अक्षर आकार:

भवभञ्जनस्तोत्रम्

bhavabha~njanastotram

भवभञ्जनस्तोत्रम्

श्रीगणेशाय नमः ॥ रदच्छधाधःकृतबिम्बगर्वः पदप्रणम्राहितसर्वविद्यः । कैलासश‍ृङ्गादृतनित्यवासो धुनोतु शीघ्रं भवबन्धमीशः ॥ १॥ राकाशशाङ्खप्रतिमानकान्तिः कोकाहितप्रोल्लसदुत्तमाङ्ग । शैलेन्द्रजालिङ्गितवामभागोधुनोतु शीघ्रं भवबन्धमीशः ॥ २॥ य इदं परमं स्तोत्रं भवभञ्जननामकम् । सम्पठेत् प्रातरुत्ताय शुचिर्भूत्वा समाहितः ॥ ३॥ भवदुःङ्कविनिर्मुक्तो जायते सुरपूजितः । न पुनर्लभते जन्म भुवि शम्भुप्रसादतः ॥ ४॥ इति भवभजनस्तोत्रं सम्पूर्णम् ॥