारं निरञ्जनम् । नीरागं निरुपासङ्गं निरहङ्कारमक्षरम् ॥ ३८॥ निष्प्रपञ्चं निरालम्बं निराकारं निराश्रयम् । अवबोधरसैकात्म्यं ध्यायेदादिमदेशिकम् ॥ ३९॥ इति श्रीदक्षिणामूर्तिध्यानं परमपावनम् । पुत्रपौत्रायुरारोग्यमहासम्पत्प्रदायकम् ॥ ४०॥ चतुःषष्टिकलाविद्याप्रदं पापप्रणाशनम् । अणिमादिमहासिद्धिविधानचतुरं शुभम् ॥ ४१॥ क्षयगुल्मप्रमेहादिव्याधीनामेकभेषजम् । भक्तिज्ञानविरक्तीनां निदानं मुक्तिसाधनम् ॥ ४२॥ यः पठेच्छृणुयाद्वापि नित्यं भक्तिसमन्वितः । स यथोक्तफलान्यादौ लब्ध्वा मुक्तो भवेद्ध्रुवम् ॥ ४३॥ ब्रह्मादिदेववन्द्याय सर्वलोकाश्रयाय ते । दक्षिणामूर्तिरूपाय शङ्कराय नमो नमः ॥ ४४॥ शरणं तरुणेन्दुशेखरः शरणं मे गिरिराजकन्यका । शरणं पुनरेव तावुभौ शरणं नान्यदुपैमि दैवतम् ॥ ४५॥ इति श्रीसदाशिवेन्द्रसरस्वत्या विरचितं श्रीदक्षिणामूर्तिध्यानं सम्पूर्णम् । ॥ हरिः ॐ ॥