अक्षर आकार:

श्रीचिदम्बरेश्वरस्तोत्रम्

Shri Chidambareshvara Stotram

श्रीचिदम्बरेश्वरस्तोत्रम्

ॐ कृपासमुद्रं सुमुखं त्रिनेत्रं जटाधरं पार्वतीवामभागम् । सदाशिवं रुद्रमनन्तरूपं चिदम्बरेशं हृदि भावयामि ॥ १॥ वाचामतीतं फणिभूषणाङ्गं गणेशतातं धनदस्य मित्रम् । कन्दर्पनाशं कमलोत्पलाक्षं चिदम्बरेशं हृदि भावयामि ॥ २॥ रमेशवन्द्यं रजताद्रिनाथं श्रीवामदेवं भवदुःखनाशम् । रक्षाकरं राक्षसपीडितानां चिदम्बरेशं हृदि भावयामि ॥ ३॥ देवादिदेवं जगदेकनाथं देवेशवन्द्यं शशिखण्डचूडम् । गौरीसमेतं कृतविघ्नदक्षं चिदम्बरेशं हृदि भावयामि ॥ ४॥ वेदान्तवेद्यं सुरवैरिविघ्नं शुभप्रदं भक्तिमदन्तराणाम् । कालान्तकं श्रीकरुणाकटाक्षं चिदम्बरेशं हृदि भावयामि ॥ ५॥ हेमाद्रिचापं त्रिगुणात्मभावं गुहात्मजं व्याघ्रपुरीशमाद्यम् । श्मशानवासं वृषवाहनस्थं चिदम्बरेशं हृदि भावयामि ॥ ६॥ आद्यन्तशून्यं त्रिपुरारिमीशं नन्दीशमुख्यस्तुतवैभवाढ्यम् । समस्तदेवैः परिपूजिताङ्घ्रिं चिदम्बरेशं हृदि भावयामि ॥ ७॥ तमेव भान्तं ह्यनुभातिसर्वमनेकरूपं परमार्थमेकम् । ह्यनुभूतिसर्वम् पिनाकपाणिं भवनाशहेतुं चिदम्बरेशं हृदि भावयामि ॥ ८॥ विश्वेश्वरं नित्यमनन्तमाद्यं त्रिलोचनं चन्द्रकलावतंसम् । पतिं पशूनां हृदि सन्निविष्टं चिदम्बरेशं हृदि भावयामि ॥ ९॥ विश्वाधिकं विष्णुमुखैरुपास्यं त्रिलोचनं पञ्चमुखं प्रसन्नं । उमापतिं पापहरं प्रशान्तं चिदम्बरेशं हृदि भावयामि ॥ १०॥ कर्पूरगात्रं कमनीयनेत्रं कंसारिमित्रं कमलेन्दुवक्त्रम् । कन्दर्पगात्रं कमलेशमित्रं चिदम्बरेशं हृदि भावयामि ॥ ११॥ विशालनेत्रं परिपूर्णगात्रं गौरीकलत्रं हरिदम्बरेशम् । कुबेरमित्रं जगतः पवित्रं चिदम्बरेशं हृदि भावयामि ॥ १२॥ कल्याणमूर्तिं कनकाद्रिचापं कान्तासमाक्रान्तनिजर्धदेहम् । कपर्दिनं कामरिपुं पुरारिं चिदम्बरेशं हृदि भावयामि ॥ १३॥ कल्पान्तकालाहितचण्डनृत्तं समस्तवेदान्तवचोनिगूढम् । अयुग्मनेत्रं गिरिजासहायं चिदम्बरेशं हृदि भावयामि ॥ १४॥ दिगम्बरं शङ्खसिताल्पहासं कपालिनं शूलिनमप्रयेम् । नागात्मजावक्त्रपयोजसूर्यं चिदम्बरेशं हृदि भावयामि ॥ १५॥ सदाशिवं सत्पुरुषैरनेकैः सदार्चितं सामशिरस्सुगीतम् । वैय्याघ्रचर्माम्बरमुग्रमीशं चिदम्बरेशं हृदि भावयामि ॥ १६॥ चिदम्बरस्य स्त्वनं पठेद्यः प्रदोषकालेषु पुमान् स धन्यः । भोगानशेषाननुभूय भूयः सायुज्यमप्येति चिदम्बरस्य ॥ १७॥ इति श्रीचिदम्बरेश्वरस्तोत्रं सम्पूर्णम् ।