अक्षर आकार:

श्रीच्युतपुरीशाष्टोत्तरशतनामावलिः

shrIchyutapurIshAShTottarashatanAmAvaliH

श्रीच्युतपुरीशाष्टोत्तरशतनामावलिः

ॐ श्रीगणेशाय नमः । ॐ नमः शिवाय । ॐ श्रीमच्च्युतपुरेशानाय नमः । ॐ चन्द्रार्धकृतशेखराय नमः । ॐ कृत्तिवाससे नमः । ॐ कृत्तिभूषाय नमः । ॐ गजमस्तकनर्तकाय नमः । ॐ हराय नमः । ॐ नीलाम्बुदश्यामाय नमः । ॐ गणनाथैरभिष्टुताय नमः । ॐ गुरवे नमः । ॐ ज्ञानसभाधीशाय नमः । ॐ योगपट्टविराजिताय नम ॐ विराडीशाय नमः । ॐ लिङ्गवपुषे नमः । ॐ कालारये नमः । ॐ नीलकन्धराय नमः । ॐ अट्टहासमुखाम्भोजाय नमः । ॐ विष्णुब्रह्मेन्द्रसन्नुताय नमः । ॐ कपालशूलचर्मासिनागढक्कालसद्भुजाय नमः । ॐ करिचर्मावृतिरतकरद्वयसमन्विताय नमः । ॐ तिर्यक्प्रकुञ्चितसव्यपादपद्ममनोहराय नमः । २० ॐ हस्तिमस्तकनृत्तोद्यद्दक्षिणाङ्घ्रिसरोरुहाय नमः । ॐ आपादलम्बिमाणिक्यघण्टामालाविराजिताय नमः । ॐ बालाङ्कुराम्बिकालोक लोललोचनपङ्कजाय नमः । ॐ अम्बाकटियगाङ्गेयसूचिताय नमः । ॐ करुणानिधये नमः । ॐ पञ्चब्रह्मसरस्तीरविहाररसिकाय नमः । ॐ अनघाय नमः । ॐ रक्तपायिगणेशेड्याय नमः । ॐ नन्दिचण्डमुखस्तुताय नमः । ॐ गजासुरभयत्रस्तरक्षकाय नमः । ॐ गजदारणाय नमः । ॐ अभक्तवञ्चकाय नमः । ॐ भक्तस्वेष्टदायिने नमः । ॐ शिवेक्षणाय नमः । ॐ मूकवाचालकृते नमः । ॐ पङ्गुपददायिने नमः । ॐ मनोहराय नमः । ॐ आशाम्बराय नमः । ॐ भिक्षुवेषधारिणे नमः । ॐ नारीसुमोहनाय नमः । ४० ॐ मोहिनीवेषधृग्विष्णुसहगाय नमः । ॐ विष्णुमोहकाय नमः । ॐ व्याघ्राजिनाम्बराय नमः । ॐ शास्तृजनकाय नमः । ॐ शास्तृदेशिकाय नमः । ॐ देवदारुवनान्तःस्थविप्रमोहनरूपधृते नमः । ॐ ईशानपेक्षफलदकर्मवादनिबर्हणाय नमः । ॐ क्षुद्रकर्मठविप्रौघमतिभेदनतत्पराय नमः । ॐ दारुकावनविप्रस्त्रीमोहनायत्तमाधवाय नमः । ॐ दारुकावनवासेच्छवे नमः । ॐ नग्नाय नमः । ॐ नग्नव्रतस्थिराय नमः । ॐ विष्णुप्राणेश्वराय नमः । ॐ विष्णुकलत्राय नमः । ॐ विष्णुमोहिताय नमः । ॐ महनीयाय नमः । ॐ दारुवनमुनिश्रेष्ठकृतार्हणाय नमः । ॐ अनसूयारुन्धतीड्याय नमः । ॐ वसिष्ठात्रिकृतार्हणाय नमः । ॐ विप्रसङ्घप्रेषिताश्मयष्टिलोष्टसुमर्दिताय नमः । ६० ॐ द्विजप्रेरितवह्न्येणडमर्वहिधराय नमः । ॐ अचलाय नमः । ॐ विप्राभिचारकर्मोत्थव्याघ्रचर्माम्बराय नमः । ॐ अमलाय नमः । ॐ अभिचारोत्थमत्तेभपार्श्वदारणनिर्गमाय नमः । ॐ पुंश्चलीदोषनिर्मुक्तविप्राङ्गनाय नमः । ॐ उदारधिये नमः । ॐ विनीतविप्रसगुणनिर्गुणब्रह्मबोधकाय नमः । ॐ वीराय नमः । ॐ अष्टवीर्यप्रथिताय नमः । ॐ वीरस्थानप्रथाकराय नमः । ॐ हृत्तापहृत्तीर्थगताय नमः । ॐ पर्वतेशाय नमः । ॐ अद्रिसन्निभाय नमः । ॐ ज्ञानामृतरस्तीरगताय नमः । ॐ तालवनेश्वराय नमः । ॐ शङ्खचक्राभिधहरिपुरोगाय नमः । ॐ स्कन्दसेविताय नमः । ॐ विश्वकर्मकृतानर्घव्याख्यापीठगदेशिकाय नमः । ॐ वाणीवरप्रदाय नमः । ८० ॐ वाग्मिने नमः । ॐ वाणीपद्मभवार्चिताय नमः । ॐ जीवतारायोगदायिने नमः । ॐ देववैद्यकृतार्हणाय नमः । ॐ वातापील्वलहत्याघदूनागस्त्यप्रमोदनाय नमः । ॐ अश्वत्थबदरीदेवदारुवह्निवनालयाय नमः । ॐ कावेरीदक्षतीरस्थाय नमः । ॐ कण्वकात्यायनार्चिताय नमः । ॐ मूकमोचनतीर्थेशाय नमः । ॐ ज्ञानामृतसरोऽग्रगाय नमः । ॐ सोमापराधसहनाय नमः । ॐ सोमेशाय नमः । ॐ सुन्दरेश्वराय नमः । ॐ स्वान्तरनायक्याःपतये नमः । ॐ शनैश्चरमदापहाय नमः । ॐ ज्वालाश्रेणीश्वराय नमः । ॐ ज्ञानसभेशाय नमः । ॐ वीरताण्डवाय नमः । ॐ दत्तचोलेश्वराय नमः । ॐ वीरचोलेशाय नमः । १०० ॐ विक्रमेश्वराय नमः । ॐ कङ्कालेशाय नमः । ॐ मङ्गलेशाय नमः । ॐ कौतुकेशाय नमः । ॐ अग्निनायकाय नमः । ॐ पलाशपुष्पारण्यादिवासिने नमः । ॐ हेमगिरीश्वराय नमः । ॐ माघपञ्चाब्ददलगयन्त्रगोमेशविग्रहाय नमः । १०८ श्रीबालाङ्कुराम्बिकासमेतकृत्तिवासेश्वराय नमः ।