अक्षर आकार:

श्रीदक्षिणामूर्तिदशकम्

Shri Dakshinamurtidashakam

श्रीदक्षिणामूर्तिदशकम्

पुन्नागवारिजातप्रभृतिसुमस्रग्विभूषितग्रीवः । पुरगर्वमर्दनचणः पुरतो मम भवतु दक्षिणामूर्तिः ॥ १॥ पूजितपदाम्बुजातः पुरुषोत्तमदेवराजपद्मभवैः । पूगप्रदः कलानां पुरतो मम भवतु दक्षिणामूर्तिः ॥ २॥ हालाहलोज्ज्वलगलः शैलादिप्रवरगणैर्वीतः । कालाहङ्कृतिदलनः पुरतो मम भवतु दक्षिणामूर्तिः ॥ ३॥ कैलासशैलानलयो लीलालेशेन निर्मिताजाण्डः । बालाब्जकृतावतंसः पुरतो मम भवतु दक्षिणामूर्तिः ॥ ४॥ चेलाजितकुन्ददुग्धो लोलः शैलाधिराजतनयायाम् । फालविराजद्वह्निः पुरतो मम भवतु दक्षिणामूर्तिः ॥ ५॥ न्यग्रोधमूलवासी न्यक्कृतचन्द्रो मुखाम्बुजातेन । पुण्यैकलभ्यचरणः पुरतो मम भवतु दक्षिणामूर्तिः ॥ ६॥ मन्दार आनतततेर्वृन्दारकवृन्दवन्दितपदाब्जः । वन्दारुपूर्णकरुणः पुरतो मम भवतु दक्षिणामूर्तिः ॥ ७॥ मुक्तामालाभूषस्त्यक्ताशप्रवरयोगिभिः सेव्यः । भक्ताखिलेष्टदायी पुरतो मम भवतु दक्षिणामूर्तिः ॥ ८॥ मुद्रामालामृतधटपुस्तकराजत्कराम्भोजः । मुक्तिप्रदाननिरतः पुरतो मम भवतु दक्षिणामूर्तिः ॥ ९॥ स्तोकार्चनपरितुष्टः शोकापहपादपङ्कजस्मरणः । लोकावनकृतदीक्षः पुरतो मम भवतु दक्षिणामूर्तिः ॥ १०॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचितं श्रीदक्षिणामूर्तिदशकं सम्पूर्णम् ।