अक्षर आकार:

श्रीचिदम्बरपञ्चचामरस्तोत्रम्

Shri Chidambara Panchachamara Stotram

श्रीचिदम्बरपञ्चचामरस्तोत्रम्

कदम्बकाननप्रियं चिदम्बया विहारिणं मदेभकुम्भगुम्फितस्वडिम्भलालनोत्सुकम् । सदम्भकामखण्डनं सदम्बुवाहिनीधरं हृदम्बुजे जगद्गुरुं चिदम्बरं विभावये ॥ १॥ समस्तभक्तपोषणस्वहस्तबद्धकङ्कणं प्रशस्तकीर्तिवैभवं निरस्तसज्जनापदम् । करस्थमुक्तिसाधनं शिरःस्थचन्द्रमण्डनं हृदम्बुजे जगद्गुरुं चिदम्बरं विभावये ॥ २॥ जटाकिरीटमण्डितं निटाललोचनान्वितं पटीकृताष्टदिक्तटं पटीरपङ्कलेपनम् । नटौघपूर्वभाविनं कुठारपाशधारिणं हृदम्बुजे जगद्गुरुं चिदम्बरं विभावये ॥ ३॥ कुरङ्गशावशोभितं चिरं गजाननार्चितं पुराङ्गानाविचारदं वराङ्गरागरञ्जितम् । खराङ्गजातनाशकं तुरङ्गमीकृतागमं हृदम्बुजे जगद्गुरूं चिदम्बरं विभावये ॥ ४॥ अमन्दभाग्यभाजनं सुमन्दहाससन्मुखं सुमन्दमन्दगामिनीगिरीन्द्रकन्यकाधवम् । शमं दमं दयालुताममन्दयन्तमात्मनो हृदम्बुजे जगद्गुरुं चिदम्बरं विभावये ॥ ५॥ करीन्द्रचर्मवाससं गिरीन्द्रचापधारिणं सुरेन्द्रमुख्यपूजितं खगेन्द्रवाहनप्रियम् । अहीन्द्रभूषणोज्ज्वलं नगेन्द्रजाविलासिनं हृदम्बुजे जगद्गुरुं चिदम्बरं विभावये ॥ ६॥ मलापहारिणीतटे सदा विलासकारिणं बलारिशापभञ्जनं ललामरूपलोचनम् । लसत्फणीन्द्रहारिणं ज्वलत्त्रिशूलधारिणं हृदम्बुजे जगद्गुरुं चिदम्बरं विभावये ॥ ७॥ शशाङ्कभानुवीतिहोत्रराजितत्रिलोचनं विशालवक्षसं सुदीर्घबाहुदण्डमण्डितम् । दिगम्बरोल्लसद्वपुर्धरं धरारथान्वितं हृदम्बुजे जगद्गुरुं चिदम्बरं विभावये ॥ ८॥ सदन्तरङ्गसज्जनौघपापसङ्घनाशने मदान्धयुक्तदुर्जनालिशिक्षणे विचक्षणः । चिदम्बराख्यसद्गुरुस्वरूपमेत्य भूतले सदाशिवो विराजते सदा मुदान्वितो हरः ॥ ९॥ चिदम्बराख्यसद्गुरोरिदं सदा विलासिनं मुदा लिखन्ति ये सकृत् सदोपमानमष्टकम् । सदा वशे[से]त्तदालये हरिप्रिया तदानने विधिप्रिया च निश्चला जगद्गुरोरनुग्रहात् ॥ १०॥ ॥ इति श्रीचिदम्बरपञ्चचामरस्तोत्रं सम्पूर्णम् ॥