अक्षर आकार:

बहुरूपगर्भस्तोत्रध्यानम्

Bahurupagarbha Stotradhyanam

बहुरूपगर्भस्तोत्रध्यानम्

ॐ त्रिपञ्चनयनं देवं जटामुकुटमण्डितम् । चन्द्रकोटिप्रतीकाशं चन्द्रार्धकृतशेखरम् ॥ १॥ पञ्चवक्त्रं विशालाक्षं सर्पगोनासमण्डितम् । वृश्चिकैरग्निवर्णाभैर्हारेण तु विराजितम् ॥ २॥ कपालमालाभरणं खड्गखेटकधारिणं पाशाङ्कुशधरं देवं शरहस्तं पिनाकिनम् ॥ ३॥ वरदाऽभयहस्तं च मुण्डखट्वाङ्गधारिणम् । वीणाडमरुहस्तं च घण्टाहस्तं त्रिशूलिनम् ॥ ४॥ वज्रदण्डकृताटोपं परश्वायुधहस्तकम् । मुद्गरेण विचित्रेण धृतेन तु विराजितम् ॥ ५॥ सिंहचर्मपरीधानं गजचर्मोत्तरीयकम् । अष्टादशभुजं देवं नीलकण्ठं सुतेजसम् ॥ ६॥ ऊर्ध्ववक्त्रं महेशानि स्फटिकाभं विचिन्तयेत् । आपीतं पूर्ववक्त्रं तु नीलोत्पलदलप्रभम् ॥ ७॥ दक्षिणं तु विजानीयाद्वामं चैव विचिन्तयेत् । दाडिमीकुसुमप्रख्यं कुङ्कुमोदकसन्निभम् ॥ ८॥ चन्द्रार्बुदप्रतीकाशं पश्चिमं तु विचिन्तयेत् । स्वच्छन्दभैरवं देवं सर्वकामफलप्रदम् ॥ ९॥ ध्यायेद्वै यस्तु युक्तात्मा क्षिप्रं सिद्ध्यति मानवः । पूर्वं या सा मया ख्याता अघोरा शक्तिरुत्तमा ॥ १०॥ यादृशं भैरवं रूपं तस्यास्तादृशमेव हि । भैरवं पूजयित्वा तु तस्योत्सङ्गगतां स्मरेत् ॥ ११॥ ईषत्करालवदनां गम्भीरविपुलस्वनाम् । प्रसन्नास्यां सदा ध्यायेत् भैरवीं विस्मितेक्षणाम् ॥ १२॥ नौम्यहं तां परब्रह्ममहिषीं चित्स्वरूपिणीम् । चराचरस्वरूपेण संस्थितां भक्तवत्सलाम् ॥ १३॥ इति बहुरूपगर्भस्तोत्रध्यानं सम्पूर्णम् ।