अक्षर आकार:

भेदभङ्गाभिधानस्तोत्रम्

bhedabha~NgAbhidhAnastotram

भेदभङ्गाभिधानस्तोत्रम्

श्रीगणेशाय नमः ॥ चतुर्वाहनाभ्यम्बुजाद्भूतवन्तं भवन्तं भवच्छेदकर्तारमुग्रम् । मुखानां चतुष्कं दधानं प्रधानं शिवं सृष्टिकर्तारमीशानमीडे ॥ १॥ उमाङ्कश्रितं स्वं करं चोत्क्षिपन्तं गिरीशोत्तमाङ्गस्थचन्द्रं दिधीर्षुम् । मुहुर्गर्जितं सस्मितं सर्वपूज्यं शिवं विघ्नहर्तारमीशानमीडे ॥ २॥ सुमेरोः समन्तात्सदैवाशु यन्तं सहस्रोस्रभासा नभो भासयन्तम् । जगद्भद्रहेतोर्धृतानेकरूपं शिवं व्याधिहर्तारमीशानमीडे ॥ ३॥ रमाजानकीरुक्मिणीजाम्बवत्याद्यनेकस्वशक्तिस्फुरद्वामभागम् । हृषीकेशरामाघशित्र्वादिसंज्ञं शिवं सर्वदातारमीशानमीडे ॥ ४॥ धनाध्यक्षरूपेण ऋक्थान्यवन्तं कुबेरालकेशादिनामौघवन्तम् । पुलस्त्यान्वयोत्पत्तिभाजं विराजं शिवं द्रव्यदातारमीशानमीडे ॥ ५॥ प्रशस्तारुविद्यानिधानं सुधानं स्वभूस्वापपर्यङ्कतां सन्दधानम् । अनन्तावतारच्छलेनाधिशीर्षं शिवं भूमिधर्तारमीशानमीडे ॥ ६॥ अनेकक्रियारूपनामप्रकाशैर्निजं देवतापञ्चकं दर्शयन्तम् । तथैवावतारान् दशान्यांश्च लोके नटं वाखिलं दैवतं ज्योतिरीडे ॥ ७॥ श्रुतेर्नेह नानेति शब्दप्रमाणैर्मुनिभ्यस्तदर्थावयवैः पुराणैः । निजामेकतां द्योतयन्तां सुधीभ्यः सदासच्चिदात्मानमीशानमीडे ॥ ८॥ अजस्रेश्वराराधने दत्तचेता महात्माच्युताद्याश्रमान्तः परिव्राट् । अकार्षीदिदं भेदभङ्गाभिधानं मुदे स्तोत्रमन्तर्भिदाभङ्गभाजाम् ॥ ९॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमदच्युताश्रमविरचितं भेदभङ्गाभिधानस्तोत्रं समाप्तम् ।