अक्षर आकार:

श्रीबटुकभैरवसहस्रनामस्तोत्रम् २

Shri Batukabhairava SahasranAma Stotram 2

श्रीबटुकभैरवसहस्रनामस्तोत्रम् २

विनियोगः - ॐ अस्य श्रीबटुकभैरवसहस्रनामात्मक स्तोत्रस्य श्रीदुर्वासा ऋषिः । अनुष्टुप्छन्दः । श्रीबटुकभैरवो देवता । मम सर्वकार्यसिद्ध्यर्थ सर्वशत्रुनिवारणार्थ श्रीबटुकभैरवसहस्रनामस्तवपाठे विनियोगः । ऋष्यादिन्यासः - श्रीदुर्वासा ऋषये नमः शिरसि । अनुष्टुप् छन्दसे नमः मुखे । श्रीबटुकभैरवो देवतायै नमः हृदि । मम सर्वकार्यसिद्ध्यर्थ सर्वशत्रुनिवारणार्थं श्रीबटुकभैरवसहस्रनामस्तवपाठे विनियोगाय नमः सर्वाङ्गे । नमो भैरवरूपाय भैरवाय नमो नमः । नमो भद्रस्वरूपाय जयदाय नमो नमः ॥ १॥ नमः कल्पस्वरूपाय विकल्पाय नमो नमः । नमः शुद्धस्वरूपाय सुप्रकाशाय ते नमः ॥ २॥ नमः कङ्कालरूपाय कालरूप नमोऽस्तुते । नमस्त्र्यम्बकरूपाय महाकालाय ते नमो नमः ॥ ३॥ नमः संसारसाराय सारदाय नमो नमः । नमो भैरवरूपाय भैरवाय नमो नमः ॥ ४॥ नमः क्षेत्रनिवासाय क्षेत्रपालाय ते नमः । क्षेत्राक्षेत्रस्वरूपाय क्षेत्रकर्त्रे नमो नमः ॥ ५॥ नमो नागविनाशाय भैरवाय नमः । नमो मातङ्गरूपाय भाररूप नमोऽस्तु ते ॥ ६॥ नमः सिद्धस्वरूपाय सिद्धिदाय नमो नमः । नमः बिन्दुस्वरूपाय बिन्दुसिन्धुप्रकाशिने ॥ ७॥ नमः मङ्गलरूपाय मङ्गलाय नमो नमः । नमः सङ्कटनाशाय शङ्कराय नमो नमः ॥ ८॥ नमो धर्मस्वरूपाय धर्मदाय नमो नमः । नमोऽनन्तस्वरूपाय एकरूप नमोऽस्तु ते ॥ ९॥ नमो वृद्धिस्वरूपाय वृद्धिकामिन्नमोऽस्तुते । नमो मोहनरूपाय मोक्षरूपाय ते नमः ॥ १०॥ नमो जलदरूपाय सामरूप नमोऽस्तु ते । नमः स्थूलस्वरूपाय शुद्धरूपाय ते नमः ॥ ११॥ नमो नीलस्वरूपाय रङ्गरूपाय ते नमः । नमो मण्डलरूपाय मण्डलाय नमो नमः ॥ १२॥ नमो रुद्रस्वरूपाय रुद्रनाथाय ते नमः । नमो ब्रह्मस्वरूपाय ब्रह्मवक्त्रे नमो नमः ॥ १३॥ नमस्त्रिशूलधाराय धाराधारिन्नमोऽस्तुते । नमः संसारबीजाय विरूपाय नमो नमः ॥ १४॥ var वीररूपाय नमो विमलरूपाय भैरवाय नमो नमः । नमो जङ्गमरूपाय जलजाय नमो नमः ॥ १५॥ नमः कालस्वरूपाय कालरुद्राय ते नमः । नमो भैरवरूपाय भैरवाय नमो नमः ॥ १६॥ नमः शत्रुविनाशाय भीषणाय नमो नमः । नमः शान्ताय दान्ताय भ्रमरूपिन्नमोऽस्तु ते ॥ १७॥ नमो न्यायगम्याय योगिध्येयाय ते नमः । var न्यायगम्याय शुधाय नमः कमलकान्ताय कालवृद्धाय ते नमः ॥ १८॥ var कामवृद्धाय नमो ज्योतिःस्वरूपाय सुप्रकाशाय ते नमः । नमः कल्पस्वरूपाय भैरवाय नमो नमः ॥ १९॥ नमो जयस्वरूपाय जगज्जाड्यनिवारणे । महाभूताय भूताय भूतानां पतये नमः ॥ २०॥ नमो नन्दाय वृन्दाय वादिने ब्रह्यवादिने । नमो वादस्वरूपाय न्यायगम्याय ते नमः ॥ २१॥ नमो भवस्वरूपाय मायानिर्माणरूपिणे । विश्ववन्द्याय वन्द्याय नमो विश्वम्भराय ते ॥ २२॥ नमो नेत्रस्वरूपाय नेत्ररूपिन्नमोऽस्तु ते । नमो वरुणरूपाय भैरवाय नमो नमः ॥ २३॥ नमो यमस्वरूपाय वृद्धरूपाय ते नमः । नमः कुबेररूपाय कालनाथाय ते नमः ॥ २४॥ नमः ईशानरूपाय अग्निरूपाय ते नमः । नमः वायुस्वरूपाय विश्वरूपाय ते नमः ॥ २५॥ नमः प्राणस्वरूपाय प्राणाधिपतये नमः । नमः संहाररूपाय पालकाय नमो नमः ॥ २६॥ नमश्चन्द्रस्वरूपाय चण्डरूपाय ते नमः । नमो मन्दरवासाय वासिने सर्वयोगिनाम् ॥ २७॥ var मन्दार योगिगम्याय योग्याय योगिनां पतये नमः । नमो जङ्गमवासाय वामदेवाय ते नमः ॥ २८॥ नमः शत्रुविनाशाय नीलकण्ठाय ते नमः । नमो भक्तिविनोदाय दुर्भगाय नमो नमः ॥ २९॥ नमो मान्यस्वरूपाय मानदाय नमो नमः । नमो भूतिविभूषाय भूषिताय नमो नमः ॥ ३०॥ नमो रजःस्वरूपाय सात्त्विकाय नमो नमः । नमस्तामसरूपाय तारणाय नमो नमः ॥ ३१॥ नमो गङ्गाविनोदाय जयसन्धारिणे नमः । var जटासन्धारिणे नमो भैरवरूपाय भयदाय नमो नमः ॥ ३२॥ नमः सङ्ग्रामरूपाय सङ्ग्रामजयदायिने । सङ्ग्रामसाररूपाय पावनाय नमो नमः ॥ ३३॥ var यौवनाय नमो वृद्धिस्वरूपाय वृद्धिदाय नमो नमः । नमस्त्रिशूलहस्ताय शूलसंहारिणे नमः ॥ ३४॥ नमो द्वन्द्वस्वरूपाय रूपदाय नमो नमः । नमः शत्रुविनाशाय शत्रुबुद्धिविनाशने ॥ ३५॥ महाकालाय कालाय कालनाथाय ते नमः । नमो भैरवरूपाय भैरवाय नमो नमः ॥ ३६॥ नमः शम्भुस्वरूपाय शम्भुरूपिन्नमोऽस्तुते । नमः कमलहस्ताय डमरूहस्ताय ते नमः ॥ ३७॥ नमः कुक्कुरवाहाय वहनाय नमो नमः । नमो विमलनेत्राय त्रिनेत्राय नमो नमः ॥ ३८॥ नमः संसाररूपाय सारमेयाय वाहिने । संसारज्ञानरूपाय ज्ञाननाथाय ते नमः ॥ ३९॥ नमो मङ्गलरूपाय मङ्गलाय नमो नमः । repeated from 8 नमो न्यायविशालाय मन्त्ररूपाय ते नमः ॥ ४०॥ नमो यन्त्रस्वरूपाय यन्त्रधारिन्नमोऽस्तु ते । नमो भैरवरूपाय भैरवाय नमो नमः ॥ ४१॥ नमः कङ्कालरूपाय कलङ्काय नमो नमः । var कलङ्करूपाय नमः संसारपाराय भैरवाय नमो नमः ॥ ४२॥ रुण्डमालाविभूषाय भीषणाय नमो नमः । नमो दुखःनिवाराय विहाराय नमो नमः ॥ ४३॥ नमो दण्डस्वरूपाय क्षणरूपाय नमो नमः । नमो मुहूर्तरूपाय सर्वरूपाय ते नमः ॥ ४४॥ नमो मोदस्वरूपाय श्रोतरूपाय नमो नमः । var श्रोणरूपाय नमो नक्षत्ररूपाय क्षेत्ररूपाय ते नमः ॥ ४५॥ नमो विष्णुस्वरूपाय बिन्दुरूपाय ते नमः । नमो ब्रह्यस्वरूपाय ब्रह्यचारिन्नमोऽस्तु ते ॥ ४६॥ नमः कन्थानिवासाय पटवासाय ते नमः । नमः ज्वालनरूपाय ज्वलनाय नमो नमः ॥ ४७॥ नमो बटुकरूपाय धूर्तरूपाय ते नमः । नमो भैरवरूपाय भैरवाय नमो नमः ॥ ४८॥ नमो वैद्यस्वरूपाय वैद्यरूपिन्नमोऽस्तु ते । नमः औषधरूपाय औषयाय नमो नमः ॥ ४९॥ नमो व्याधिनिवाराय ध्याधिरूपिन्नमो नमः । नमो ज्वरनिवाराय ज्वररूपाय ते नमः ॥ ५०॥ नमो रुद्रस्वरूपाय रुद्राणां पतये नमः । विरुपाक्षाय देवाय भैरवाय नमो नमः ॥ ५१॥ नमो ग्रहस्वरूपाय ग्रहाणां पतये नमः । नमः पवित्रधाराय परशुधाराय ते नमः ॥ ५२॥ यज्ञोपवीति देवाय देवदेव नमोऽस्तु ते । var यज्ञोपवीत नमो यज्ञस्वरूपाय यज्ञानां फलदायिने ॥ ५३॥ नमो रुद्रप्रतापाय तापनाय नमो नमः । var रणप्रतापाय नमो गणेशरूपाय गणरूपाय ते नमः ॥ ५४॥ नमो रश्मिस्वरूपाय रश्मिरूपाय ते नमः । नमो मलयरूपाय रश्मिरूपाय ते नमः ॥ ५५॥ नमो विभक्तिरूपाय विमलाय नमो नमः । नमो मधुररूपाय मधुपूर्णकलापिने ॥ ५६॥ कालेश्वराय कालाय कालनाथाय ते नमः । नमो विश्वप्रकाशाय भैरवाय नमो नमः ॥ ५७॥ नमो योनिस्वरूपाय मातृरूपाय ते नमः । var भ्रातृरूपाय नमो भगिनीरूपाय भैरवाय नमो नमः ॥ ५८॥ नमो वृषस्वरूपाय कर्मरूपाय ते नमः । नमो वेदान्तवेद्याय वेदसिद्धान्तसारिणे ॥ ५९॥ नमः शाखाप्रकाशाय पुरुषाय नमो नमः । नमः प्रकृतिरूपाय भैरवाय नमो नमः ॥ ६०॥ नमो विश्वस्वरूपाय शिवरूपाय ते नमः । नमो ज्योतिःस्वरूपाय निर्गुणाय नमो नमः ॥ ६१॥ निरञ्जनाय शान्ताय निर्विकाराय ते नमः । निर्मयाय विमोहाय विश्वनाथाय ते नमः ॥ ६२॥ नमः कण्ठप्रकाशाय शत्रुनाशाय ते नमः । नमः आशाप्रकाशाय आशापूरकृते नमः ॥ ६३॥ नमो मत्स्यस्वरूपाय योगरूपाय ते नमः । नमो वाराहरूपाय वामनाय नमो नमः ॥ ६४॥ नमः आनन्दरूपाय आनन्दाय नमो नमः । नमोऽस्त्वनर्घकेशाय ज्वलत्केशाय ते नमः ॥ ६५॥ नमः पापविमोक्षाय मोक्षदाय नमो नमः । नमः कैलासनाथाय कालनाथाय ते नमः ॥ ६६॥ नमो बिन्दुदबिन्दाय बिन्दुभाय नमो नमः । नमः प्रणवरूपाय भैरवाय नमो नमः ॥ ६७॥ नमो मेरुनिवासाय भक्तवासाय ते नमः । नमो मेरुस्वरूपाय भैरवाय नमो नमः ॥ ६८॥ नमो भद्रस्वरूपाय भद्ररूपाय ते नमः । नमो योगिस्वरूपाय योगिनां पतये ते नमः ॥ ६९॥ नमो मैत्रस्वरूपाय मित्ररूपाय ते नमः । var मन्त्रस्वरूपाय नमो ब्रह्मनिवासाय काशीनाथाय ते नमः ॥ ७०॥ नमो ब्रह्माण्डवासाय ब्रह्मवासाय ते नमः । नमो मातङ्गवासाय सूक्ष्मवासाय ते नमः ॥ ७१॥ नमो मातृनिवासाय भ्रातृवासाय ते नमः । नमो जगन्निवासया जलावासाय ते नमः ॥ ७२॥ नमः कौलनिवासाय नेत्रवासाय ते नमः । नमो भैरववासाय भैरवाय नमो नमः ॥ ७३॥ नमः समुद्रवासाय वह्निवासाय ते नमः । नमश्चन्द्रनिवासाय चन्द्रावासाय ते नमः ॥ ७४॥ नमः कलिङ्गवासाय कलिङ्गाय नमो नमः । नमः उत्कलवासाय शक्रवासाय ते नमः ॥ ७५॥ var इन्द्रवासाय ते नमः नमः कर्पूरवासाय सिद्धिवासाय नमः । नमः सुन्दरवासाय भैरवाय नमो नमः ॥ ७६॥ नमः आकाशवासाय वासिने सर्वयोगिनाम् । नमो ब्राह्मणवासाय शूद्रवासाय ते नमः ॥ ७७॥ नमः क्षत्रियवासाय वैश्यवासाय ते नमः । नमः पक्षिनिवासाय भैरवाय नमो नमः ॥ ७८॥ नमः पातालमूलाय मूलावासाय ते नमः । नमो रसातलस्थाय सर्वपातालवासिने ॥ ७९॥ var रसातलवासाय नमः कङ्कालवासाय कङ्कवासाय ते नमः । नमः मन्त्रनिवासाय भैरवाय नमो नमः ॥ ८०॥ नमोऽहङ्काररूपाय रजोरूपाय ते नमः । नमः सत्त्वनिवासाय भैरवाय नमो नमः ॥ ८१॥ नमो नलिनरूपाय नलिनाङ्गप्रकाशिने । नमः सूर्यस्वरूपाय भैरवाय नमो नमः ॥ ८२॥ नमो दुष्टनिवासाय साधूपायस्वरूपिणे । नमो नम्रस्वरूपाय स्तम्भनाय नमो नमः ॥ ८३॥ पञ्चयोनिप्रकाशाय चतुर्योनिप्रकाशिने । नवयोनिप्रकाशाय भैरवाय नमो नमः ॥ ८४॥ नमः षोडशरूपाय नमः षोडशधारिणे । चतुत्षष्टिप्रकाशाय भैरवाय नमो नमः ॥ ८५॥ नमो बिन्दुप्रकाशाय सुप्रकाशाय ते नमः । var सुखप्रकाशाय नमो गणस्वरूपाय सुखरूप नमोऽस्तुते ॥ ८६॥ नमश्चाम्बररूपाय भैरवाय नमो नमः । var नमोऽम्बरस्वरूपाय नमो नानास्वरूपाय सुखरूप नमोऽस्तुते ॥ ८७॥ var मुखरूप नमो दुर्गस्वरूपाय दुःखहर्त्रे नमोऽस्तुते । var दुःखरन्त्रे नमो विशुद्धदेहाय दिव्यदेहाय ते नमः ॥ ८८॥ नमो भैरवरूपाय भैरवाय नमो नमः । नमः प्रेतनिवासाय पिशाचाय नमो नमः ॥ ८९॥ नमो निशाप्रकाशाय निशारूप नमोऽस्तु ते । नमः सोमार्धरामाय धराधीशाय ते नमः ॥ ९०॥ नमः संसारभाराय भारकाय नमो नमः । नमो देहस्वरूपाय अदेहाय नमो नमः ॥ ९१॥ देवदेहाय देवाय भैरवाय नमो नमः । विश्वेश्वराय विश्वाय विश्वधारिन्नमोऽस्तु ते ॥ ९२॥ स्वप्रकाशप्रकाशाय भैरवाय नमो नमः । स्थितिरूपाय नित्याय स्थितीनां पतये नमः ॥ ९३॥ सुस्थिराय सुकेशाय केशवाय नमो नमः । स्थविष्ठाय गरिष्ठाय प्रेष्ठाय परमात्मने ॥ ९४॥ नमो भैरवरूपाय भैरवाय नमो नमः । नमः पारदरूपाय पवित्राय नमो नमः ॥ ९५॥ नमो वेधकरूपाय अनिन्दाय नमो नमः । var ह्यनिन्द्याय नमः शब्दस्वरूपाय शब्दातीताय ते नमः ॥ ९६॥ नमो भैरवरूपाय भैरवाय नमो नमः । नमोऽनिन्द्यस्वरूपाय ह्यनिन्दाय नमः ॥ ९७॥ नमो विष्णुरूपाय भैरवाय नमो नमः । var विशदरूपाय नमः शरणरूपाय शरण्यानां नमो ॥ ९८॥ नमः शरण्यरक्षाय भैरवाय सुखाय ते । नमः स्वाहास्वरूपाय स्वधारूपाय ते नमः ॥ ९९॥ नमो वौषट्स्वरूपाय भैरवाय नमो नमः । अक्षराय नमस्तुभ्यं त्रिधामात्रास्वरूपिणे ॥ १००॥ नमोऽक्षराय शुद्धाय भैरवाय नमो नमः । अर्धमात्राय पूर्णाय सम्पूर्णाय नमो नमः ॥ १०१॥ नमो भैरवरूपाय भैरवाय नमो नमः । नमोऽष्टचक्ररूपाय ब्रह्मरूपाय ते नमः ॥ १०२॥ नमो भैरवरूपाय भैरवाय नमो नमः । नमः सृष्टिस्वरूपाय सृष्टिकर्त्रे महात्मने ॥ १०३॥ नमः पाल्यस्वरूपाय भैरवाय नमो नमः । सनातनाय नित्याय निर्गुणाय गुणाय ते ॥ १०४॥ नमः सिद्धाय शान्ताय भैरवाय नमो नमः । नमो धारास्वरूपाय खड्गहस्ताय ते नमः ॥ १०५॥ नमस्त्रिशूलहस्ताय भैरवाय नमो नमः । नमः कुण्डलवर्णाय शवमुण्डविभूषिणे ॥ १०६॥ महाकुद्धाय चण्डाय भैरवाय नमो नमः । नमो वासुकिभूषाय सर्पभूषाय ते नमः ॥ १०७॥ var सर्वभूषाय नमः कपालहस्ताय भैरवाय नमो नमः । पानपात्रमत्ताय मत्तरूपाय ते नमः ॥ १०८॥ नमो भैरवरूपाय भैरवाय नमो नमः । नमो माधवरूपाय माधवाय नमो नमः ॥ १०९॥ var माध्वाकारसुपर्णाय नमो माङ्गल्यरूपाय भैरवाय नमो नमः । नमः कुमाररूपाय स्त्रीरूपाय नमो नमः ॥ ११०॥ नमो गन्धस्वरूपाय भैरवाय नमो नमः । नमो दुर्गन्धरूपाय सुगन्धाय नमो नमः ॥ १११॥ नमः पुष्पस्वरूपाय पुष्पभूषण ते नमः । नमः पुष्पप्रकाशाय भैरवाय नमो नमः ॥ ११२॥ नमः पुष्पविनोदाय पुष्पपूजाय ते नमः । नमो भक्तिनिवासाय भक्तदुःखनिवारिणे ॥ ११३॥ भक्तप्रियाय शान्ताय भैरवाय नमो नमः । नमो भक्तिस्वरूपाय रूपदाय नमो नमः ॥ ११४॥ नमो भैरवरूपाय भैरवाय नमो नमः । नमो वासाय भद्राय वीरभद्राय ते नमः ॥ ११५॥ नमः सङ्ग्रामसाराय भैरवाय नमो नमः । नमः खट्वाङ्गहस्ताय कालहस्ताय ते नमः ॥ ११६॥ नमोऽघोराय घोराय घोराघोरस्वरूपिणे । घोरधर्माय घोराय भैरवाय नमो नमः ॥ ११७॥ घोरत्रिशूलहस्ताय घोरपानाय ते नमः । घोररूपाय नीलाय भैरवाय नमो नमः ॥ ११८॥ घोरवाहनगम्याय अगम्याय नमो नमः । घोरब्रह्मस्वरूपाय भैरवाय नमो नमः ॥ ११९॥ घोरशब्दाय घोराय घोरदेहाय ते नमः । घोरद्रव्याय घोराय भैरवाय नमो नमः ॥ १२०॥ घोरसङ्घाय सिंहाय सिद्धिसिंहाय नमो नमः । नमः प्रचण्डसिंहाय सिंहरूपाय ते नमः ॥ १२१॥ नमः सिंहप्रकाशाय सुप्रकाशाय ते नमः । नमो विजयरूपाय जगदाद्य नमो नमः ॥ १२२॥ var जयदाय नमो भार्गवरूपाय गर्भरूपाय ते नमः । नमो भैरवरूपाय भैरवाय नमो नमः ॥ १२३॥ नमो मेध्याय शुद्धाय मायाधीशाय ते नमः । नमो मेघप्रकाशाय भैरवाय नमो नमः ॥ १२४॥ दुर्ज्ञेयाय दुरन्ताय दुर्लभाय दुरात्मने । भक्तिलभ्याय भव्याय भाविताय नमो नमः ॥ १२५॥ var भविताय नमो गौरवरूपाय गौरवाय नमो नमः । नमो भैरवरूपाय भैरवाय नमो नमः ॥ १२६॥ नमो विघ्ननिवाराय विघ्ननाशिन्नमोऽस्तुते । विघ्नविद्रावणायैव भैरवाय नमो नमः ॥ १२७॥ var नमो विघ्नविदाराय नमो किंशुकरूपाय रजोरूपाय ते नमः । नमो नीलस्वरूपाय भैरवाय नमो नमः ॥ १२८॥ नमो गणस्वरूपाय गणनाथाय ते नमः । नमो विश्वविकासाय भैरवाय नमो नमः ॥ १२९॥ var विश्वप्रकाशाय नमो योगिप्रकाशाय योगिगम्याय ते नमः । नमो हेरम्बरूपाय भैरवाय नमो नमः ॥ १३०॥ नमस्त्रिधास्वरूपाय रूपदाय नमो नमः । नमः स्वरस्वरूपाय भैरवाय नमो नमः ॥ १३१॥ नमः सरस्वतीरूप बुद्धिरूपाय ते नमः । नमो वन्द्यस्वरूपाय भैरवाय नमो नमः ॥ १३२॥ नमस्त्रिविक्रमरूपाय त्रिस्वरूपाय ते नमः । नमः शशाङ्करूढाय भैरवाय नमो नमः ॥ १३३॥ var शशाङ्करूपाय नमो व्यापकरूपाय व्याप्यरूपाय ते नमः ॥ नमो भैरवरूपाय भैरवाय नमो नमः ॥ १३४॥ नमो विशदरूपाय भैरवाय नमो नमः । नमः सत्यस्वरूपाय भैरवाय नमो नमः ॥ १३५॥ var सत्त्वस्वरूपाय नमः सूक्तस्वरूपाय शिवदाय नमो नमः । नमो गङ्गास्वरूपाय यमुनारूपिणे नमः ॥ १३६॥ नमो गौरीस्वरूपाय भैरवाय नमो नमः । नमो दुःखविनाशाय दुःखमोक्षस्वरूपिणे ॥ १३७॥ महाचलाय वन्द्याय भैरवाय नमो नमः । नमो नन्दस्वरूपाय भैरवाय नमो नमः ॥ १३८॥ नमो नन्दिस्वरूपाय स्थिररूपाय ते नमः । नमो केलिस्वरूपाय भैरवाय नमो नमः ॥ १३९॥ नमः क्षेत्रनिवासाय वासिने ब्रह्मवादिने । नमः शान्ताय शुद्धाय भैरवाय नमो नमः ॥ १४०॥ नमो नर्मदरूपाय जलरूपाय ते नमः । नमो विश्वविनोदाय जयदाय नमो नमः ॥ १४१॥ नमो महेन्द्ररूपाय महनीयाय ते नमः । नमः संसृतिरूपाय शरण्याय च ते नमः ॥ १४२॥ var शरणीयाय नमस्त्रिबन्धुवासाय बालकाय नमो नमः । नमः संसारसाराय सरसां पतये नमः ॥ १४३॥ नमस्तेजःस्वरूपाय भैरवाय नमो नमः । var नमस्ते जलरूपाय नमः काव्यस्वरूपाय भैरवाय नमो नमः ॥ १४४॥ var कारुण्यरूपाय नमो गोकर्णरूपाय ब्रह्मवर्णाय ते नम । नमः शङ्करवर्णाय हस्तिकर्णाय ते नमः ॥ १४५॥ नमः विष्टरकर्णाय यज्ञकर्णाय ते नमः । नमः शम्बुककर्णाय भैरवाय नमो नमः ॥ १४६॥ नमो दिव्यसुकर्णाय कालकर्णाय ते नमः । नमो भयदकर्णाय भैरवाय नमो नमः ॥ १४७॥ नमः आकाशवर्णाय कालकर्णाय ते नमः । नमो दिग्रूपकर्णाय भैरवाय नमो नमः ॥ १४८॥ नमो विशुद्धकर्णाय विमलाय नमो नमः । नमः सहस्रकर्णाय भैरवाय नमो नमः ॥ १४९॥ नमः नेत्रप्रकाशाय सुनेत्राय नमो नमः । नमो वरदनेत्राय जयनेत्राय ते नमः ॥ १५०॥ नमो विमलनेत्राय योगिनेत्राय ते नमः । नमः सहस्रनेत्राय भैरवाय नमो नमः ॥ १५१॥ नमः कलिन्दरूपाय कलिन्दाय नमो नमः । नमो ज्योतिःस्वरूपाय ज्योतिषाय नमो नमः ॥ १५२॥ नमस्तारप्रकाशाय ताररूपिन्नमोऽस्तु ते । नमो नक्षत्रनेत्राय भैरवाय नमो नमः ॥ १५३॥ नमश्चन्द्रप्रकाशाय चन्द्ररूप नमोऽस्तु ते । नमो रश्मिस्वरूपाय भैरवाय नमो नमः ॥ १५४॥ नमः आनन्दरूपाय जयानन्दस्वरूपिणे । var जगदानन्दरूपिणे नमः द्रविडरूपाय भैरवाय नमो नमः ॥ १५५॥ नमः शङ्खनिवासाय शङ्कराय नमो नमः । नमो मुद्राप्रकाशाय भैरवाय नमो नमः ॥ १५६॥ नमो न्यासस्वरूपाय न्यासरूप नमोऽस्तुते । नमो बिन्दुस्वरूपाय भैरवाय नमो नमः ॥ १५७॥ नमो विसर्गरूपाय प्रणवरूपाय ते नमः । नमो मन्त्रप्रकाशाय भैरवाय नमो नमः ॥ १५८॥ नमो जम्बुकरूपाय जङ्गमाय नमो नमः । नमो गरूडरूपाय भैरवाय नमो नमः ॥ १५९॥ नमो लम्बुकरूपाय लम्बिकाय नमो नमः । नमो लक्ष्मीस्वरूपाय भैरवाय नमो नमः । ॥ १६०॥ नमो वीरस्वरूपाय वीरणाय नमो नमः । नमः प्रचण्डरूपाय भैरवाय नमो नमः ॥ १६१॥ नमो दम्भस्वरूपाय डमरूधारिन्नमोऽस्तु ते । नमः कलङ्कनाशाय कालनाथाय ते नमः ॥ १६२॥ नमः सिद्धिप्रकाशाय सिद्धिदाय नमो नमः । var ऋद्धिप्रकाशाय नमः सिद्धस्वरूपाय भैरवाय नमो नमः ॥ १६३॥ नमो धर्मप्रकाशाय धर्मनाथाय ते नमः । धर्माय धर्मराजाय भैरवाय नमो नमः ॥ १६४॥ नमो धर्माधिपतये धर्मध्येयाय ते नमः । नमो धर्मार्थसिद्धाय भैरवाय नमो नमः ॥ १६५॥ नमो निर्जररूपाय रूपारूपप्रकाशिने । var विरजरूपाय नमो राजप्रकाशाय भैरवाय नमो नमः ॥ १६६॥ नमः प्रतापसिंहाय प्रतापाय नमो नमः । नमः कोटिप्रतापाय भैरवाय नमो नमः ॥ १६७॥ नमः सहस्ररूपाय कोटिरूपाय ते नमः । नमः आनन्दरूपाय भैरवाय नमो नमः ॥ १६८॥ नमः संहारबन्धाय बन्धकाय नमो नमः । नमः विमोक्षरूपाय मोक्षदाय नमो नमः ॥ १६९॥ नमो विष्णुस्वरूपाय व्यापकाय नमो नमः । नमो माङ्गल्यनाथाय शिवनाथाय ते नमः ॥ १७०॥ नमो व्यालाय व्याघ्राय व्याघ्रस्तपिन्नमोऽस्तु ते । var व्याघ्ररूप नमोऽस्तु ते नमो व्यालविभूषाय भैरवाय नमो नमः ॥ १७१॥ नमो विद्याप्रकाशाय विद्यानां पतये नमः । नमो योगिस्वरूपाय क्रूररूपाय ते नमः ॥ १७२॥ नमो संहाररूपाय शत्रुनाशाय ते नमः । नमो पालकरूपाय भैरवाय नमो नमः ॥ १७३॥ नमः कारुण्यदेवाय देवदेवाय ते नमः । नमो विश्वविलासाय भैरवाय नमो नमः ॥ १७४॥ नमो नमः प्रकाशाय काशीवासिन्नमोऽस्तु ते । नमो भैरवक्षेत्राय क्षेत्रपालाय ते नमः ॥ १७५॥ नमो भद्रस्वरूपाय भद्रकाय नमो नमः । नमो भद्राधिपतये भयहन्त्रे नमोऽस्तु ते ॥ १७६॥ नमो मायाविनोदाय मायिने मदरूपिणे । नमो मत्ताय शान्ताय भैरवाय नमो नमः ॥ १७७॥ var मलाय नमो मलयवासाय कैलासाय नमो नमः । नमो कैलासवासाय कालिकातनयाय ते नमः ॥ १७८॥ नमो संसारपाराय भैरवाय नमो नमः । var संसारसाराय नमो मातृविनोदाय विमलाय नमो नमः ॥ १७९॥ नमो यमप्रकाशाय नियमाय नमो नमः । नमः प्राणप्रकाशाय ध्यानाधिपतये नमः ॥ १८०॥ नमो समाधिरूपाय निर्गुणाय नमो नमः । नमः मन्त्रप्रकाशाय मन्त्ररूपाय नमः ॥ १८१॥ नमो वृन्दविनोदाय वृन्दकाय नमो नमः । नमः बृंहितरूपाय भैरवाय नमो नमः ॥ १८२॥ नमो मान्यस्वरूपाय मानदाय नमो नमः । नमो विश्वप्रकाशाय भैरवाय नमो नमः ॥ १८३॥ नमो नैमिषपीठाय सिद्धपीठाय ते नमः । var वै स्थिरपीठाय नमो मण्डलपीठाय भक्तपीठाय ते नमः ॥ १८४॥ var उक्तपीठाय नमो यशोदानाथाय कामनाथाय ते नमः । नमो विनोदनाथाय सिद्धनाथाय ते नमः ॥ १८५॥ नमो नाथाय नाथाय ज्ञाननाथाय ते नमः । नमः शङ्करनाथाय जयनाथाय ते नमः ॥ १८६॥ नमो मुद्गलनाथाय नीलनाथाय ते नमः । नमो बालकनाथाय धर्मनाथाय ते नमः ॥ १८७॥ विश्वनाथाय नाथाय कार्यनाथाय ते नमः । नमो भैरवनाथाय महानाथाय ते नमः ॥ १८८॥ नमो ब्रह्मसनाथाय योगनाथाय ते नमः । नमो विश्वविहाराय विश्वभाराय ते नमः ॥ १८९॥ var विश्वमाराय नमो रङ्गसनाथाय रङ्गनाथाय ते नमः । नमो मोक्षसनाथाय भैरवाय नमो नमः ॥ १९०॥ नमो गोरखनाथाय गोरक्षाय नमो नमः । नमो मन्दारनाथाय नन्दनाथाय ते नमः ॥ १९१॥ नमो मङ्गलनाथाय चम्पानाथाय ते नमः । नमः सन्तोषनाथाय भैरवाय नमो नमः ॥ १९२॥ नमो निर्धननाथाय सुखनाथाय ते नमः । var नमोऽङ्गारकनाथाय नमः कारुण्यनाथाय भैरवाय नमो नमः ॥ १९३॥ नमो द्रविडनाथाय दरीनाथाय ते नमः । नमः संसारनाथाय जगन्नाथाय ते नमः ॥ १९४॥ नमो माध्वीकनाथाय मन्त्रनाथाय ते नमः । नमो न्याससनाथाय ध्याननाथाय ते नमः ॥ १९५॥ नमो गोकर्णनाथाय महानाथाय ते नमः । नमः शुभ्रसनाथाय भैरवाय नमो नमः ॥ १९६॥ नमो विमलनाथाय मण्डनाथाय ते नमः । var मण्डलेशाय नमः सरोजनाथाय मत्स्यनाथाय ते नमः ॥ १९७॥ var सत्यनाथाय ते नमो भक्तसनाथाय भक्तिनाथाय ते नमः । नमो मोहननाथाय वत्सनाथाय ते नमः ॥ १९८॥ नमो मातृसनाथाय विश्वनाथाय ते नमः । नमो बिन्दुसनाथाय जयनाथाय ते नमः ॥ १९९॥ नमो मङ्गलनाथाय धर्मनाथाय ते नमः । नमो गङ्गासनाथाय भूमिनाथाय ते नमः ॥ २००॥ नमो धीरसनाथाय बिन्दुनाथाय ते नमः । नमः कञ्चुकिनाथाय श‍ृङ्गिनाथाय ते नमः ॥ २०१॥ नमो समुद्रनाथाय गिरिनाथाय ते नमः । नमः माङ्गल्यनाथाय कद्रुनाथाय ते नमः ॥ २०२॥ var कुट्टनाथाय नमो वेदान्तनाथाय श्रीनाथाय ते नमः । नमो ब्रह्माण्डनाथाय भैरवाय नमो नमः ॥ २०३॥ नमो गिरिशनाथाय वामनाथाय ते नमः । नमः बीजसनाथाय भैरवाय नमो नमः ॥ २०४॥ नमो मन्दिरनाथाय मन्दनाधाय ते नमः । var मन्दरनाथाय नमो भैरवीनाथाय भैरवाय नमो नमः ॥ २०५॥ अम्बानाथाय नाथाय जन्तुनाथाय ते नमः । नमः कालिसनाथाय भैरवाय नमो नमः ॥ २०६॥ नमो मुकुन्दनाथाय कुन्दनाथाय ते नमः । नमः कुण्डलनाथाय भैरवाय नमो नमः ॥ २०७॥ नमोऽष्टचक्रनाथाय चक्रनाथाय ते नमः । नमो विभूतिनाथाय शूलनाथाय ते नमः ॥ २०८॥ नमो न्यायसनाथाय न्यायनाथाय ते नमः । नमो दयासनाथाय जङ्गमनाथाय ते नमः ॥ २०९॥ var जङ्गमेशाय नमो विशदनाथाय जगन्नाथाय ते नमः । नमो कामिकनाथाय भैरवाय नमो नमः ॥ २१०॥ नमः क्षेत्रसनाथाय जीवनाथाय ते नमः । नमः शैलनाथाय चैलनाथाय ते नमः ॥ २११॥ var केवलनाथाय नमो मात्रासनाथाय अमात्राय नमो नमः । नमो द्वन्द्वसनाथाय भैरवाय नमो नमः । नमः ॥ २१२॥ नमः शूरसनाथाय शूरनाथाय ते नमः । नमः सौजन्यनाथाय सौजन्याय नमो नमः ॥ २१३॥ नमो दुष्टसनाथाय भैरवाय नमो नमः । नमो भयसनाथाय बिम्बनाथाय ते नमः ॥ २१४॥ नमो भैरवनाथाय भैरवाय नमो नमः । var मायासनाथाय नमो विटङ्कनाथाय टङ्कनाथाय ते नमः ॥ २१५॥ नमश्चर्मसनाथाय खड्गनाथाय ते नमः । नमः शक्तिसनाथाय धनुर्नाथाय ते नमः ॥ २१६॥ नमो बाणसनाथाय शापनथाय ते नमः । var मानसनाथाय नमो यन्त्रसनाथाय भैरवाय नमो नमः ॥ २१७॥ नमो गण्डूषनाथाय गण्डूषाय नमो । नमो डाकिनीनाथाय भैरवाय नमो नमः ॥ २१८॥ नमो डामरनाथाय डारकाय नमो नमः । नमो डङ्कसनाथाय डङ्कनाथाय ते नमः ॥ २१९॥ नमो माण्डवनाथाय यज्ञनाथाय ते नमः । var माण्डव्यनाथाय नमो यजुःसनाथाय क्रीडानाथाय ते नमः ॥ २२०॥ नमः सामसनाथायाथर्वनाथाय ते नमः । नमः शून्याय नाथाय स्वर्गनाथाय ते नमः ह्रीं ॐ ॥ २२१॥ फलश्रुतिः - इदं नामसहस्रं मे रुद्रेण परिकीर्तितम् । यः पठेत्पाठयेद्वापि स एव मम सेवकः ॥ २२२॥ यं यं चिन्तयते कामं कारकारं प्रियाकृतिम् । यः श‍ृणोति दुरापं स तं तं प्राप्नोति मामकः ॥ २२३॥ राजद्वारे श्मशाने तु पृथिव्यां जलसन्निधौ । यः पठेन्मानवो नित्यं स शूरः स्यान्न संशयः ॥ २२४॥ एककालं द्विकालं वा त्रिकालं वा पठेन्नरः । स भवेद्बुद्धिमाँल्लोके सत्यमेव न संशयः ॥ २२५॥ यः श‍ृणोति नरो भक्त्या स एव गुणसागरः । यः श्रद्धया रात्रिकाले श‍ृणोति पठतेऽपि वा ॥ २२६॥ स एव साधकः प्रोक्तः सर्वदुष्टविनाशकः । अर्धरात्रे पठेद्यस्तु स एव पुरुषोत्तमः ॥ २२७॥ त्रिसन्ध्ये वै देवगृहे श्मशाने च विशेषतः । var त्रिसन्ध्यायां वने च मार्गगमने बले दुर्जनसन्निधौः ॥ २२८॥ यः पठेत्प्रयतो नित्यं स सुखी स्यान्न संशयः । विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ॥ २२९॥ शौर्यार्थी लभते शौर्यं पुत्रार्थी पुत्रमाप्नुयात् । एकविंशतिमन्त्रेण अक्षरेण सहैव मे ॥ २३०॥ यः पठेत्प्रातरुत्थाय सर्व काममवाप्नुयात् । रसार्थी आठमात्रेण रसं प्राप्नोति नित्यशः ॥ २३१॥ अन्नार्थी लभते चान्नं सुखार्थी सुखमाप्नुयात् । रोगी प्रमुच्यते रोगाद्बद्धो मुच्येत बन्धनात् ॥ २३२॥ शापार्थी लभते शापं सर्वशत्रुविनाशनम् । स्थावरं जङ्गमं वापि विषं सर्वं प्रणश्यति ॥ २३३॥ सर्वलोकप्रियः शान्तो मातापितृप्रियङ्करः । सङ्ग्रामे विजयस्तस्य यः पठेद्भक्तिसंयुतः ॥ २३४॥ सर्वत्र जयदं देवि स्तोत्रमेतत्प्रकीर्तितम् । इदं स्तोत्रं महापुण्यं निन्दकाय न दर्शयेत् ॥ २३५॥ var महत्पुण्यं असाधकाय दुष्टाय मातापितृविकारिणे । अधार्मिकाकुलीनाभ्यां नैतत्सोत्रं प्रकाशयेत् ॥ २३६॥ साधकाय च भक्ताय योगिने धार्मिकाय च । गुरुभक्ताय शान्ताय दर्शयेत्साधकोत्तमः ॥ २३७॥ अन्यथा पापलिप्तः स्यात्क्रोधाय भैरवोत्तमे । var स्यात्क्रोधन्नो तस्मात्सर्वप्रयत्नेन गोपनीयं प्रयत्नतः ॥ २३८॥ इदं स्तोत्रं च रुद्रेण रामस्यापि मुखेऽर्पितम् । तन्मुखान्निःसृतं लोके दरिद्रायापि साधवे ॥ २३९॥ रामेण कथितं भ्रात्रे लक्ष्मणाय महात्मने । ततो दुर्वाससा प्राप्तं तनैवोक्तं तु पाण्डवे ॥ २४०॥ पाण्डवोऽप्यब्रवीत्कृष्णं कृष्णेनेह प्रकीर्तितम् । अस्य स्तोत्रस्य माहात्म्यं रामो जानाति तत्त्वतः ॥ २४१॥ रामोऽपि राज्यं सम्प्राप्तो ह्यस्य स्तोत्रस्य पाठतः । पाण्डवोऽपि तथा राज्यं सम्प्राप्तो भैरवस्य च ॥ २४२॥ अनेन स्तोत्रपाठेन किमलभ्यं भवेदिति । सर्वलोकस्य पूज्यस्तु जायते नात्र संशयः ॥ २४३॥ ॥ इति श्रीरुद्रयामले श्रीबटुकभैरवसहस्रनामस्तोत्रं (२) सम्पूर्णम् ॥ baTuka and vaTuka are interchangeable.