अक्षर आकार:

श्रीचिदम्बरेश्वरीचिदम्बरेश्वरसम्मेलनाष्टोत्तरशतनामस्तोत्रम्

Shri Chidambareshvari Chidambareshvara Sammelana AshTottarashatanama Stotram

श्रीचिदम्बरेश्वरीचिदम्बरेश्वरसम्मेलनाष्टोत्तरशतनामस्तोत्रम्

पूर्व पीठिका ॥ श्री शिव उवाचाष्टोत्तरशतं वक्ष्ये श‍ृणु विष्णो समाहितः । सदाशिव ऋषिच्छन्दो विराट देवो नटेश्वरः ॥ इष्ट काम्यार्थ सिद्ध्यर्थे विनियोगो वरानन । ॥ उत्तर पीठिका ॥ नाम्नामष्टोत्तरशतं स्त्रीपुंल्लिङ्गक्रमेण तु । सम्पूज्य देवदेवेशौ भेजे सर्वार्थसिद्धिदम् ॥ १॥ नमः शिवाय पञ्चार्णं ॐ जुं सः सम्पुटं जपेत् । वृत्ते मन्त्रं बहिस्त्र्यश्रे ॐ जुं सः चाष्ट पत्रके ॥ २॥ त्रियम्बकं दलाग्रे तु सन्ध्यार्णं मातृकावृतम् । यन्त्रं निक्षिप्य कलशे मण्डलं विधिवद्यजेत् ॥ ३॥ अयुतं प्रजपेन्मन्त्रं साध्यनाम पुरस्सरम् । ततः शिवो भावनन्तु समिद्भिश्चतुरङ्गलैः ॥ ४॥ दुग्धाक्तसमिधा ह्यग्नौ साहस्र षट्ककं हुनेत् । यस्तु वह्नौ जुहोत्येवं यावत्सङ्ख्येन साधकः ॥ ५॥ तावत् सङ्ख्यैस्सुधाकुम्भैरग्निं प्रीणाति शङ्करः । आव्याधिघ्नाः सदा सर्वं सहस्रमीप्सितान् वरान् ॥ ६॥ प्रदद्यादायुरादींश्च दुरुक्तात् प्रलयान्तिकान् । त्रिबीजार्णं च साध्याख्यं पालयद्वय बीजयुक् ॥ ७॥ अमृत मृत्युञ्जयार्णमथवा कमला पुटम् । अमृता च वटा चैव तिलं दूर्वा पयो घृतम् ॥ ८॥ पायसं सप्तभिर्द्रव्यैः सहस्रं जुहुयात् पृथक् । घोरजराधिव्याधीनां दाहमोहपरिभ्रमम् ॥ ९॥ ग्रहपीडाप्रशमनं शतायुर्जीवनं ततः । यजेद्धोमदिने सप्त विप्रान् सुदक्षिणान्वितम् ॥ १०॥ होमावसाने विप्राणां दद्यात् ताम्बूलदक्षिणाम् । गलूचीं खण्डशः कृत्वा चतुरङ्गुलमानकम् ॥ ११॥ जुहुयाद् दुग्ध संसिक्तं सम्यग् भानुसहस्रकम् । अभिषेकं ततः कृत्वा ह्यायुरारोग्यवर्धनम् ॥ १२॥ तिल दूर्वाऽमृताज्याभिरष्टोत्तरसहस्रकम् । जन्मर्क्षदोषशमनं निरुपद्रवमुत्तमम् ॥ १३॥ तिलामृतघृतान् हुत्वा सहस्रं मृत्युनाशनम् । छिन्नाकाश्मर्यवकुल समिद्भिर्घृतसंयुतं हुत्वा सहस्रं जन्मर्क्षे दोषघ्नं रोग नाशनम् ॥ १४॥ प्रोक्ते ध्यानजपार्चनाहुतिविधानाद्यैश्च मृत्युञ्जयं यो मन्त्री प्रजपन्मनुं प्रतिदिनं प्रातः प्रसन्नाशयः । तस्येष्टानि भवन्ति संसृतिरपि स्फीता च पुत्रादयः सम्पन्नाः सुसुखी च जीवति चिरं देहापदस्याच्छिवः ॥ १५॥ अथ श्रीचिदम्बरेश्वरी-श्रीचिदम्बरेश्वरसम्मेलनाष्टोत्तरशतनामानि । ॐ चिदम्बरेश्वर्यै नमः । चिदम्बरेश्वराय नमः । हेमसभेश्यै नमः । हेमसभेशाय नमः । चित्सभेश्वर्यै नमः । चित्सभेश्वराय नमः । चिदम्बरसभानाथायै नमः । चिदम्बरसभानाथाय नमः । चिदम्बरसभापत्यै नमः । चिदम्बरसभापतये नमः । चिदम्बरपुराधीश्यै नमः । चिदम्बर पुराधीशाय नमः । चिदम्बरसभानट्यै नमः । चिदम्बरसभानटाय नमः । सभेश्वर्यै सभेश्वराय नमः । सभामूर्त्यै नमः । सभामूर्तये नमः । सुसम्राज्ञ्यै नमः । सुसम्राजेनमः । सदसस्पत्यै नमः । सदसस्पतये नमः । चिन्मय्यै नमः । चिन्मयाय नमः । चित्सभानाथायै नमः । चित्सभानाथाय नमः । नटेश्यै नमः । नटेशाय नमः । नटनायक्यै नमः । नटनायकाय नमः । सभामण्यै नमः । सभामणये नमः । सभादीप्तायै नमः । सभादीप्ताय नमः । नटराज्ञ्यै नमः । नटराजे नमः । ताण्डवेश्वर्यै नमः । ताण्डवेश्वराय नमः । पुण्डरीकपुराधीश्यै नमः । पुण्डरीकपुराधीशाय नमः । २० ॐ पुण्डरीकपुरेश्वर्यै नमः । पुण्डरीकपुरेश्वराय नमः । पुण्डरीकरुच्यै नमः । पुण्डरीकरुचये नमः । वन्द्यायै नमः । वन्द्याय नमः । पुण्डरीकाक्षसेवितायै नमः । पुण्डरीकाक्षसेविताय नमः । तिल्व रुद्राण्यै नमः । तिल्वरुद्राय नमः । महारुद्राण्यै नमः । महा रुद्राय नमः । नृत्ताङ्ग्यै नमः । नृत्ताङ्गाय नमः । नृत्तसुन्दर्यै नमः । नृत्तसुन्दराय नमः । पञ्चाक्षर्यै नमः । पञ्चाक्षराय नमः । परस्मै ज्योतिषे नमः । परस्मै ज्योतिषे नमः । सुन्दरानन्द विग्रहायै नमः । सुन्दरानन्द विग्रहाय नमः । आनन्द नटनाधीश्यै नमः । आनन्द नटनाधीशाय नमः । सच्चिदानन्दविग्रहायै नमः । सच्चिदानन्दविग्रहाय नमः । व्योम व्योम्ने नमः । व्योमव्योम्ने नमः । व्योमकेश्यै नमः । व्योमकेशाय नमः । चिन्महाव्योमताण्डवायै नमः । चिन्महाव्योमताण्डवाय नमः । अम्बराधीश्वर्यै नमः । अम्बराधीश्वराय नमः । हंस्यै नमः । हंसाय नमः । कुञ्चिताङ्घ्र्यै नमः । कुञ्चिताङ्घ्रये नमः । चिदम्बरायै नमः । चिदम्बराय नमः । ४० ॐ तिल्ववासायै नमः । तिल्ववासाय नमः । चिदीशान्यै नमः । चिदीशानाय नमः । विराज्ञ्यै नमः । विराजे नमः । तिल्व वनाधिपायै नमः । तिल्ववनाधिपाय नमः । त्रैलोक्यसुन्दर्यै नमः । त्रैलोक्यसुन्दराय नमः । तिल्ववन्यै नमः । तिल्ववनाय नमः । तिल्वपुरेश्वर्यै नमः । तिल्वपुरेश्वराय नमः । व्याघ्रचर्मधरायै नमः । व्याघ्रचर्मधराय नमः । व्याघ्रपुरेश्यै नमः । व्याघ्रपुरेशाय नमः । व्याघ्रपात्प्रियायै नमः । व्याघ्रपात्प्रियाय नमः । कृपानिध्यै नमः । कृपानिधये नमः । महाकाल्यै नमः । महाकालाय नमः । व्याघ्रपादप्रपूजितायै नमः । व्याघ्रपादप्रपूजिताय नमः । मन्त्रविग्रहायै नमः । मन्त्रविग्रहाय नमः । ओङ्कार्यै नमः । ओङ्काराय नमः । सिंहवर्म प्रपूजितायै नमः । सिंहवर्मप्रपूजिताय नमः । जटाधरायै नमः । जटाधराय नमः । ललाटाक्ष्यै नमः । ललाटाक्षाय नमः । पतञ्जलिवरप्रदायै नमः । पतञ्जलि वरप्रदाय नमः । अपस्मार हरायै नमः । अपस्मारहराय नमः । ६० ॐ सर्पभूषणायै नमः । सर्पभूषणाय नमः । फणिराट्प्रियायै नमः । फणिराट् प्रियाय नमः । महाकामेश्वर्यै नमः । महाकामेश्वराय नमः । वज्रेश्वर्यै नमः । वज्रेश्वराय नमः । प्रासाद विग्रहायै नमः । प्रासादविग्रहाय नमः । आनन्दताण्डवायै नमः । आनन्दताण्डवाय नमः । रक्तपादायै नमः । रक्तपादाय नमः । सुन्दरताण्डवायै नमः । सुन्दरताण्डवाय नमः । हरिप्रियायै नमः । हरिप्रियाय नमः । हरायै नमः । हराय नमः । शाम्भव्यै नमः । शम्भवे नमः । ईश्वर्यै नमः । ईश्वराय नमः । जैमिनिप्रियायै नमः । जैमिनिप्रियाय नमः । मणिनूपुरपादायै नमः । मणिनूपुरपादाय नमः । श्रीचक्रवासायै नमः । श्रीचक्रवासाय नमः । उमापत्यै नमः । उमापतये नमः । त्रिलोचनायै नमः । त्रिलोचनाय नमः । शूलपाणये नमः । शूलपाणये नमः । भूतेश्यै नमः । भूतेशाय नमः । वृषभध्वजायै नमः । वृषभध्वजाय नमः । ८० ॐ श्रीचक्रप्रियायै नमः । श्रीचक्रप्रियाय नमः । उग्राङ्ग्यै नमः । उग्राङ्गाय नमः । त्रिपुरायै नमः । त्रिपुराय नमः । त्रिपुरेश्वर्यै नमः । त्रिपुरेश्वराय नमः । मन्त्रमूर्त्यै नमः । मन्त्रमूर्तये नमः । सभाचक्रायै नमः । सभा चक्राय नमः । चक्र राज्ञ्यै नमः । चक्र राजे नमः । चक्र विग्रहायै नमः । चक्र विग्रहाय नमः । परप्रकाशायै नमः । परप्रकाशाय नमः । शिवकामसुन्दर्यै नमः । शिवकामसुन्दराय नमः । परात्परायै नमः । परात्पराय नमः । परमेश्वर्यै नमः । परमेश्वराय नमः । सभेश्यै नमः । सभेशाय नमः । श्रीमद्दभ्रसभेश्वर्यै नमः । श्रीमद्दभ्रसभेश्वराय नमः । महेश्वर्यै नमः । महेश्वराय नमः । महादेव्यै नमः । महादेवाय नमः । शङ्कर्यै नमः । शङ्कराय नमः । चन्द्रशेखरायै नमः । चन्द्रशेखराय नमः । ईशायै नमः । ईशाय नमः । तत्पुरुषायै नमः । तत्पुरुषाय नमः । १०० ॐ अघोरायै नमः । अघोराय नमः । वामायै नमः । वामाय नमः । सद्यायै नमः । सद्याय नमः । सदाशिवायै नमः । सदाशिवाय नमः । भुवनेशायै(श्यै)नमः । भुवनेशाय नमः । विश्वनाथायै नमः । विश्वनाथाय नमः । शिवायै नमः । शिवाय नमः । त्रिपुरसुन्दर्यै नमः । त्रिपुरसुन्दराय नमः । १०८ ॐ श्रीशिवकामसुन्दरीसमेत श्रीचित्सभेश्वराय नमः । इति श्रीचिदम्बररहस्योक्तानि श्रीचिदम्बरेश्वरी श्रीचिदम्बरेश्वरसम्मेलनाष्टोत्तरशतनामानि ।