अक्षर आकार:

श्रीभवबन्धविमोचनशिवस्तुतिः

Shri Bhavabandhavimochanashivastutih

श्रीभवबन्धविमोचनशिवस्तुतिः

रदच्छदाधःकृतबिम्बगर्वः पदप्रणम्राहितसर्वविद्यः । कैलासश‍ृङ्गादृतनित्यवासो धुनोतु शीघ्रं भवबन्धमीशः ॥ १॥ राकाशशाङ्कप्रतिमानकान्तिः कोकाहितप्रोल्लसदुत्तमाङ्गः । शैलेन्द्रजालिङ्गितवामभागो धुनोतु शीघ्रं भवबन्धमीशः ॥ २॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचिता श्रीभवबन्धविमोचनशिवस्तुतिः सम्पूर्णा ।