अक्षर आकार:

बहुरूपगर्भस्तोत्रम्

Bahurupagarbha Stotram

बहुरूपगर्भस्तोत्रम्

(शिवपूजायाम्) ॐ नमः स्वच्छन्दभैरवाय ॥ ब्रह्मादिकारणातीतं स्वशक्त्यानन्दनिर्भरम् । नमामि परमेशानं स्वच्छन्दं वीरनायकम् ॥ १॥ कैलासशिखरासीनं देवदेवं जगद्गुरुम् । पप्रच्छ प्रणता देवी भैरवं विगतामयम् ॥ २॥ श्रीदेव्युवाच - प्रायश्चित्तेषु सर्वेषु समयोल्लङ्घनेषु च । महाभयेषु घोरेषु तीव्रोपद्रवभूमिषु ॥ ३॥ च्छिद्रस्थानेषु सर्वेषु सदुपायं वद प्रभो । येनायासेन रहितो निर्दोषश्च भवेन्नरः ॥ ४॥ श्रीभैरवः उवाच - श‍ृणु देवि परं गुह्यं रहस्यं परमाद्भुतम् । सर्वपापप्रशमनं सर्वदुःखनिवारणम् ॥ ५॥ प्रायश्चित्तेषु सर्वेषु तीव्रेष्वऽपि विमोचनम् । सर्वच्छिद्रापहरणं सर्वार्तिविनिवारकम् ॥ ६॥ समयोल्लङ्घने घोरे जपादेव विमोचनम् । भोगमोक्षप्रदं देवि सर्वसिद्धिफलप्रदम् ॥ ७॥ शतजाप्येन शुद्ध्यन्ति महापातकिनोऽपि ये । तदऽर्धं पातकं हन्ति तत्पादेनोपपातकम् ॥ ८॥ कायिकं वाचिकं चैव मानसं स्पर्शदोषजम् । प्रमादादिच्छया वाऽपि सकृज्जाप्येन शुद्धयति ॥ ९॥ यागारम्भे च यागान्ते पठितव्यं प्रयत्नतः । नित्ये नैमित्तिके काम्ये परस्याप्याऽत्मनोऽपि वा ॥ १०॥ निश्छिद्रकरणं प्रोक्तं स्वभावपरिपूरणम् । द्रव्यहीने मन्त्रहीने यज्ञयोगविवर्जिते ॥ ११॥ भक्तिश्रद्धाविरहिते शुद्धिशून्ये विशेषतः । मनोविक्षेपदोषे च विलोपे पशुवीक्षिते ॥ १२॥ विधिहीने प्रमादे च जप्तव्यं सर्वकर्मसु । नाऽतः परतरो मन्त्रो नातः परतरा स्तुतिः ॥ १३॥ नातः परतरा काचित्सम्यक्प्रत्यङ्गिरा प्रिये । इयं समयविद्यानां राजराजेश्वरीश्वरि ॥ १४॥ परमाऽप्यायनं देवि भैरवस्य प्रकीर्तितम् । प्रीणनं सर्वदेवानां सर्वसौभाग्यवर्धनम् ॥ १५॥ स्तवराजमिमं पुण्यं श‍ृण्वष्वाऽवहिता प्रिये ॥ १६॥ (``अस्य श्रीबहुरूपभट्टारकस्तोत्रस्य, श्रीवामदेव ऋषिः, अनुष्टुप्छन्दः, श्रीबहुरूपभट्टारको देवता, आत्मनो वाङ्मनःकायोपार्जितपापनिवारणार्थं चतुर्वर्गसिद्ध्यर्थे पाठे विनियोगः । अघोरमन्त्रेण न्यासं कृत्वा प्राणायामः कुर्यात्॥'') (``अस्य श्रीमदघोरभट्टारक-सकल-स्वच्छन्द-भैरवमन्त्रस्य श्रीकालाग्निरुद्रभैरव ऋषिः पङ्क्तिश्छन्दः सकलभट्टारकाघोरमूर्तिर्देवता ॐ बीजम् ह्रीं शक्तिः कुरु कुरु कीलकं श्रीबहुरूपगर्भप्रीत्यर्थं पाठे विनियोगः ।'') ध्यानम् - वामे खेटकपाशशार्ङ्गविलसद्दण्डं च वीणाण्टिके बिभ्राणं ध्वजमुद्गरौ स्वनिभदे व्यङ्कं कुठारं करे । दक्षेस्यऽङ्कुशकन्दलेषुडमरून्वज्रत्रिशूलाभया- न्नुद्रस्थं शरवक्त्रमिन्दुधवलं स्वच्छन्दनाथं स्तुमः ॥ ॐ बहुरूपाय विद्महे कोटराक्षाय धीमहि । तन्नोऽघोरः प्रचोदयात् ॥ ३॥ (मूलम् - ॐ हूं अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यश्च । सर्वथा शर्व सर्वेभ्यो नमस्ते रुद्ररूपेभ्यः) १०८, ॐ श्रीभैरवः ॥ ॐ नमः परमाकाशशायिने परमात्मने । शिवाय परसंशान्तनिरानन्दपदाय ते ॥ १॥ अवाच्यायाऽप्रमेयाय प्रमात्रे विश्वहेतवे । महासामान्यरूपाय सत्तामात्रैकरूपिणे ॥ २॥ घोषादिदशधाशब्दबीजभूताय शम्भवे । नमः शान्तोग्रघोरादिमन्त्रसन्दर्भगर्भिणे ॥ ३॥ रेवतीसङ्गविस्रम्भसमाश्लेषविलासिने । नमः समरसास्वादपरानन्दोपभोगिने ॥ ४॥ भोगपाणे नमस्तुभ्यं योगीशैः पूजितात्मने । द्वयनिर्दलनोद्योगसमुल्लासितमूर्तये ॥ ५॥ सरत्प्रसरविक्षोभविसृष्टाऽखिलजन्तवे । नमो मायास्वरूपाय स्थाणवे परमेष्ठिने ॥ ६॥ घोरसंसारसम्भोगदायिने स्थितिकारिणे ॥ कालादिक्षितिपर्यन्तपालिने विभवे नमः ॥ ७॥ रेहनाय महामोहध्वान्तविध्वंसहेतवे । हृदयाम्भोजसङ्कोचभेदिने शिवभानवे ॥ ८॥ भोगमोक्षफलप्राप्तिहेतुयोगविधायिने । नमः परमनिर्वाणदायिने चन्द्रमौलये ॥ ९॥ घोष्याय सर्वमन्त्राणां सर्ववाङ्मयमूर्तये । नमः शर्वाय सर्वाय सर्वपाशापहारिणे ॥ १०॥ रवणाय रवान्ताय नमस्ते रावराविणे । नित्याय सुप्रबुद्धाय सर्वान्तरतमाय ते ॥ ११॥ घोषाय परनादान्तश्चराय खचराय ते । नमो वाक्पतये तुभ्यं भवाय भवभेदिने ॥ १२॥ रमणाय रतीशाङ्गदाहिने चित्रकर्मिणे । नमः शैलसुताभर्त्रे विश्वकर्त्रे महात्मने ॥ १३॥ नमः पारप्रतिष्ठाय सर्वान्तपदगाय ते । नमः समस्ततत्त्वाध्वव्यापिने चित्स्वरूपिणे ॥ १४॥ रेवद्वराय रुद्राय नमस्ते रूपरूपिणे । परापरपरिस्पन्दमन्दिराय नमो नमः ॥ १५॥ भरिताखिलविश्वाय योगगम्याय योगिने । नमः सर्वेश्वरेशाय महाहंसाय शम्भवे ॥ १६॥ चर्च्याय चर्चनीयाय चर्चकाय चराय ते । रवीन्दुसन्धिसंस्थाय महाचक्रेश ते नमः ॥ १७॥ सर्वानुस्यूतरूपाय सर्वाच्छादकशक्तये । सर्वभक्षाय सर्वाय नमस्ते सर्ववेदिने ॥ १८॥ रम्याय वल्लभाक्रान्तदेहार्धाय विनोदिने । नमः प्रपन्नदुष्प्राप्यसौभाग्यफलदायिने ॥ १९॥ तन्महेशाय तत्त्वार्थवेदिने भववेदिने । महाभैरवनाथाय भक्तिगम्याय ते नमः ॥ २०॥ शक्तिगर्भप्रबोधाय शरण्यायाऽशरीरिणे । शान्तिपुष्ट्यादिसाध्यार्थसाधकाय नमोऽस्तु ते ॥ २१॥ रवत्कुण्डलिनीगर्भप्रबोधप्राप्तशक्तये । उत्स्फोटनापटुप्रौढपरमाक्षरमूर्तये ॥ २२॥ समस्तव्यस्तसङ्ग्रस्तरश्मिजालोदरात्मने । नमस्तुभ्यं महामीनरूपिणे विश्वगर्भिणे ॥ २३॥ रेवारणिसमुद्भूतवह्निज्वालावभासिने । घनीभूतविकल्पात्मविश्वबन्धविभेदिने ॥ २४॥ भोगिनीस्यन्दनारूढिप्रौढिमालब्धगर्विणे । नमस्ते सर्वभक्ष्याय परमामृतलाभिने ॥ २५॥ णफकोटिसमावेशभरिताखिलसृष्टये । variation letters na/Na to pha नफ नमः शक्तिशरीराय कोटिद्वितयसङ्गिने ॥ २६॥ महामोहमलाक्रान्तजीववर्गप्रबोधिने । महेश्वराय जगतां नमः कारणबन्धवे ॥ २७॥ स्तेनोन्मूलनदक्षैकस्मृतये विश्वमूर्तये । नमस्तेऽस्तु महादेवनाम्ने परस्वधात्मने ॥ २८॥ रुग्द्राविणे महावीर्यरुरुवंशविनाशिने । रुद्राय द्राविताशेषबन्धनाय नमोनमः ॥ २९॥ द्रवत्पररसास्वादचर्वणोद्युक्तशक्तये । नमस्त्रिदशपूज्याय सर्वकारणहेतवे ॥ ३०॥ रूपातीत नमस्तुभ्यं नमस्ते बहुरूपिणे । त्र्यम्बकाय त्रिधामान्तश्चारिणे च त्रिचक्षुषे ॥ ३१॥ पेशलोपायलभ्याय भ्रान्तिभाजां महात्मने । दुर्लभाय मलाक्रान्तचेतसां तु नमोनमः ॥ ३२॥ भवप्रदाय दुष्टानां भवाय भवभेदिने । भव्यानां तन्मयानां तु सर्वदाय नमोनमः ॥ ३३॥ अणूनां मुक्तये घोरघोरसंसारदायिने । घोरातिघोरमूढानां तिरस्कर्त्रे नमोनमः ॥ ३४॥ इत्येवं स्तोत्रराजेशं महाभैरवभाषितम् । योगिनीनां परं सारं न दद्याद्यस्य कस्यचित् ॥ ३५॥ अदीक्षिते शठे क्रूरे निःसत्ये शुचिवर्जिते । नास्तिके च खले मूर्खे प्रमत्ते विप्लुतेऽलसे ॥ ३६॥ गुरुशास्त्रसदाचारदूषके कलहप्रिये । निन्दके चुम्भके क्षुद्रेऽसमयज्ञे च दाम्भिके ॥ ३७॥ दाक्षिण्यरहिते पापे धर्महीने च गर्विते । भक्तियुक्ते प्रदातव्यं न देयं परदीक्षिते ॥ ३८॥ पशूनां सन्निधौ देवि नोच्चार्यं सर्वथा क्वचित् । अस्यैव स्मृतमात्रस्य विघ्ना नश्यन्ति सर्वशः ॥ ३९॥ गुह्यका यातुधानाश्च वेताला राक्षसादयः । डाकिन्यश्च पिशाचाश्च क्रूरसत्वाश्च पूतनाः ॥ ४०॥ नश्यन्ति सर्वे पठितस्तोत्रस्यास्य प्रभावतः । खेचरी भूचरी चैव डाकिनी शाकिनी तथा ॥ ४१॥ ये चान्ये बहुधा भूता दुष्टसत्त्वा भयानकाः । व्याधिदौर्भिक्षदौर्भाग्यमारीमोहविषादयः ॥ ४२॥ गजव्याघ्रादयो भीताः पलायन्ते दिशो दश । सर्वे दुष्टाः प्रणश्यन्ति चेत्याज्ञा पारमेश्वरी ॥ ४३॥ इति श्रीललितस्वच्छन्दे बहुरूपगर्भस्तोत्रराजः सम्पूर्णः ।