अक्षर आकार:

श्रीदूर्वेशस्तोत्रम्

Shri Durveshastotram

श्रीदूर्वेशस्तोत्रम्

(श्रीदूर्वाक्षेत्रे - अरवङ्गुलापरनामके) गणनाथषण्मुखयुतो गिरिजासंश्लेषतुष्टहृदयाब्जः । दूर्वाभिख्यपुरस्थाँल्लोकान् परिपातु भक्तिविनययुतान् ॥ १॥ विद्यानाथ विनीतिभक्तिसहिताँल्लोकान् कृपावारिधे दूर्वाभिख्यपुरस्थितान्करुणया पाहीभवक्त्रं यथा । विद्यायुःसुखयुक्तिशक्तिभिरलंयुक्तान्विधायानिशं शान्त्याद्यैरपि दिव्यमुक्तिपदवीसन्दर्शकैः शङ्कर ॥ २॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचितं श्रीदूर्वेशस्तोत्रं सम्पूर्णम् ।