अक्षर आकार:

श्रीभैरवाष्टकम् २

shrIbhairavAShTakam 2

श्रीभैरवाष्टकम् २

॥ श्रीगणेशाय नमः ॥ ॥ श्रीउमामहेश्वराभ्यां नमः ॥ ॥ श्रीगुरवे नमः ॥ ॥ श्रीभैरवाय नमः ॥ श्रीभैरवो रुद्रमहेश्वरो यो महामहाकाल अधीश्वरोऽथ । यो जीवनाथोऽत्र विराजमानः श्रीभैरवं तं शरणं प्रपद्ये ॥ १॥ पद्मासनासीनमपूर्वरूपं महेन्द्रचर्मोपरि शोभमानम् । गदाऽब्ज पाशान्वित चक्रचिह्नं श्रीभैरवं तं शरणं प्रपद्ये ॥ २॥ यो रक्तगोरश्च चतुर्भुजश्च पुरः स्थितोद्भासित पानपात्रः । भुजङ्गभूयोऽमितविक्रमो यः श्रीभैरवं तं शरणं प्रपद्ये ॥ ३॥ रुद्राक्षमाला कलिकाङ्गरूपं त्रिपुण्ड्रयुक्तं शशिभाल शुभ्रम् । जटाधरं श्वानवरं महान्तं श्रीभैरवं तं शरणं प्रपद्ये ॥ ४॥ यो देवदेवोऽस्ति परः पवित्रः भुक्तिञ्च मुक्तिं च ददाति नित्यम् । योऽनन्तरूपः सुखदो जनानां श्रीभैरवं तं शरणं प्रपद्ये ॥ ५॥ यो बिन्दुनाथोऽखिलनादनाथः श्रीभैरवीचक्रपनागनाथः । महाद्भूतो भूतपतिः परेशः श्रीभैरवं तं शरणं प्रपद्ये ॥ ६॥ ये योगिनो ध्यानपरा नितान्तं स्वान्तःस्थमीशं जगदीश्वरं वै । पश्यन्ति पारं भवसागरस्य श्रीभैरवं तं शरणं प्रपद्ये ॥ ७॥ धर्मध्वजं शङ्कररूपमेकं शरण्यमित्थं भुवनेषु सिद्धम् । द्विजेन्द्रपूज्यं विमलं त्रिनेत्रं श्रीभैरवं तं शरणं प्रपद्ये ॥ ८॥ भैरवाष्टकमेतद् यः श्रद्धा भक्ति समन्वितः । सायं प्रातः पठेन्नित्यं स यशस्वी सुखी भवेत् ॥ ९॥ ॥ श्रीगार्ग्यमुनिविरचितं भैरवाष्टकं सम्पूर्णम् ॥