अक्षर आकार:

श्रीचिदम्बर पञ्चाक्षरी त्रिशती स्तोत्रनामावलिः

Shri Chidambara Panchakshari Trishati Stotra Namavali

श्रीचिदम्बर पञ्चाक्षरी त्रिशती स्तोत्रनामावलिः

श्रीगणेशाय नमः । पूर्वपीठिका । शौनकाद्याः- स्वामिन् सूत महाप्राज्ञ चिदम्बरसभापतेः । नाम्नां शतत्रयं स्तोत्रं मन्त्रपञ्चाक्षरात्मकम् ॥ १॥ अस्तीति सूचितं पूर्वं तथा नोक्तं तदद्य तु । कृपया ब्रूहि भगवन्नस्माकं सर्वसिद्धये ॥ २॥ इत्युक्तस्स च तान् प्राह सूतः पौराणिकोत्तमः । श्री सूतः- यूयं महाभाग्यवन्तः श‍ृणुध्वं मुनिपुङ्गवाः ॥ ३॥ पुरा कल्पे भगवता शिवेन हरये तथा । गौर्यै प्राक्तं महामन्त्रमयं नाम शतत्रयम् ॥ ४॥ स्तोत्रं सर्वार्थदं यस्मिन् कल्पे योग बलेन तु । पाराशर्येण गुरुणा ज्ञात्वा जातु प्रमोदतः ॥ ५॥ रहस्ये मां समाहूयाप्युपदिष्टं तदद्य तु । वक्ष्यामि श‍ृणु विप्रेन्द्राः सावधानेन चेतसा ॥ ६॥ आदावन्ते समाप्ते च सर्वेषां कर्मणां द्विजाः । सकृत्स्मरणमात्रेण न्यूनाधिकविगर्हणम् ॥ ७॥ न भवेच्च तथा तस्मात् जप्तव्यं सर्वदा नृभिः । धान्त भान्तौ च लान्तश्च सदीर्घो वान्त इत्यपि ॥ ८॥ तृतीय स्वरयुग्वायुः पञ्चवर्णश्चिदम्बरः । पश्चपश्चार्णषष्ठया तु शतत्रयमुदाहृतम् ॥ ९॥ शुचिर्वाप्यशुचिर्वापि सर्वदा प्रजपेदिदम् ॥ अथ श्रीचिदम्बर त्रिशती नामावलिः । ॐ शिवमयम् । आदौ श्रीचिदम्बरपञ्चाक्षरवत् अङ्गन्यासादिकं कृत्वा- प्रथमतः- श्रीसदाशिवस्य पूर्ववक्त्रोद्भवं- गौतमार्षं- गायत्री च्छन्दस्कं- इन्द्र देवताकं- पीतवर्णं- बिन्दुनादविभूषितं- श्रीचिदम्बरपञ्चाक्षरीविद्या प्रथमावयवं- उदात्तस्वरोपेतं- आदिमं-``न''कारं ध्यात्वा-

॥ ॐ नं ॥

ॐ नटेशाय नमः । नगजा जानये । नटनानन्दसुन्दराय । नम्रदिक्पालनिकराय । नमदानन्ददायकाय । नारायणार्चिताय । नारीभागाय । नादान्तपूजिताय । नामहीनाय । नाशहीनाय । नानारसमनोहराय । नागभूषाय । नागपूज्याय । नागराजे । नन्दिवाहनाय । नदीजटाय । नगारूढाय । नरनारायणस्तुताय । नरास्त्रदात्रे । नामाङ्कहीनाय नमः । २० ॐ नारीमनोहराय नमः । नित्यशुद्धाय । नित्यबुद्धाय । नित्यमुक्ताय । निरञ्जनाय । निस्सङ्गाय । निरहङ्काराय । नीरूपाय । निरूपाधिकाय । नीपवाटीगताय । नीपसुममुदे । नीपसन्निभाय । नीहारांशु नुताय । नीप्याय । नीहारागभवापतये । नुत्याय । नुतिप्रियाय । नूत्नाय । नूपुरारावमञ्जुलाय । नखच्छिन्नात्मभूशीर्षाय नमः । ४० ॐ नखच्छिन्ननृकेसरिणे नमः । नखांशुजितशीतांशवे । नागराजविभूषणाय । नामपारायणप्रियाय । नासामध्यविलोकनाय । नन्दिवेद्याय । नटाकाराय । नग्नाय । नारदपूजिताय । नित्याय । निगमसंवेद्याय । निस्पृहाय । निगमाकृतये । निश्चलाय । निगमानन्दाय । नृत्तराजे । नृत्तसुन्दराय । नाटकीकृतभूताण्डाय । नित्यतृप्ताय । निराश्रयाय नमः । ६० श्रीसदाशिवस्य दक्षिणवक्त्रोद्भवं- अत्र्यार्षं- अनुष्टुप्च्छन्दस्कं- रुद्रदेवताकं- कृष्णवर्णं बिन्दुनादविभूषितं- श्री चिदम्बरपञ्चाक्षरीविद्या द्वितीयावयवं- स्वरित स्वरोपेतं- द्वितीयं``म''कारं ध्यात्वा-

॥ ॐ मं ॥

ॐ महादेवाय नमः । महामोहजनकाय । महिमाप्रियाय । महते । महर्षये । मार्ताण्डाय । महर्षिगणसेविताय । मनोज्ञाय । मधुराय । माररिपवे । माधवसुन्दराय । मन्त्रिणे । मन्त्राक्षराकाराय । मार्कण्डेयवरप्रदाय । महामेरुधनुषे । मानिने । माननीयाय । महाप्रभवे । महासेनगुरवे । मान्याय नमः । ८० ॐ महानटनलम्पटाय नमः । महाबलेशानवक्त्राय । महाताण्डववैभवाय । मध्यार्जुनमुखानन्दाय । मननत्राणतत्पराय । मायाविने । मञ्जुमञ्जीरचरणाय । मण्डलान्तराय । मणिपूरान्तरगताय । मधुभृच्चक्रताण्डवाय । मृडानीवल्लभाय । मौनिने । मौनव्याख्यानतत्पराय । मृत्युञ्जयाय । मृत्युमृत्यवे । मुदिताय । मुदितान्तराय । मुनये । मुनीश्वराय । मेध्याय नमः । १०० ॐ महार्घमणिभूषणाय नमः । मनोन्मनाय । मनोरूपाय । महीचक्रिणे । मरालगाय । मात्रे । मातङ्गविनुताय । माधवेषुधिवारिधये । महाकालाय । महेशानाय । महेष्वासाय । महेश्वराय । महोत्सवाय । महोत्साहाय । मङ्गलायतनाय । मधुने । मातृकावर्णसङ्कॢप्ताय । महाकैलाससंस्थिताय । महासाम्राज्यसन्दायिने । मनोवाचामगोचराय नमः । १२० श्रीसदाशिवस्य पश्चिमवक्त्रोद्भवं- विश्वामित्रार्षं- त्रिष्टुप्च्छन्दस्कं- विष्णु देवताकं- धूम्रवर्णं बिन्दुनादविभूषितं- श्रीचिदम्बरपञ्चाक्षरीविद्या तुरीयावयवं- अनुदात्तस्वरोपेतं- तुरीयं``शि (शी)''कारं ध्यात्वा-

॥ ॐ वाम् ॥

ॐ वाक्पतये नमः । वारिजारूढाय । वारिभृते । वाञ्छितार्थदाय । वाञ्छाकल्पलताभिख्याय । वामदेवाय । वनाधिपाय । वराय । वरार्चिताय । वन्द्याय । वसिष्ठजनकाय । वसवे । वामाङ्गाय । वामनहराय । वामनेड्याय । वरप्रदाय । वासवाय । वासवाराद्ध्याय । वनमालिप्रियाय । विधये नमः । १४० ॐ विधिशीर्षराय नमः । वीणाधराय । वैवस्वतान्तकाय । वैवाहिकाय । विशिष्टार्थाय । विशेष्याय । विन्ध्यदर्पघ्ने । वृषस्कन्धाय । वृषारूढाय । वरुणाय । वरुणार्चिताय । वरिष्ठाय । वज्रकवचाय । वज्रभेत्रे । विरूपवते । विश्वरूपाय । विराड्रूपाय । विराठृत्पद्मभासुराय । वायुरूपाय । वायुभक्षभूषाय नमः । १६० ॐ वागीश्वरीप्रियाय नमः । वागीशाय । वेदविनुताय । वेदवाहाय । वराहघ्ने । विषभुजे । विबुधश्रेष्ठाय । विरिञ्चिविनुताय । विधवे । विधुभूषाय । विरूपाक्षाय । विधुवह्न्यर्कलोचनाय । वटुकाय । वटुकाराध्याय । वर्षिष्ठान्तेवसद्गणाय । वेतालनटनानन्दाय । वनभिक्षाटनोद्युताय । वीरासनाय । वीरभद्राय । विश्वसम्मोहनाकृतये नमः । १८०

॥ ॐ शिं - शीं ॥

ॐ शिवाय नमः । शिवङ्कराय । शिष्ठाय । शितिकण्ठाय । शिवार्धभाजे । शिवानन्दाय । शिवाराध्याय । शिवकामाय । शिवाश्रिताय । शतानन्दाय । शतमुखाय । शतमन्यवे । शताक्षराय । शरभाय । शरभाकाराय । शुकभृते । शुकसन्नुताय । शूराय । शूरजनाराध्याय । श्रुत्युक्तस्तुतवैभवाय नमः । २०० ॐ शेखरीभूत शीतांशुगङ्गाय नमः । शेषाङ्गुलीयकाय । शेषधये । श्रेष्ठजनकाय । शेमुषीगोष्ठिनाटकाय । शमिने । शमनसंहर्त्रे । शरण्याय । शमनेष्टदाय । शङ्कराय । शास्त्रकृते । शम्भवे । शापायुधविनिग्रहाय । शम्बरारातिविमुखाय । शङ्गभृते । शमिताखिलाय । शाश्वताय । शासकाय । शास्त्रे । शरणागतपालकाय नमः । २२० ॐ शबराय नमः । शाबराय । शान्ताय । श्रीकण्ठाय । श्रीमुखार्चिताय । शिवाश्लिष्टाय । शिवार्धाङ्गाय । शिलादसुतसन्नुताय । शैलेन्द्रचापाय । शार्दूलचर्मधृते । शशिशेखराय । शिवकामेश्वराय । श्रीमते । शिवासक्ताय । शिवाश्रयाय । श्रितानन्दाय । शतधृतिशिरोभृते । शाक्वरप्रियाय । शातकुम्भसमाकाराय । शान्तहृत्पद्मसंस्थिताय नमः । २४० श्रीसदाशिवस्य उत्तरवक्त्रोद्भवं- अङ्गिरार्षं- बृहतीच्छन्दस्कं- ब्रह्म देवताकं- स्वर्णवर्णं बिन्दुनादविभूषितं- श्रीचिदम्बरपञ्चाक्क्षरीविद्या तृतीयावयवं- प्रचयस्वरोपेतं- तृतीयं ``वा''कारं ध्यात्वा- श्रीसदाशिवस्य उत्तर(ऊर्ध्व)वक्त्रोद्भवं- भरद्वाजार्षं- विराट्च्छन्दस्कं- स्कन्ददेवताकं- रक्तवर्णं बिन्दुनादविभूषितं- श्रीचिदम्बरपञ्चाक्षरीविद्या पञ्चमावयवं- उदात्तस्वरोपेतं- पञ्चमं ``य'' कारं ध्यात्वा-

॥ ॐ यं ॥

ॐ यज्ञाय नमः । यज्ञप्रियाय । यज्वने । यायजूकाय । यतेन्द्रियाय । यमिने । यमहराय । यानीकृताम्नायाय । यतीश्वराय । यन्त्रे । यन्त्रितविध्यण्डाय । यजमानाय । युवाकृतये । यक्षराजसखाय । यष्ट्रे । यतात्मने । यादसाम्पतये । यन्त्रिणे । यन्त्रान्तराराध्याय । यन्त्रितावनिमण्डलाय नमः । २६० ॐ यथेष्टफलदाय नमः । याम्यदिङ्मुखाय । याकिनीप्रियाय । योगिने । योगेश्वराय । युक्ताय । योगपट्टविराजिताय । युगान्तकृते । यशोदात्रे । यशस्विने । यक्षवन्दिताय । यमुनाळीशिखाजूटाय । यकाराभयदोर्धराय । यातनारहिताय । याच्ञाहीनाय । यष्टिधराय । यतये । यन्त्रात्मने । यामिनीलास्याय । यामपूज्याय नमः । २८० ॐ युधिष्ठिराय नमः । यज्ञान्तकृते । यज्ञपूज्याय । यज्ञवाटनटेश्वराय । यज्ञदेवोत्तमाय । यज्ञविधये । यज्ञरसोत्सुकाय । यमस्मरपुरान्धेभजलदक्षाजनिग्रहाय । यादःकोलगजारातिखर्वकच्छपगर्वघ्ने । यक्षराक्षसभेतालभूताऽपस्मारभञ्जनाय । योषासङ्क्रान्तवामाङ्गाय । योषिकृतरमाधवाय । योषानायकसंप्रीताय । योषिन्मण्डलताण्डवाय । यन्त्रोल्लिखितचिन्मूर्तये । यायजूकसमर्चिताय । यज्ञवाटसभाध्यक्षाय । यामिनीलास्यनिश्चलाय । याथात्म्यतत्त्वचिन्मात्राय । याथार्ध्यप्रतिभास्वराय नमः । ३०० ॥ ॐ चिदम्बरसभानटाय नमः ॥ ॥ इति श्रीचिदम्बरपञ्चाक्षरीत्रिशतीनामावलिः समाप्ता ॥ इत्येवं स्तोत्रराजं तत् चिदम्बर सभापतेः । पश्चाक्षराङ्कितं नाम्नां शतत्रयमुदाहृतम् ॥ १॥ प्रदोषकालेऽप्यार्द्रायां सोमवारे विशेषतः । शुक्रवारे तथाप्यन्ये यस्मिन् कस्मिन्दिनेऽपि वा ॥ २॥ शिवस्य सन्निधौ बिल्व मूले पुण्य सरित्तटे । स्थित्वा जपेद्विशेषेण क्षुद्र शान्तिकरं महत् ॥ ३॥ आर्द्रा नक्षत्रमारभ्य पुनरार्द्रान्तमादरात् । दिनसङ्ख्यानुगुण्येन जपेत् सर्वार्थदं परम् ॥ ४॥ नामैकस्यास्य नार्हन्ति तुलामन्यानि भो द्विजाः । गोप्याद्गोप्यतरं ज्ञेयं पठनात्सर्वसिद्धिदम् ॥ ५॥ माधवाय पुरा गौर्यै प्रोक्तमेतत् शिवेन तु । सर्व सम्पत्करं पुंसां आयुरारोग्यदायकम् ॥ ६॥ त्रिकालं यः पठेन्नित्यं शिवसायुज्यमाप्नुयात् । इति श्रीचिदम्बररहस्ये महेतिहासे द्वितीयांशे श्रीनटेश्वर नाम त्रिशती स्तोत्रवर्णनं नाम सप्तविंशोऽध्यायः ॥ ॐ चित्सभेशाय विद्महे ताण्डवेशाय धीमहि । तन्नो रुद्रः प्रचोदयात् ॥ ॐ चिदम्बर ताण्डवाय विद्महे त्रैलोक्यनाथाय धीमहि । तन्नो भर्गः प्रचोदयात् ॥ ॐ ताण्डवेश्वराय विद्महे चिदम्बरेशाय धीमहि । तन्नो नटेशः प्रचोदयात् ॥ ॥ इति शिवम् ॥