अक्षर आकार:

श्रीबदरीनाथ सुप्रभातम्

Shri Badarinatha Suprabhatam

श्रीबदरीनाथ सुप्रभातम्

लक्ष्मीविलास नरसिंह गुणाकरेश वैकुण्ठ केशव जनार्दन चक्रपाणे । भक्तार्तिनाशन हरे मधुकैटभारे भूयात् बदर्यधिपते तव सुप्रभातम् ॥ १॥ लक्ष्मीः प्रसन्नवदना जगदाद्यशक्तिः कृत्वाङ्गरागललितं सुमनोज्ञवेषा । संस्तौति शब्दमधुरैर्मुरमर्दनं त्वां भूयात् बदर्यधिपते तव सुप्रभातम् ॥ २॥ ब्रह्मामहेशगुरुकाव्यसरस्वती च सम्प्राप्य तुङ्गहिमश‍ृङ्गमयी प्रदेशे । संसेवयन्ति हि पदाम्बुजयुग्मकं ते भूयात् बदर्यधिपते तव सुप्रभातम् ॥ ३॥ इन्द्रादयस्सुरगणाश्च विमान दिव्यैः प्राप्ताः कराञ्जलिपुटा भवदन्तिके हि । उद्घोषयन्ति सततं जगदेकनाथं भूयात् बदर्यधिपते तव सुप्रभातम् ॥ ४॥ सूर्यादयो ग्रहगणा नभसस्स्थले च दस्रादितारकगणैस्सहितास्सुनम्राः । मन्दारचम्पककरा बहुपुष्पयुक्ताः द्रष्टुं बदर्यधिपते तव सुप्रभातम् ॥ ५॥ देवर्षिनारद सनन्दन योगिवर्याः सप्तर्षयो भृगुमरीचि वसिष्ठ मुख्याः । द्वारे पठन्ति शुभवेदसुरम्यगाथां भूयात् बदर्यधिपते तव सुप्रभातम् ॥ ६॥ रम्भादयोऽप्सरगणाः सहनृत्तगीतैः गन्धर्वतुम्बुरुमुखाः सहवाद्यघोषैः । गायन्ति गीतसरसैरिह कीर्तिपुञ्जं भूयात् बदर्यधिपते तव सुप्रभातम् ॥ ७॥ श्री शङ्करार्यमुनि मध्वमहायतीन्द्राः रामानुजार्य प्रभुवल्लभ देशिकेन्द्राः । गाथा विरच्य निगमागम तत्वसाराः नित्यं जगुस्तव यशो विमलं प्रभातम् ॥ ८॥ भास्वानुदेति विगता हिमशीतबाधा स्नात्वा च वह्निसलिले खलु यात्रिणो हि । नीत्वोपचारनिचयाः प्रभुदर्शनार्थं तिष्ठन्ति चत्वरमुखे तव सुप्रभातम् ॥ ९॥ हैमेषु राजतमयेषु घटेषु नीत्वा शीतोष्णतोयदधिदुग्धघृतादिकं च । स्नानोन्मुखा द्विजवरास्सहवेदपाठैः भूयात् बदर्यधिपते तव सुप्रभातम् ॥ १०॥ पञ्चामृतेन सलिलेन सुगन्धद्रव्यैः अभ्यङ्गनादि सुमनोहर सम्भृतैश्च । सिञ्चन्ति चार्चकवराः स्तुतिभिमनोज्ञैः भूयात् बदर्यधिपते तव सुप्रभातम् ॥ ११॥ श्रीखण्डचन्दन सुगन्धयुजा विलिप्य कौशेयरत्नखचितैश्च सुकान्तिमद्भिः । वस्त्रैर्वराभरणपुष्पचयैर्भवन्तं आभूषयन्ति सततं तव सुप्रभातम् ॥ १२॥ भोज्यानि षड्रसमयानि विधाय सूदाः दध्योदनादि घृतपायसमिश्रितानि । नित्यं प्रफुल्लमनसा विनिवेदयन्ति तुभ्यं बदर्यधिपते तव सुप्रभातम् ॥ १३॥ जाम्बूनदीय बहुमूल्यमयं सुपात्रं आपूर्य मिश्रितघृतेन वर्तिकाभिः । नीराजनेन सहवाद्यमृदङ्गघोषैः सन्तर्पयन्ति विबुधास्तव सुप्रभातम् ॥ १४॥ दैत्यं सहस्रकवचं वरदानमत्तं उन्मूलितं सुरगणा बहुधाऽर्थयन्तः । नारायणो नरसखोऽवततार भूमौ संहत्य दानवपतिं विदधे प्रभातम् ॥ १५॥ संसारसागरसमुत्तरणैकहेतोः अष्टाक्षरं सकलसिद्धिकरं सुमन्त्रम् । आविश्चकार जगदभ्युदयस्य सिद्‍ध्यै क्षेमाय मानवगुणस्य हि सुप्रभातम् ॥ १६॥ यो वै हरिः कृतयुगे बदरीवनेऽस्मिन् तेपे तपो बहुजनस्य हिताय कृच्छ्रम् । श्रीश्रीनिवास जगदेक दयैकसिन्धुः कुर्याज्जनस्य सकलस्य स सुप्रभातम् ॥ १७॥ इत्थं नरहरिं करुणाब्धिसेतुं लक्ष्मीपतिं सुरगुरुं प्रणिपत्य मूर्ध्ना । याचे मुदा द्विजवरो मुरलीधराख्यो भद्रं करोतु सततं बदरीविशालः ॥ १८॥ इति मुरलीधरशास्त्रिणा रचितं श्रीबदरीनाथ सुप्रभातं सम्पूर्णम्