अक्षर आकार:

श्रीभैरवाष्टकम्

Shri Bhairava Ashtakam

श्रीभैरवाष्टकम्

॥ श्रीगणेशाय नमः ॥ ॥ श्रीउमामहेश्वराभ्यां नमः ॥ ॥ श्रीगुरवे नमः ॥ ॥ श्रीभैरवाय नमः ॥ सकलकलुषहारी धूर्तदुष्टान्तकारी सुचिरचरितचारी मुण्डमौञ्जीप्रचारी । करकलितकपाली कुण्डली दण्डपाणिः स भवतु सुखकारी भैरवो भावहारी ॥ १॥ विविधरासविलासविलासितं नववधूरवधूतपराक्रमम् । मदविधूणितगोष्पदगोष्पदं भवपदं सततं सततं स्मरे ॥ २॥ अमलकमलनेत्रं चारुचन्द्रावतंसं सकलगुणगरिष्ठं कामिनीकामरूपम् । परिहृतपरितापं डाकिनीनाशहेतुं भज जन शिवरूपं भैरवं भूतनाथम् ॥ ३॥ सबलबलविघातं क्षेत्रपालैकपालं विकटकटिकरालं ह्यट्टहासं विशालम् । करगतकरवालं नागयज्ञोपवीतं भज जन शिवरूपं भैरवं भूतनाथम् ॥ ४॥ भवभयपरिहारं योगिनीत्रासकारं सकलसुरगणेशं चारुचन्द्रार्कनेत्रम् । मुकुटरुचिरभालं मुक्तमालं विशालं भज जन शिवरूपं भैरवं भूतनाथम् ॥ ५॥ चतुर्भुजं शङ्खगदाधरायुधं पीताम्बरं सान्द्रपयोदसौभगम् । श्रीवत्सलक्ष्मीं गलशोभिकौस्तुभं शीलप्रदं शङ्कररक्षणं भजे ॥ ६॥ लोकाभिरामं भुवनाभिरामं प्रियाभिरामं यशसाभिरामम् । कीर्त्याभिरामं तपसाऽभिरामं तं भूतनाथं शरणं प्रपद्ये ॥ ७॥ आद्यं ब्रह्मसनातनं शुचिपरं सिद्धिप्रदं कामदं सेव्यं भक्तिसमन्वितं हरिहरैः सहं साधुभिः । योग्यं योगविचारितं युगधरं योग्याननं योगिनं वन्देऽहं सकलं कलङ्करहितं सत्सेवितं भैरवम् ॥ ८॥ ॥ फलश्रुतिः ॥ भैरवाष्टकमिदं पुण्यं प्रातःकाले पठेन्नरः । दुःस्वप्ननाशनं तस्य वाञ्छितर्थफलं भवेत् ॥ ९॥ राजद्वारे विवादे च सङ्ग्रामे सङ्कटेत्तथा । राज्ञाक्रुद्धेन चाऽऽज्ञप्ते शत्रुबन्धगतेतथा दारिद्रश्चदुःखनाशाय पठितव्यं समाहितैः । न तेषां जायते किञ्चिद दुर्लभं भुवि वाञ्छितम् ॥१०॥ ॥ इति श्रीस्कान्दे महापुराणे पञ्चमेऽवन्तीखण्डे अवन्तीक्षेत्रमाहात्म्याऽऽन्तर्गते श्रीभैरवाष्टकं संपूर्णम् ॥