नागार्जुनकृता चित्तसन्तोषत्रिंशिका
लोकोत्तरानुभवसस्मितघूर्णमान-
स्वानन्द सुन्दर विनिर्मल निर्निमेषा ।
यत्स्फारतः पशुरपीश्वरतां प्रयाति
सा कापि दृक्-विजयते गुरुपुङ्गवानाम् ॥ १॥
दिष्ट्या भवानलशिखा शत ताप तप्तं
जन्माटवीषु विषमासु कदर्थितं यत् ।
चेतस्तदेत दधुनामल चित्सुधाब्धि-
मध्ये निमग्नमसमां भजते प्रशान्तिम् ॥ २॥
व्यामूढमन्धमिव संशयदोषदुष्टं
चेतो यदेतद भवद्भवदुःख पात्रम् ।
जातं तदद्य गुरुपाद सरोज सेवा
सञ्जात निर्मल विबोध महाप्रकाशम् ॥ ३॥
सङ्कोचमाश्रितवतो निबिडं विमोहात्
यस्याभवद्भय मिहेन्द्रियपन्नगेभ्यः ।
चेतस्तदाप्य विमलोर्जित संविदाज्ञां
निशङ्कमद्य रमते विषयाटवीषु ॥ ४॥
कन्दर्पबाणविषमं हरिणेक्षणाभिः
पीत हतं कवलितं मुषितं यदासीत् ।
तत्पात्रतामुपगतं परमोक्षलक्ष्मी
प्रेमामृतप्लुतकटाक्ष परम्पराणाम् ॥ ५॥
क्लिष्टं यदेतदभजज्जपकष्टहोम-
प्राण प्रवाहि विनिरोधक दर्थनाभिः ।
चेतस्तदद्य परमाद्वयसामरस्य
सञ्जात सम्मदर सासवमत्तमद्य ॥ ६॥
यो भेदतीव्र शिशिरप्रसरोपघात-
भीतो मनो मधुकरो हतशक्तिरासीत् ।
आसाद्य सोऽद्य शिवधाममधुं सदास्ते
संविल्लात कुसुमसौरभमानमत्तः ॥ ७॥
व्यक्त स्वतन्त्र निजरूपमहाप्रभावं
यत्कर्म बिन्धुधरणीषु विलोनमासीत् ।
स्वच्छ प्रभाप्रसर पूरित सर्वलोकं
चेतश्चिदम्बरपदेन तदध्य माति ॥ ८॥
यत्नेन वाञ्छितमनल्प विकल्प-जाल
विध्-नंस्तिरस्कृतमवाप न यत्प्रवेशम् ।
दुर्भेद भिन्नविषमार्ग लभिन्नमार्गां
चेतस्तदध्य रमते शिवमन्दिरान्तः ॥ ९॥
योगव्रतादि नियमै रुपसे वितापिका
नावाप दर्शनपथं किल यस्य जातु ।
संवित्प्रियासुभगमूर्जित भाग्यसम्पत्
चेतस्तदध्य न जहाति मुहूर्तमेकम् ॥ १०॥
दुःखैक सारमिति भीम इति प्रयत्नात्
संसार एष किल यस्य बभूव हेयः ।
दिष्ट्या स एव परचिद्रससामरस्य
सञ्जीवितः श्रयति तस्य विमुक्ति साम्यम् ॥ ११॥
तृष्णा करालकरवाल विलुप्यमानं
यद्विस्मृतात्म विभवं कृपणं बभूव ।
उच्चैरकिञ्चन तयापि तदध्य चेतः
स्वात्मा वमर्श परहर्ष मुदारमास्ते ॥ १२॥
कस्योर्जितस्य सुकृतस्य फलं तदेतत्
पुण्योदयस्तव कुतोऽयमनन्यलभ्यः ।
संविच्छिया गलितभेद विकल्पया यत्
एकं मुहूर्तमपि नैव विमुच्यसे त्वम् ॥ १३॥
वर्तामहे क्वचन नाम न चित्त ! दिष्टया
वर्धामहे वयमहो मुदिता भवामः ।
यत्त्वां सखे परनिरुत्तर शैवसम्पत्
सम्भोग मन्थरतरं परिलोकयामः ॥ १४॥
ध्यानेऽर्चनेऽपि न कदाचन काञ्चनापि
कुत्रापि निर्वृति दशा वत यन्न लेभे ।
दिष्ट्या निमग्नमपि संव्यवहारमध्ये
चेतस्तदध्य न विमुञ्चति पारिपूर्ण्यम् ॥ १५॥
सर्वेषु चित्तमधुपो विषयद्रुमेषु
बभ्राम यः सतत मस्तमिताभिलाषः ।
दैवादवाप्य परमेश्वरपारिजातं
तृप्तो विलीन इव मुश्चति चञ्चलत्वम् ॥ १६॥
यैरिन्द्रियैरसि वशीकृतशक्ति चेतः!
पूर्वं कदर्थितमभूर हितैरि वोच्चैः ।
स्वच्छा निकेत परचिद्रस संविभक्तैः
दिष्ट्याद्य तैरनुचरैरिव राजसे त्वम् ॥ १७॥
चिन्तां ततान करुणं प्रललाप पूर्वं
यत्सङ्कुचत्स्थिति भयं रविजाद्विचार्य ।
चेतस्तदद्वयमिदं निजरूपमीक्ष्य
दिष्ट्याद्य निर्भयम मन्दमुदात्तमास्ते ॥ १८॥
नित्यं यदेतद भवद्विफलप्रयासं
हेवाकदुर्ललितम प्रथितात्मभावम् ।
संवित्सुधारस चमत्कृति घूर्णमानं
दिष्ट्या तदद्य नितरां स्पृहणीयमास्ते ॥ १९॥
चिन्ताशताकुलतरं न रतिं कदाचित
भीतं भवादभजतैकमपि क्षणं यत् ।
चेतश्चिदात्मकमिदं सकलं विलोक्य
सुप्तप्रबुद्धमिव निर्वृत रूपमास्ते ॥ २०॥
वन्दामहे किमु नुमः किमु गोरवेण
हर्षेण चित्त ! किमु नाम निषीडयामः ।
संप्राप्त दुर्लभ महोदय शैव सम्पत्
त्वां कौतुकेन किमु मित्र ! विलोकयामः ॥ २१॥
अपृच्छतामिय मनादि धनप्रबोध-
स्नेहानुविद्वहृदयात् हृदयाध्य माया ।
संसेव्यतां सुभग शैवपद प्रवेश
संप्राप्त दुर्लभ महोदय मुक्ति लक्ष्मीः ॥ २२॥
किं ब्रूमहेऽत्र भवते सुकृतेन सत्ये
सर्वाशिषाम विषये ननु वर्तसे त्वम् ।
यत्कारणातिगत निर्मल निर्विकल्पा
स्वच्छन्द शङ्करपदे भजसेऽनुरागम् ॥ २३॥
चित्रं यदेतद समं यदभूत सुखेषु
प्राप्तेषु निर्वृतिदशामनुवर्त मानम् ।
दुःखेषु दुस्सहतरेष्वपि चित्तमध्य
पूर्ण प्रमोद रस निर्भरमेतदास्ते ॥ २४॥
विश्वं निगोर्य सहसा कवलं विधाय
कालं प्रशान्त गगनोपम दिव्यमूर्तिः ।
या राजते निरुपमामृत पूरपूर्णा,
सा कापि खेचर गतिर्जयति त्वदीया ॥ २५॥
ते कारणादिपतयः प्रलयं प्रयान्ति
यस्मिन् महावटतटे विषमे गभीरे ।
शक्तिर्निजं वपुरपि प्रसभं जहाति
तद्धाम संश्रयसि वीरवर ! त्वमेकम् ॥ २६॥
विद्युद्विलास चपले विभवे नताङ्गी
भ्रूभङ्गभङ्गुरतरेऽपि च जीवितेऽस्मिन् ।
चित्त त्वयैव विजितं श्रयता विनाशि
दिग्देश कालकलना रहितं पदं तत् ॥ २७॥
स्वस्त्यस्तु तेऽम्बरविकस्वरसंप्रदाय
संप्राप्त शङ्कर पदोदित सम्मदाय ।
दुर्वारसं स्मृति दशास्वपि निर्विकार-
नित्यो दितात्म विभवाय भवाभवाय ॥ २८॥
स्वच्छन्द निर्मल सदोदित निर्निकेत-
संवित्सुधार सचमत्कृति निर्भरोऽसि ।
दिष्ट्याद्य सद्गुरुमुखाम्बुजमद्य लब्ध्वा-
नुच्चार्य चारुकथनो दयविस्मितोऽसि ॥ २९॥
भवमरुभुवि श्रान्तो मोहात् य एष मनोऽध्वगो
विषम विषय प्रोध्यत् तृष्णानिवेश वशीकृतः ।
शिवपदसुधासिन्धुं दैवाद्रवाप्य ससादरं
किमपि सुखिनो मज्जं मज्जं निमज्जति साम्प्रतम् ॥ ३०॥
निरावरण चिद्व्योम परमामृतनिर्भरः ।
नागार्जुनो व्यधादेनां चित्तसन्तोषत्रिंशिकाम् ॥
इति विपश्चिद्वर-नागार्जुनविरचिता चित्तसन्तोषत्रिंशिका समाप्ता ।
सोशल मीडिया पर शेयर करें:
सहेजें एवं डाउनलोड करें (Save & Export):