अक्षर आकार:

चन्द्रमौलीशस्तोत्रम्

chandramaulIshastotram

चन्द्रमौलीशस्तोत्रम्

श्रीगणेशाय नमः । ओङ्कारजपरतानामोङ्कारार्थं मुदा विवृण्वानम् । ओजःप्रदं नतेभ्यस्तमहं प्रणमामि चद्रमौलीशम् ॥ १॥ नम्रसुरासुरनिकरं नलिनाहङ्कारहारिपदयुगलम् । नमदिष्टदानधीरं सततं प्रणमामि चन्द्रमौलीशम् ॥ २॥ मननाद्यत्पदयोः खलु महतीं सिद्धिं जवात्प्रपद्यन्ते । मन्देतरलक्ष्मीप्रदमनिशं प्रणमामि चद्रमौलीशम् ॥ ३॥ शितिकण्ठमिन्दुदिनकरशुचिलोचनमम्बुजाक्षविधिसेव्यम् । नतमतिदानधुरीणं सततं प्रणमामि चद्रमौलीशम् ॥ ४॥ वाचो विनिवर्तते यस्मादप्राप्य सह हृदैवेति । गीयन्ते श्रुतिततिभिस्तमहं प्रणमामि चद्रमौलीशम् ॥ ५॥ यच्छन्ति यत्पदाम्बुजभक्ताः कुतुकात्स्वभक्तेभ्यः । सर्वानपि पुरुषार्थांस्तमहं प्रणमामि चद्रमौलीशम् ॥ ६॥ पञ्चाक्षरमनुवर्णैरादौ कॢप्तां स्तुतिं पठन्नेनाम् । प्राप्य दृढां शिवभक्तिं भुक्त्वा भोगाँल्लभेत मुक्तिमपि ॥ ७॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचितं श्रीचन्द्रमौलीशस्तोत्रं सम्पूर्णम् ॥