अक्षर आकार:

भक्तशरणस्तोत्रम्

bhaktasharaNastotram

भक्तशरणस्तोत्रम्

श्रीगणेशाय नमः ॥ आर्द्रान्तःकरणस्त्वं यस्मादीशान भक्तवृन्देषु । आर्द्रोत्सवप्रियोऽतः श्रीकण्ठात्रास्ति नैव सन्देहः ॥ १॥ द्रष्टॄंस्तवोत्सवस्य हि लोकान्यपात्तथा मृत्योः । भा भीरस्त्विति शम्भो मध्ये तिर्यग्गतागतैर्ब्रूषे ॥ २॥ प्रकरोति करुणयाऽऽर्द्रान् शम्भुर्नम्रानिति प्रबोधाय । धर्मोऽयं किल लोकानार्द्रान्कुरुतेऽद्य गौरीश ॥ ३॥ आद्रा नटेशस्य मनोऽब्जवृत्तिरित्यर्थसम्बोधकृते जनानाम् । आर्द्रर्क्ष एवोत्सवमाह शस्तं पुराणजालं तव पार्वतीश ॥ ४॥ बाणार्चने भगवतः परमेश्वरस्य प्रीतिभवेन्निरुपमेति यतः पुराणैः । सम्बोध्यते परशिवस्य ततः करोति बाणार्चनं जगति भक्तियुता जनालिः ॥ ५॥ यथान्धकं त्वं विनिहत्य शीघ्रं लोकस्य रक्षामकरोः कृपाब्धे । तथाज्ञतां मे विनिवार्य शीघ्रं विद्यां प्रयच्छाशु सभाधिनाथ ॥ ६॥ इति भक्तशरणस्तोत्रं सम्पूर्णम् ॥