अक्षर आकार:

श्रीभवानीशङ्करसुप्रभातम्

Shri Bhavanishankara Suprabhatam

श्रीभवानीशङ्करसुप्रभातम्

वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये । जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥ १॥ मातस्समस्तजगतां त्रिपुरासुरारेः अर्धाङ्गहारिणि महोज्ज्वलदिव्यकान्ते । शौरीन्द्रकादि-दिविजैः परिसेविताङ्घ्रे श्रीवामदेवदयिते तव सुप्रभातम् ॥ २॥ सन्ध्यामुपास्य परिपूज्य च कामधेनूः ता दोहयन्ति विधिवद्धुतवह्निमुख्याः । प्राध्यापयन्ति मुनयः श्रुतिमन्त्रपाठान् कैलासवासवनिते तव सुप्रभातम् ॥ ३॥ प्राच्यङ्गनामरुणकाम्बरधारयन्तीं प्रेम्णा विहस्य ननु धावति सूर्यदेवः । गन्धानिलस्तु शिशिरश्च शनैः प्रवाति श्रीशैलनाथललने तव सुप्रभातम् ॥ ४॥ उत्तिष्ठ देवि वरदे कनकाद्रिवासे राजत्सहस्रदलपद्मविहारशीले । नीवारशूकतनुभास्वरपीतभासे श्रीकण्ठमानिनि शिवे तव सुप्रभातम् ॥ ५॥ शिवाकान्त शम्भो शशाङ्कार्धमौले महेशान शूलिन् जटाजूटधारिन् । नमस्ते विभो विश्वमूर्ते सुमूर्ते भवानीपते ते शिवं सुप्रभातम् ॥ ६॥ रामेश्वराधिष्ठितभव्यलिङ्ग संस्तूयमानामरसार्वभौम । चित्रापुरश्रीमठमुख्यदेव शम्भो भवानीधव सुप्रभातम् ॥ ७॥ लिपिब्रह्मरूपिन् गुणातीतरूप चिदाकाशरूपिन् भवातीतरूप । महालिङ्गरूपिन् क्षरातीतरूप भवानीपते ते शिवं सुप्रभातम् ॥ ८॥ चिदानन्दमूर्ते सुरानन्दकर्त्रे परानन्दमूर्ते शिवानन्ददात्रे । भवानन्दमूर्ते स्मरानन्दहर्त्रे भवानीपते ते शिवं सुप्रभातम् ॥ ९॥ त्राहि त्राहि महेश शङ्कर विभो संसारदुःखार्णवात् सुज्ञानाश्रय शङ्करादियतिभिः चित्रापुराधिष्ठितैः । श्रीमच्छङ्करदेशिकेन्द्रविमलैश्छात्रैः सदा पूजित हे शम्भो तव सुप्रभातममलं श्रीमद्भवानीपते ॥ १०॥ पुरारे स्मरारे सदा तापहार मुरारेर्व्यथारे महापापहार । सुरारेः परारे त्रिलोकोपकार भवानीपते ते शिवं सुप्रभातम् ॥ ११॥ रमाकान्तकान्तं शिवाशोकशान्तम् वृषारूढदेवं शिवालिङ्गिताङ्गम् । चिताभस्मलेपं जटागाङ्गतोयम् भवानीपते ते शिवं सुप्रभातम् ॥ १२॥ महेशं सुरेशं गिरीशं गणेशं अजं निर्विकल्पं निजं निर्विकारम् । तमीशं भजे पञ्चवक्त्रं त्रिनेत्रं भवानीपते ते शिवं सुप्रभातम् ॥ १३॥ ठकारद्वयं सुस्वसायुज्यरूपम् रविग्लौ महाभूतहोतृस्वरूपम् । भजेऽहं निराकारओङ्कारवेद्यम् भवानीपते ते शिवं सुप्रभातम् ॥ १४॥ उत्तिष्ठोत्तिष्ठ देवेश उत्तिष्ठ वृषभध्वज । उत्तिष्ठ गिरिजाकान्त त्रैलोकीमङ्गलप्रद ॥ १५॥ उत्तिष्ठ शम्भो करुणार्द्रपाङ्ग ऋग्भिर्यजुर्भिश्च सुसामगीतैः । त्वां स्तौति देवर्षिमहर्षिसङ्घः त्वद्दर्शनेप्सुश्च सुरेशसङ्घः ॥ १६॥ त्वयि सुप्ते जगत्सुप्तं त्वयि जागर्ति जाग्रति । तस्मादुत्तिष्ठ लोकेश अस्माकं मङ्गलं कुरु ॥ १७॥ प्रातः स्मरामि भवदीयपदारविन्दम् गौरीकराब्जमृदुसंहननावलीढम् । स्तुत्यावदानमपि तुम्बुरुनारदाद्यैः सम्बोधयामि मम चेतसि सुप्रबोधे ॥ १८॥ कैलासे सुमनोहरे मणिमये सौधे महामण्डपे पर्यङ्के शयनीयतल्पमृदुले वामाङ्गी वामांसके । त्वद्वारिस्थितनन्दिनन्दितपदे गौराद्रिगौरीपते संविष्टं तव सुप्रभातममलं श्रीमद्भवानीपते ॥ १९॥ गोकर्णक्षेत्रमध्यस्थ परिज्ञानाश्रमैर्वरैः । संसेवितपदाब्जाय भवानीशाय मङ्गलम् ॥ २०॥ चित्रापुरमठाचार्य प्रथमैश्शङ्कराश्रमैः । भक्त्याराधितभव्याय भवानीशाय मङ्गलम् ॥ २१॥ ज्ञानवैराग्यसम्पन्न-परिज्ञानाश्रमैश्शुभैः । सम्पूजित-महेशाय भवानीशाय मङ्गलम् ॥ २२॥ शङ्कराचार्यसच्छिष्यसञ्जातैश्शङ्कराश्रमैः । संस्तुतामरपूज्याय भवानीशाय मङ्गलम् ॥ २३॥ तत्त्वज्ञानसुधासिन्धुविधुभिः केशवाश्रमैः । श्रद्धयार्चितलिङ्गाय भवानीशाय मङ्गलम् ॥ २४॥ अज्ञानतिमिरव्रातभास्करैर्वामनाश्रमैः । सन्नुताय गिरीशाय भवानीशाय मङ्गलम् ॥ २५॥ वेदवेदान्तनिष्णातकृष्णाश्रमगुरूत्तमैः । सन्नुताय त्रिणेत्राय भवानीशायमङ्गलम् ॥ २६॥ चित्रापुरनवोन्मेषपाण्डुरङ्गाश्रमैर्बुधैः । वन्दितामरवन्द्याय भवानीशाय मङ्गलम् ॥ २७॥ सारस्वतजनानन्दैरानन्दाश्रमयोगिभिः । दृष्टानन्दस्वरूपाय भवानीशाय मङ्गलम् ॥ २८॥ आश्रिताश्रयसन्दक्षैः परिज्ञानाश्रमैः परैः । परिज्ञाताय भर्गाय भवानीशाय मङ्गलम् ॥ २९॥ ज्ञानयोगतपोदीप्तैः सद्योजातशङ्कराश्रमैः । सम्पूजिताय साम्बाय भवानीशाय मङ्गलम् ॥ ३०॥ भस्मोद्धूलितदेहाय पञ्चवक्त्राय शम्भवे । गङ्गाधराय शर्वाय भवानीशाय मङ्गलम् ॥ ३१॥ देवदानव-गन्धर्व-सिद्धयक्षोरगादिभिः । वन्दिताङ्घ्रिसरोजाय भवानीशाय मङ्गलम् ॥ ३२॥ मङ्गलं ते महेशाय मङ्गलं मृगधारिणे । मङ्गलं महते तुभ्यं भवानीशाय मङ्गलम् ॥ ३३॥ यत्पादस्मरणं मुदा कलयतां बद्धादराणां हृदि सर्वाघौघहरं कलेर्मलहरं प्रातः स्मरं रुग्घरम् । सर्वैश्वर्यकरं सदा सुखकरं सन्मार्गदीपं मृड त्वत्पादस्मरणं भवेत् प्रतिभवं सन्मङ्गलं मङ्गलम् ॥ ३४॥ इति श्री भवानीशङ्करसुप्रभातं सम्पूर्णम् ।