अक्षर आकार:

चन्द्रचूडालाष्टकम्

chandrachUDAlAShTakam

चन्द्रचूडालाष्टकम्

श्रीगणेशाय नमः ॥ यमनियमाद्यङ्गयुतैर्योगैर्यत्पादपङ्कजं द्रष्टुम् । प्रयतन्ते मुनिवर्यास्तमहं प्रणमामि चन्द्रचूडालम् ॥ १॥ यमगर्वभञ्जनचणं नमतां सर्वेष्टदानधौरेयम् । शमदमसाधनसम्पल्लभ्यं ग्रणमामि, चन्द्रचूडालम् ॥ २॥ यं द्रोणबिल्वमुख्यैः पूजयतां द्वारि मत्तमातङ्गाः । कण्ठे लसन्ति विद्यास्तमहं प्रणमामि चन्द्रचूडालम् ॥ ३॥ नलिनभवपद्मनेत्रप्रमुखामरसेव्यमानपदपद्मम् । नतजनविद्यादानप्रवणं प्रणमामि चन्द्रचूडालम् ॥ ४॥ नुतिभिर्देववराणां मुखरीकृतमन्दिरद्वारम् । स्तुतमदिमवाक्ततिभिः सततं प्रणमामि चन्द्रचूडालम् ॥ ५॥ जन्तोस्तव पादपूजनकरणात्करपद्मगाः पुमर्थाः स्युः । मुरहरपूजितपादं तमहं प्रणमामि चन्द्रचूडालम् ॥ ६॥ चेतसि चिन्तयतां यत्पदपद्मं सत्वरं वक्त्रात् । निःसरति वाक्सुधामा तमहं प्रणमामि चन्द्रचूडालम् ॥ ७॥ नम्राज्ञानतमस्ततिदूरीकरणाय नेत्रलक्ष्माद्यः । धत्तेऽग्निचद्रसूर्यांस्तमहं प्रणमामि चन्द्रचूडालम् ॥ ८॥ अष्टकमेतत्पठतां स्पष्टतरं कष्टनाशनं पुंसाम् । अष्ट ददाति हि सिद्धिरिष्टसमष्टीश्च चन्द्रचूडालः ॥ ९॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचितं श्रीचद्रचूडालाष्टकं सम्पूर्णम् ॥